२५ दिग्यागः

अथैनं दिशोऽनु प्रहावयति । त्विष्यै त्वा स्वाहा । त्विष्या इदम् । पुरस्ताद्धुत्वा प्रतिप्रस्थातरनु जुहुधीत्याह । तेनैव मन्त्रेण तस्यामेव दिशि प्रतिप्रस्थाता जुहोति । एवं सर्वत्र । द्युम्नाय त्वा स्वाहा दक्षिणतः । द्युम्नायेदम् । इन्द्रियाय त्वा स्वाहा पश्चात् । इन्द्रियायेदम् । भूत्यै त्वा स्वाहा उत्तरतः । भूत्या इदम् । प्रत्याक्रम्य उपयमने शेषमानीय अन्तर्वेद्युपयमनं निधाय पूर्वस्मिन् खरे राजतं रुक्मं निधाय । धर्मासि सुधर्मा मेऽन्यस्मे ब्रह्माणि धारय । नेत्वा वातस्स्कन्दयात् तस्मिन् महावीरं प्रतिष्ठापयति ।