०७ औपासनहोमः

औपासनहोमः

प्राणान् आयम्य,

‘श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं पूर्वेद्युस्-सायम्-औपासन-होमम्,
अद्य प्रातर्-औपासन-होमं च होष्यामि’

(इति सङ्कल्प्य),

कृतं च करिष्यामि … पूर्वेद्युस्सायम् औपासनहोमेन अद्य प्रातरौपासनहोमेन च कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि

इति च सङ्कल्प्य, “भगवतो बलेने"ति बलमन्त्रमनुसन्धाय,
‘भगवानेव औपासनहोमाख्यं कर्म… कारयति’ इति सात्त्विकत्यागं कृत्वा, वाम-हस्तेन पात्रं स्पृशन् दक्षिणेन पाणिना

‘ओम् अदि॒तेऽनु॑मन्यस्व’, ‘ओम् अनु॑म॒तेऽनु॑मन्यस्व’,
‘ओं सर॑स्व॒तेऽनु॑मन्यस्व’, ओं देव॑ सवितः॒ प्र सु॑व’ इति अग्निं पूर्ववत् परिषिच्य,

एकां समिधमाधाय, पत्नी-हस्तं प्रोक्ष्य, तण्डुलं प्रदाय, पुनः प्रोक्ष्य, अर्धांशं गृहीत्वा तं द्वेधा विभज्य, अग्निमध्ये,“ओम् अ॒ग्नये॒ स्वाहा᳚” (अग्नय इदं न मम) इति, उत्तरार्धपूर्वार्धे, ‘ओम् अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚’ (अग्नये स्विष्टकृत इदं न मम), दक्षिणहस्तेन देवतीर्थेन हुत्वा, एकां समिधमाधाय, अन्यम् अर्धांशं गृहीत्वा, द्वेधा विभज्य,

‘ओं सूर्या॑य॒ स्वाहा᳚ ।’ (सूर्यायेदं न मम), ‘ओम् अ॒ग्नये᳚ स्विष्ट॒कृते॒ स्वाहा᳚’ (अग्नये स्विष्टकृत इदं न मम), इति,
पूर्वनिर्दिष्टस्थाने पूर्ववत् हुत्वा, एकां समिधमाधाय,

[[16]]

आहुतिसंसर्गे सति, ‘आहुतिसंसर्गप्रायश्चितार्थं वनस्पतिहोमं करिष्ये’ इति सङ्कल्प्य,

यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या नामा॑नि ।
तत्र॑ ह॒व्यानि॑ गामय॒

इति पुनः एकां समिधमाधाय, (वनस्पतय इदं न मम)

ओम् अदि॒तेऽन्व॑मँस्थाः । ओम् अनु॑म॒तेन्व॑मँस्थाः ।
ओं सर॑स्व॒तेन्व॑मँस्थाः । ओं देव॑ सवितः॒ प्रासा॑वीः ॥ [[TODO:परिष्कार्यम्??]]

इति पूर्ववत् परिषिच्य,

‘ओं विष्ण॑वे॒ स्वाहा᳚, (श्रीविष्णवे परमात्मन इदं न मम) इति पूर्णाहुतिं हुत्वा, तण्डुले सम्यक् शृते सति, उत्थाय,

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥

इत्युपस्थाय,

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

इत्युक्त्वा प्रणम्य, अभिवाद्य, आचम्य,

‘भगवानेव … औपासनाख्यं कर्म.. कारितवान्

इति सात्त्विकत्यागं कृत्वा,

कृतञ्च करिष्यामि … प्रीयतां वासुदेवः

इति कृतं कर्म भगवति समर्पयेत् ॥

अथाग्नौ कर्तव्य-कार्याभावे [^1]आत्मसमारोपणं/ [^2]समित्समारोपणं वा कुर्यात् ।

[[17]]

[^1]: (आत्मसमारोपणम्)

> (या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्यारो॑हो॒त्मात्मान᳚म् ।  
अच्छा॒ वसू॑नि कृ॒ण्वन्न॒स्मे नर्या॑ पु॒रूणि॑ ।  
य॒ज्ञो भू॒त्वा य॒ज्ञमासी॑द॒ स्वां योनि᳚म् ।  
जात॑वेदो॒ भुव॒ आ जाय॑मान॒स्सक्ष॑य॒ एहि॑ ।) [[TODO:परिष्कार्यम्??]]

इति आत्मनि समारोपयेत् ॥

[^2] समित्समारोपणम्

> ‘अ॒यं ते॒ योनि॑र्ऋ॒त्वियः॑ । यतो॑ जा॒तो अरो॑चथाः ।  
तं जा॒नन्न॑ग्न॒ आ॑रो॒ह । अथा॑ नो वर्धया र॒यिम् ॥ [[TODO:परिष्कार्यम्??]]

इत्यग्निं समिधि आरोपयेत् ॥

नित्य-औपासन-विधिः

(अथ नित्य-औपासनविधिः)

पादौ प्रक्षाल्य, द्विराचम्य, पूर्वस्मिन् दिने आत्मसमारोपणे कृते,

उ॒पाव॑रोह जातवेदः॒ पुन॒स्त्वम् । दे॒वेभ्यो॑ ह॒व्यं व॑ह नः प्रजा॒नन्न् ।
आयुः॑ प्र॒जाँर॒यिम॒स्मासु॑ धेहि । अज॑स्रो दीदिहि नो दुरो॒णे ॥ [[TODO:परिष्कार्यम्??]]

इति मन्त्रेण आत्मसमारूढमग्निं यज्ञियकाष्ठे दर्भद्वये वा उद्गरणेन समारोप्य लौकिकाग्नौ प्रक्षिपेत् ।

[[18]]

पूर्वस्मिन् दिने समित्समारोपणे कृते तु,

आ॒जुहा॑नस्सु॒प्रती॑कः पु॒रस्ता॑ता॒दग्ने॒स्स्वां योनि॒मा सी॑द सा॒ध्या ।
अ॒स्मिन्थ्स॒धस्थे॒ अध्युत्त॑रस्मि॒न्विश्वे॑देवा॒ यज॑मानश्च सीदत ॥ [[TODO:परिष्कार्यम्??]]

उद्बु॑ध्यस्वाऽग्ने॒ प्रति॑ जागृहोनमिष्टापू॒र्ते सँसृ॑जेथाम॒यञ्च॑ ।
पुनः॑ कृ॒ण्वँस्त्वा॑ पि॒तरं॒ युवा॑नम॒न्वाताँ॑सी॒त् त्वयि॒ तन्तु॑मे॒तम् ॥ [[TODO:परिष्कार्यम्??]]

इति (मन्त्रेण) मन्त्राभ्याम् आवाहिताग्निं समिधं लौकिकाग्नौ प्रक्षिप्य,

प्रातरौपासनहोमं (‘सायमौपासनहोमम्’ इति रात्रौ) होष्यामि

इति सङ्कल्प्य, ‘कृतञ्च’ इति च बलमन्त्रं च अनुसन्धाय, सात्त्विकत्यागं कृत्वा, अग्निं प्रतिष्ठाप्य, प्राक्तोयं निधाय, प्राग्दक्षिणं परिस्तीर्य, दक्षिणानुत्तरान्, उत्तरान् अधरान् कृत्वा, अऽञ्जलिं बध्वा,

च॒त्वारि॒ शृङ्गा॒ त्रयो॑ अस्य॒ पादा॒ द्वे शी॒र्॒षे स॒प्त हस्ता॑सो अ॒स्य ।
त्रिधा॑ ब॒द्धो वृ॑ष॒भो रो॑रवीति म॒हो दे॒वो मर्त्याँ॒ आवि॑वेश ॥
ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो॑ हि जा॒तस्स उ॒ गर्भे॑ अ॒न्तः । स वि॒जाय॑मानस्स जनि॒ष्यमा॑णः प्र॒त्यङ्मुखा᳚स्तिष्ठति वि॒श्वतो॑मुखः ॥ [[TODO:परिष्कार्यम्??]]

प्राङ्मुखो देव! अग्ने! अभिमुखो भव! इति अग्निं प्रार्थ्य,

ओम् अग्नये नमः, ओं जातवेदसे नमः, ओं सहोजसे नमः, ओम् अजिराप्रभवे नमः, ओं वैश्वानराय नमः, ओं नर्यापसे नमः, ओं पङ्क्तिराधसे नमः, ओं विसर्पिणे नमः

इति प्रागादि अष्टसु दिक्षु अक्षतैस्सम्पूज्य, ‘ओं यज्ञपुरुषाय नमः’ इत्यक्षतैरभ्यर्च्य, अग्निं परिषिच्य, अग्नावेकां समिधमाधाय, तण्डुलमुष्टिमादाय, सव्यहस्ते निक्षिप्य, दक्षिणहस्तेन प्रोक्ष्य, अर्धांशं गृहीत्वा,

[[19]]

“ओं सूर्या॑य॒ स्वाहा᳚” इति मध्ये देवतीर्थेन हुत्वा, (सूर्यायेदं न मम)/ (रात्रौतु, ‘ओम् अ॒ग्नये॒ स्वाहा᳚’ (अग्नय इदं न मम ) इति) “अ॒ग्नये᳚ स्विष्ट॒कृ॒ते॒ स्वाहा᳚” इत्यग्नौ प्रागुत्तरभागे हुत्वा (अग्नये स्विष्टकृत इदं न मम) एकां समिधमाधाय ।

आहुतिसंसर्गे

आहुतिसंसर्गे सति,

आहुतिसंसर्गप्रायश्चित्तार्थं वनस्पतिहोमं करिष्ये

इति सङ्कल्प्य,

यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा॑नि ।
तत्र॑ ह॒व्यानि॑ गामय॒

इति समिधमाधाय, (वनस्पतय इदं न मम ) इत्युक्त्वा, अग्निं परिषिच्य,

‘ओं श्रीविष्ण॑वे॒ स्वाहा᳚” इति एकया समिधा दर्भद्वयेन वा पूर्णाहुतिं हुत्वा, ‘श्रीविष्णवे परमात्मन इदं न मम, तण्डुले शृते सति उत्थाय,

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॑स्मज्जु॑हु॒रा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ॥ [[TODO:परिष्कार्यम्??]]

मन्त्रहीनं - हुताशन ...{Loading}...

(अग्नये नमः)

विश्वास-प्रस्तुतिः

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

मूलम्

मन्त्रहीनं क्रियाहीनं
भक्तिहीनं हुताशन ।
यद्धुतं तु मया देव
परिपूर्णं तदस्तु ते ॥

प्रायश्चित्तान्यशेषाणि ...{Loading}...
विश्वास-प्रस्तुतिः

प्रायश्चित्तान्य् अशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषाम् अशेषाणां
कृष्णानुस्मरणं परम् ॥

मूलम्

प्रायश्चित्तान्यशेषाणि
तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां
कृष्णानुस्मरणं परम्॥

(कृष्ण कृष्ण कृष्ण॥)

इति प्रणम्य, अभिवाद्य, आचम्य,

‘भगवानेव … औपासनाख्यं कर्म .. कारितवान्’ इति सात्विकत्यागं कृत्वा, ‘कृतञ्च करिष्यामि …. प्रीयतां वासुदेवः’ इति औपासनं भगवति समर्पयेत् ॥ अथाऽऽत्मसमारोपणं, समित्समारोपणं वा पूर्वोक्तमन्त्रतः कुर्यात् ।

[[20]]