३४ ऋतुग्रहप्रचारः

ऋतुग्रहैः प्रचरतः । द्रोणकलशाद्गृह्यन्ते न साद्यन्ते । पूर्वेषां शेषेषूत्तरानभिगृह्णीतः । पूर्वोऽध्वर्युर्गृह्णाति । जघन्यः प्रतिप्रस्थाता । सह प्रथमौ गृह्येते सहोत्तमौ । उपयामगृहीतोऽसि मधुश्च अध्वर्युः परिप्लवया गृह्णाति । उपयामगृहीतोऽसि माधवश्च प्रतिप्रस्थाता पात्रान्तरेण गृह्णाति । पवित्रदशाभिः परिमृज्य उभौ निष्क्रामतः । अध्वर्युः - आश्राव्य प्रत्याश्राविते संप्रेष्यति ऋतुना प्रेष्य । वषट्कृते जुहोति । सावशेषं सर्वत्र । इन्द्राय मधव इदम् । प्रतिप्रस्थाताध्वर्युं प्रविशन्तं स्वयमुत्तरतो द्वारि तिष्ठन् दक्षिणस्थेन ग्रहेण परिगृह्णात्येवमेव निष्क्रामन्तं पात्रेण । अध्वर्युर्मध्ये प्रविशति निष्क्रामति च । प्रतिप्रस्थाता निष्क्रम्य आश्राव्य प्रत्याश्राविते संप्रेष्यति ऋतुना प्रेष्य । वषट्कृते जुहोति सावशेषम् । पूर्ववद्द्वारि तिष्ठति । मरुद्भ्यो माधवायेदम् । अध्वर्युः - उपयामगृहीतोऽसि शुक्रश्च गृहीत्वा पवित्रदशाभिः परिमृज्य निष्क्रामति । ऋतुना प्रेष्य वषट्कृते जुहोति । त्वष्ट्रे शुक्रायेदम् । प्रतिप्रस्थाता उपयामगृहीतोऽसि शुचिश्च गृहीत्वा पवित्रदशाभिः परिमृज्य द्वारि तिष्ठति । अध्वर्युः प्रविशति । प्रतिप्रस्थाता निष्क्रम्य ऋतुना प्रेष्य वषट्कृते जुहोति । अग्नये शुचय इदम् । अध्वर्युः - उपयामगृहीतोऽसि नभश्च गृहीत्वा । ऋतुना प्रेष्य । इन्द्राय नभस इदम् । प्रतिप्रस्थाता - उपयामगृहीतोऽसि नभस्यश्च गृहीत्वा । ऋतुना प्रेष्य । मित्रावरुणाभ्यां नभस्यायेदम् ।

पात्रयोर्मुखे पर्यावृत्य । अध्वर्युः - उपयामगृहीतोऽसीषश्च गृहीत्वा । ऋतुभिः प्रेष्य । देवाय द्रविणोदस इषायेदम् । प्रतिप्रस्थाता - उपयामगृहीतोऽस्यूर्जश्च गृहीत्वा । ऋतुभिः प्रेष्य । देवाय द्रविणोदस ऊर्जायेदम् । अध्वर्युः - उपयामगृहीतोऽसि सहश्च गृहीत्वा । ऋतुभिः प्रेष्य । देवाय द्रविणोदसे सहस इदम् । प्रतिप्रस्थाता - उपयामगृहीतोऽसि सहस्यश्च गृहीत्वा । ऋतुभिः प्रेष्य । देवाय द्रविणोदसे सहस्यायेदम् । पुनः पात्रयोर्मुखे पर्यावृत्य । अध्वर्युः - उपयामगृहीतोऽसि तपश्च । प्रतिप्रस्थाता - उपयामगृहीतोऽसि तपस्यश्च । सहोत्तमौ गृह्येते । प्रतिप्रस्थाता द्वारि तिष्ठति । अध्वर्युः ऋतुना प्रेष्य । अध्वर्यू यजतमित्यभिज्ञाय होतरेतद्यजेत्याह । एवं गृहपतिस्स्वे प्रैषान्ते । अश्विभ्यां तपायेदम् । प्रतिप्रस्थाता - ऋतुना प्रेष्य । अग्नये गृहपतये तपस्यायेदम् । द्वादशत्रयोदशचतुर्दश वा गृह्यन्ते ।

इन्द्रस्तु मरुतस्त्वष्टा अग्निरिन्द्रस्तु पञ्चमः ।

स्यान्मित्रावरुणौ षष्ठे द्रविणोदाश्चतुर्ष्वथ ॥

अश्विनावग्निगृहपौ मध्वाद्याश्चर्तवः क्रमात् ।

त्रयोदशग्रहणपक्षे । उपयामगृहीतोऽसि सꣳसर्पोऽस्यꣳहस्पत्याय त्वा अध्वर्युः प्रतिप्रस्थात्रा सह गृह्णाति । प्रतिप्रस्थातैवाश्राव्य प्रत्याश्राविते संप्रेष्यति ऋतुना प्रेष्य । उभौ जुहुतः । अग्नये गृहपतये तपस्याय सꣳसर्पायाꣳहस्पत्यायेदम् । प्रत्याक्रम्य अध्वर्योः पात्रे प्रतिप्रस्थाता संपातमवनयति । अध्वर्युः प्रतिप्रस्थातुः ।