०२ सौम्यव्रतम्

अपराह्णे सौम्यव्रतेनेत्यादि सङ्कल्पं वस्त्रयज्ञोपवीतादिधारणं प्रजापत्यग्निविश्वदेववर्जं काण्डर्षितर्पणम् अग्निप्रतिष्ठेत्यादिसमानं, पात्रसादनान्ते चतस्र औदुम्बरीः समिधः उदकुम्भं नववस्त्रं च सादयित्वा अग्निमुखान्ते शिष्येणान्वारब्धः ‘सोमाय काण्डर्षये स्वाहा’ ‘सोमो धेनु’मित्यादिषड्भिश्च साँहितीभ्य इत्यादिभिश्च जुहुयात् ।

ततः शिष्योऽग्नेः पुरस्तात् धान्योपरि स्थापितं सोदकं सकूर्चं वस्त्रवेष्टितं कुम्भमुपस्पृश्य ‘नमो वाच’ इत्यनुवाकं जपित्वा

[[22]]

पृथिवीसमिदित्यादिभिः चतुर्भिराज्याभ्यक्ता औदुम्बरीः समिधः अग्नावाधाय अग्ने व्रतपत इत्युपतिष्ठेत । अथाचार्यो ‘युञ्जते मन’ इत्यादीनां ‘देवा वै सत्रमासत’ इत्यादीनां चानुवाकानां प्रथमपदानि ‘युञ्जते सविते’ति वा पदद्वयं शिष्यं वाचयित्वा जयाद्युपस्थानान्तं कुर्यात् । ततः शिष्य उदकुम्भमुपस्पृश्य ‘शन्नो वातः पवता’मित्यनुवाकं जपित्वा वाचं यच्छेत् । अथ आचार्यः शिष्यस्य मुखं शिरो नववस्त्रेण प्रदक्षिणं वेष्टयित्वा अस्तमिते ग्रामं प्रापयेत् । तां रात्रिं शिष्यो वाग्यतः तिष्ठेत् आसीत वा । श्वोभूते ग्रामाद्बहिः गत्वा शिरोवेष्टनवस्त्रमपनीय आचार्याय दत्वा अग्निमुदकुम्भमादित्यमाकाशं गिरिं वत्सं सुवर्णं च यथासम्भवमाचार्यदर्शितं दृष्ट्वा ‘वयस्सुपर्णा’ इति आदित्यमुपतिष्ठेत । एवमेवोत्सर्जनं, ‘युञ्जत’ इत्यादिवाचनं शिरोवेष्टनाद्यादित्योपस्थानान्तं च वर्जयेत् । द्यौस्समित् इत्यादिभिः समिदाधानम् आदित्य व्रतपते इत्यादिभिरुपस्थानमाचार्याय वरदानं च कुर्यात् ॥