११ दधिग्रहप्रचारः

अत्र दधिग्रहेण प्रचरत्यौदुम्बरेण गृह्णाति । दधिग्रहपात्रं प्रक्षाल्य पूर्वगृहीतानां पञ्चदोहानामन्यतमं दध्यानीय उपयामगृहीतोऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि दक्षाय दक्षवृधे रातं देवेभ्योऽग्निजिह्वेभ्यस्त्वर्तायुभ्य इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्यो दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा दधि गृहीत्वा । अपेन्द्र द्विषतो मनोऽप जिज्यासतो जह्यप यो नोऽरातीयति तं जहि हरति । प्राणाय त्वापानाय त्वा व्यानाय त्वा सते त्वासते त्वाद्भ्यस्त्वौषधीभ्यो विश्वेभ्यस्त्वा भूतेभ्यो यतः प्रजा अक्खिद्रा अजायन्त तस्मै त्वा प्रजापतये विभूदाव्न्ने ज्योतिष्मते ज्योतिष्मन्तं जुहोमि स्वाहा उत्तरत आसीनो जुहोति । प्रजापतय इदम् । अत्र दधिग्रहपात्रमग्नौ प्रहरति ।