०२ उद्वाहप्रयोगः

वधूवरयोः परस्परं पुष्पमालापरिवर्तनं, डोलारोहणं, सुमङ्गलीभिः स्त्रीभिः, क्षीरेण पादस्पर्शनादीनि कार्याणि यथादेशाचारं कारयित्वा वधूवरौ मण्टपं प्रवेशयेत् । वरः, आचम्य पवित्रं धृत्वा ताम्बूलं दक्षिणां च गृहीत्वा -

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

விவாஹம்

வதூவரர்கள் பரஸ்பரம் மாலை மாற்றுதல் - ஊஞ்சல், பிடி சுற்றுதல் முதலான காரியங்களை குலாசாரப்படி செய்து மண்டபத்தை ப்ரவேசித்ததும் ஆசமனம் செய்து அனுஜ்ஞை செய்து கொள்ள வேண்டும். கோத்ரஸ்ய சர்மண: மம், கோத்ராயா: நாம்ந்யா: அஸ்யா: கந்யாயாச்ச உபயோ: உத்வாஹ கர்ம யோக்யதாஸித்திமநு க்ருஹாண கர்த்தும் விஷ்வக்ஸேநம்ஸம்பூஜ்ய ஸங்கல்ப்ய கோத்ரஸ்ய சர்மண: மம, கோத்ராயா: நாம்ந்யா: அஸ்யா: கந்யாயாச்ச உபயோ: உத்வாஹ கர்மாங்கம், அங்குரார்ப்பண கர்ம கரிஷ்யே - அங்குரார்ப்பணம் செய்ய வேண்டும். ப்ராணாநாயம்ய, கோத்ரஸ்ய சர்மண: மம, [[TODO::परिष्कार्यम्??]]

[[127]]

मम, गोत्रायाः नाम्न्याः अस्याः कन्यायाश्च, उभयोः उद्वाहकर्म कर्तुं योग्यतासिद्धिमनुगृहाण ।

दर्भेष्वासीनः दर्भान्धारयमाणः प्राणानायम्य विष्वक्सेनं सम्पूज्य

गोत्रस्य शर्मणः मम, गोत्रायाः नाम्न्याः अस्याः कन्यायाश्च उभयोः उद्वाहकर्माङ्गम्, अङ्कुरार्पणकर्म करिष्ये ।

अङ्कुरार्पणं कृत्वा प्राणानायम्य-र्थं[[??]]

गोत्रस्य शर्मणः मम गोत्रायाः नाम्न्याः अस्याः कन्यायाश्च उभयोः उद्वाहकर्माङ्गं प्रतिसरबन्धकर्म करिष्ये ।

प्रतिसरं कुर्यात् । अत्र कश्चिद्विचारः । वध्वाः वामकरे बृहत्सामेति मन्त्रेण रक्षासूत्रबन्धनम् । वरस्य दक्षिणे करे ‘‘विश्वेत्ताते" इति मन्त्रेण रक्षासूत्रबन्धनमिति केचित्कुर्वन्ति । तदसाधु । उभयोरपि बृहत्सामेति मन्त्रेणैव सूत्रबन्धनमिति बोधायने गृह्ये दर्शनात् । आपस्तम्बेनानुक्तत्वात् बोधायनगृह्योक्तक्रममेवास्माभिरादृतत्वाच्च तत्रोक्तक्रम एवादरणीयः ।
(सू - सुहृदस्समवेतान्मन्त्रवतो वरान्प्रहिणुयात्तानादितो द्वाभ्याममिमन्त्रयेत ।)