०४

01 श्वोभूते पौर्णमास्येष्ट्वा प्रसूता ...{Loading}...

श्वोभूते पौर्णमास्येष्ट्वा प्रसूता देवेन सवित्रा दैव्या आप उन्दन्तु ते तनुं दीर्घायुत्वाय वर्चस इत्युपोद्य त्र्येण्या शलल्येक्षुकाण्डेनेक्षुशलाकया वा लौहेन च क्षुरेणौदुम्बरेण नि केशान्वर्तयते वापयते श्मश्रूणि १

02 ऋतमेव परमेष्ट्यृतन् नात्येति ...{Loading}...

ऋतमेव परमेष्ट्यृतं नात्येति किञ्चन । ऋते समुद्र आहित ऋते भूमिरियं श्रिता । अग्निस्तिग्मेन शोचिषा तप आक्रान्तमुष्णिहा । शिरस्तपस्याहितं वैश्वानरस्य तेजसा । ऋतेनास्य निवर्तये सत्येन परिवर्तये । तपसास्यानुवर्तये शिवेनास्योपवर्तये शग्मेनास्याभिवर्तय इति निवर्तयति २

03 तदृतन् तत्सत्यन् तद्व्रतन् ...{Loading}...

तदृतं तत्सत्यं तद्व्रतं तच्छकेयं तेन शकेयं तेन राध्यासमिति यजमानो जपति । ब्राह्मण एकहोतेति चानुवाकम् ३

04 तस्य पर्वस्वन्तरालव्रतानि ...{Loading}...

तस्य पर्वस्वन्तरालव्रतानि ४

05 न मांसमश्नाति न ...{Loading}...

न मांसमश्नाति न स्त्रियुमुपैति ५

06 ऋत्वे वा जायाम् ...{Loading}...

ऋत्वे वा जायाम् ६

07 नोपर्यास्ते ...{Loading}...

नोपर्यास्ते ७

08 जुगुप्सेतानृतात् ...{Loading}...

जुगुप्सेतानृतात् ८

09 प्राङ् शेते ...{Loading}...

प्राङ् शेते ९

10 मध्वश्नाति ...{Loading}...

मध्वश्नाति १०

11 मध्वशनं स्यादित्येकम् व्यञ्जनार्थमित्यपरम् ...{Loading}...

मध्वशनं स्यादित्येकम् । व्यञ्जनार्थमित्यपरम् ११

12 ऋतयाजी वा अन्यश्चातुर्मास्ययाज्यन्यः ...{Loading}...

ऋतयाजी वा अन्यश्चातुर्मास्ययाज्यन्यः १२

13 यो वसन्तोऽभूत्प्रावृडभूच्छरदभूदिति यजते ...{Loading}...

यो वसन्तोऽभूत्प्रावृडभूच्छरदभूदिति यजते स ऋतुयाजी । अथ यश्चतुर्षुचतुर्षु मासेषु स चातुर्मास्ययाजी । वसन्ते वैश्वदेवेन यजते प्रावृषि वरुणप्रघासैः शरदि साकमेधैरिति विज्ञायते १३

इति चतुर्थी कण्डिका इति प्रथमः पटलः


  1. Cp. Kaṇvasaṁhitā ed. Weber, p. 90. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Cf. TB 1.5.6.5. TB mentions only the thorn and the copper razor. ↩︎ ↩︎

  3. audumbareṇa. According Rudradatta this means red copper. In Sīmantonnayana however there is a reference to the thorn of porcupine and Udumbara. It is possible that the word Audumbara here may be used in the same sense. ↩︎