०१ कालः

चौलोपनयन–पुं-सुवन–सीमन्ताख्य-कर्मणाम् आदौ
उदकशान्तिं कुर्वन्ति
बोधायन-गृह्ये

जन्म-नक्षत्रे, पुण्य-नक्षत्रे, विवाह-चौलोपनयन-समावर्तन-सीमन्तेषु,
अग्न्य्-आधाने, चातुर्मास्येषु यज्ञेषु, अन्येषु मङ्गल-कार्येषु,
ग्रहोपरागे, ग्रहोत्पाते,
द्विपात्सु चतुष्पात्सु भयोत्पन्ने,
दुःस्वप्ने च भयङ्करे
उदकशान्तिं कुर्यात्

इति । तत्-प्रकारः,