२४ महावीरे दध्नाभिपूरणम्

उपर्याहवनीये धार्यमाणं प्रतिप्रस्थाता शृतदध्नाऽभिपूरयति । अध्वर्युः :- इषे पीपिहि । ऊर्जे पीपिहि । ब्रह्मणे पीपिहि । क्षत्राय पीपिहि । अद्भ्यः पीपिहि । ओषधीभ्यः पीपिहि । वनस्पतिभ्यः पीपिहि । द्यावापृथिवीभ्यां पीपिहि । सुभूताय पीपिहि । ब्रह्मवर्चसाय पीपिहि । यजमानाय पीपिहि । मह्यं ज्यैष्ठ्याय पीपिहि विक्षरन्तमनुमन्त्रयते ।