त्रिसाहस्र अग्निविमानम् (अशोधितम्)

अथाग्निविमानम् - अपरिष्कृतम्

पूर्वोक्तपुरुषचतुर्थ सार्धतिलोन एकादशाङ्गुलात्मकं प्रक्रमं कृत्वा तेनाग्निं विमिमीयात् । पूर्वनिहित द्वाविंशति शङ्कुषु षोडशशङ्कोः पुरतः एकादशशङ्कून्निहन्यात् । तत्र क्रमः षोडश द्वह्निभूचन्द्र शशिच्न्द्रैक भूमिषु चन्द्रैक शशिचन्द्रेषु हन्याच्छङ्कर शङ्कवः । एवं निहत्य पञ्चविंशति प्रक्रमात्मिकामेकां रज्जुमुभयतः पाशां कृत्वा तस्यां द्वादश प्रक्रमे (तायां) कर्षणार्थं चिह्नं कुर्यात् । अस्यां द्वादशिका तिर्यग्रज्जुः त्रयोदशिका अक्ष्णयारज्जुः । अस्याः पञ्चविंशतिकेति संज्ञा । अन्यां पञ्च प्रक्रमपरिमितामुभयतः पाशां कुर्य्यात् । अस्याः पञ्चिकेति संज्ञा । विमानकाले अभिमत शङ्कुषु पञ्चविंशतिकापाशयोर्मध्ये एवैषा यथा भवेत् तथा कृत्वा विमिमीयात् । षोडश शङ्कुमारभ्य प्रथमादिव्यवहारः । अथ विमानम् । षोडश शङ्कौ पञ्चिकाया एकं पाशं प्रतिमुच्य, अन्यं यत्र समं भवति तत्र प्रतिमुच्य एतयोः एवं शङ्क्वोः पञ्चविंशतिका पाशौ प्रतिमुच्य द्वादशिकां तिर्यक् कृत्वा दक्षिणतोलक्षणेनापायम्य चतृषु प्रक्रमेषु शङ्कुः । एवमुत्तरतः । इदं पुच्छाग्रम् । एवमग्रेऽपि विमानक्रमो ज्ञेयः । द्वितीयशंङ्कोर्दक्षिणतः प्रक्रमे शङ्कुः । एवमुत्तरतः । एषः प्रथमः पुच्छाप्ययः । चतुर्थशङ्कोः दक्षिणतः प्रक्रमत्रये शङ्कुः । एवमुत्तरतः । एषोऽपरः पुच्छाप्ययः । एवं च अग्रे अष्टप्रक्रमविस्तारो मध्ये द्विप्रक्रमविस्तारो मूले षट्प्रक्रमविस्तारो भवति । पञ्चप्रक्रमायामश्च पुच्छः अस्मादेवशङ्कोर्दक्षिणतः पञ्चविंशतितिलसहित द्व्यंङ्गुलाधिक सप्तप्रक्रमे शङ्कुः । एष पक्षायामः । अस्माच्छाङ्कोः दक्षिणतः एकप्रक्रमे शङ्कुः । इदं पक्षाग्रम् । एवमुत्तरतः शङ्कुत्रयं एवं पञ्चमादित्रिभ्यः शङ्कुभ्यो दक्षिणतः उत्तरतश्च शङ्कुत्रयम् । अनन्तरमष्टमशङ्कौ पाशौ विपर्यस्य दक्षिणतः उत्तरतश्च शङ्कुत्रयम् । एवं कृते सार्धपुरुषोदगायामः पुरुषविस्तार आत्मा चतुर्दशतिलाधिक एकोनाशीत्यङ्गुल उदगायामौ पुरुषमात्रविस्तारौ पक्षौ पुरुषमात्रप्रागायमे प्रक्रमविस्तार पक्षाग्रे च भवन्ति । ततो दशम शङ्कोर्दक्षिणतः प्रक्रमे शङ्कुः । एवमुत्तरतः । एवमेकादशशङ्कोर्दक्षिणतः उत्तरतश्च प्रक्रमे शङ्कुः । इदं शिरस्स्थानम् । एवं कृते शिरसि प्रक्रमात्मिकानि चत्वारि चतुरश्राणि भवन्ति । तत्र अग्रिमचतुरस्रद्वये दक्षचतुरस्रे ईशानकोणमारभ्य निर्ऋतिकोणपर्यन्तं लेखामालिख्य अक्ष्णया भागद्वयं कृत्वा आग्नेयभागं त्यजेत् । उत्तरतचतुरस्रे आग्नेयकोणमारभ्य वायव्यकोणपर्यन्तं लेखामालिख्य ईशानभागं त्यजेत् । पक्षाग्रयोरपि चत्वारि चत्वारि प्रक्रमात्मकचतुरस्राणि कृत्वा दक्षपक्षचतुरस्रेषु शिरोग्रस्थ दक्षचतुरस्रवत् आग्नेयभाग त्यागः । उत्तरत पक्षाग्रचतुरस्रेषु शिरोग्रस्थोत्तरचतुरस्रवत् ईशानभागत्यागः । अथ पक्षसन्नमनम् । अष्टप्रक्रमपरिमितामेकां रज्जुमुभयतः पाशां कृत्वा तस्यां कर्षणार्थं मध्ये चिह्नं कृत्वा दक्षपक्षायाम पश्चिमप्रान्त शंङ्क्वोः पाशौ प्रतिमुच्य लक्षणेन पूर्वतः कर्षयेत् । चिह्नं यत्र पतति तत्र शङ्कुं निहन्यात् । एवं दक्षपक्षायाम पूर्वप्रान्तशङ्क्वोः पाशौ प्रतिमुच्य पूर्वदाकृष्य चिुह्नं यत्र पतति त्तत्र शङ्कुं निहन्यात् । एवं कृते पक्षं पूर्वो अतः पश्चिम निनतो भवति । एवमुत्तर पक्षस्यापि विमानम् । ततः सर्वतः स्पन्द्ययावेष्टयेत् इति श्येन विहारः ।