०१ परिभाषा

अथ परिभाषा

उपवेशनान्तम्

सर्वत्र कर्मादौ स्नातः
शुद्ध-वस्त्र-धरो धृतोर्ध्वपुण्ड्रः सोत्तरीयः बद्ध-शिखः
पादौ प्रक्षाल्य
द्विराचम्य
ब्राह्मणैर् अनुज्ञातः
प्राग्-अग्रेषु दर्भेषु प्राङ्-मुख उपविश्य

विष्वक्सेनार्चना

भगवन्तं ध्यात्वा
करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्थं
सपरिवारं विष्वक्सेनम् आवाह्य
आसनादि-नैवेद्य-वीटिकान्तैः+++(=ताम्बूलान्तैर्)+++ अभ्यर्च्य

सङ्कल्पान्तम्

त्रिः-प्राणान् आयम्य
“हरिर् ओम्” इत्य् उपक्रम्य
गोविन्दं त्रिः सङ्कीर्त्य

दक्षिणे जानुनि दक्षिणोत्तरौ पाणी कुर्यात्।
तत्र च सव्यस्य पाणेः अङ्गुष्ठतर्जनी-मध्ये
दक्षिणस्य पाणेः अङ्गुष्ठ-वर्जिताः चतस्रोऽङ्गुलीः कृत्वा
सव्याङ्गुष्ठं दक्षिणाङ्गुष्ठेन आवेष्ट्य अस्येत्याद्युच्चार्य
संवत्सरायनर्तु-मास-पक्ष-तिथि-वार-नक्षत्र-योग-करणानि +उक्त्वा
“श्री-भगवद्-आज्ञया भगवत्-प्रीत्यर्थं, भगवत्-कैङ्कर्य-रूपं”
+++(इति)+++ करिष्यमाणं कर्म सङ्कल्प्य

क्रिया-फलस्यात्म-गामित्वे करिष्य इति सङ्कल्पयेत्,
उद्वाहकर्म करिष्य इत्यादि ।
अन्यगामित्वे करिष्यामीति - जातकर्मणा संस्करिष्यामीत्यादि ।
क्वचित् चोदनानुसारेण सङ्कल्पयेत्,
नाम धास्यावहे, उपनेष्ये, समिध आधास्यामीत्यादि ।

[[1]]

सात्त्विकत्यागान्तम्

बल-मन्त्रम् अनुसन्धाय
“भगवानेव मयैतत् कर्म कारयती"ति बुद्ध्या
कर्म कृत्वा
अन्ते भगवदर्पणं कुर्यात्।
“भगवान्…… स्वशेषतैकरसेन मये"ति मन्त्र-द्वयं
कर्मणाम् आदावन्ते च क्रमेणानुसन्दध्यात्।

अङ्कुरार्पणम्, प्रतिसर-बन्धः, अभ्युदयं, पुण्याहवाचनम्

अन्न-प्राशन–चौलोपनयनोद्वाहेषु अङ्कुरार्पणम्,
एतेषु पुं-सुवन–सीमन्तयोश् च प्रतिसर-बन्धं,
सीमन्तान्नप्राशन-चौलोपनयनेषु अभ्युदयं पुण्याहवाचनं चादौ

गर्भाधान–पुं-सुवन–जात-कर्म–नाम-करण+
उपाकर्म–व्रत–समावर्तन–
+उद्वाह–गृह-प्रवेशेषु अन्ते
अभ्युदयं पुण्याहवाचनं च कुर्यात् ।

द्वयोः बहूनां वा कर्मणां सह-करणे
अङ्कुरादीनि सकृदेव कुर्यात् ।

स्खालित्य-समीकृतिः

प्रवृत्त-कर्मादौ
मध्ये अन्यथा कृतं चेत्
यत आरभ्य अन्यथा-कृतं
तत आरभ्य यथावत् कुर्यात् ।

एक-देशान्यथा-करणे
तावद् एव यथावत् कुर्यात् ।

प्रधान-विस्मरणे साङ्गं पुनः कुर्यात् ।

अङ्ग-विस्मरणे सर्व-प्रायश्चित्तं जुहुयात्,
‘इदं विष्णु’रिति मन्त्रं वा जपेत् ।

सर्वत्र वाग्-यमनादि-नियम-लोपे एतम् एव मन्त्रं जपेत् ॥

आधाने चोदितेन स्वाहाकारो होमद्रव्यानुक्तौ आज्येन जुहुयात् । सर्वत्र गव्यं ग्राह्यम् । तदभावे माहिषं, तदभावे आजं, तदभावे तैलम् ।

[[2]]

मन्त्राज्ञाने प्रणवो व्याहृतिर् वा ।

मुख्य-द्रव्याभावे
रूपेण, वर्णेन, क्षीरेण, पुष्पेण, फलेन, गन्धेन वा तत्-सदृशम् ।

पूर्व-पूर्वाभावे परं परं ग्राह्यम् ।+++(4)+++

समिधः

पालाश-खदिराश्वत्थौदुम्बर-वैकङ्कत-बिल्व-शम्य्-अर्क-वेतसापामार्ग-दर्भाः
पूर्व-पूर्वाभावे
पराः पराः प्रादेश-मात्राः स-त्वचः कीट-वर्जिताः अ-सुषिराः अ-वृक्णाः+++(=अ-भग्नाः)+++ परुत्+++(=गतवर्ष)+++-पराः समिधो ग्राह्याः ।

जीर्णाः स्वयं-पतिताश् च समिधो वर्जयेत् ।+++(5)+++

क्रय-क्रीतैः शूद्राहृतैर् वा समिद्-दर्भादिभिः कर्म कुर्वन्
पतितः स्यात् ।+++(5)+++

आहुतयः

माष-स्थूलाः चतुर्-अङ्गुल-दीर्घ-धाराः आज्याहुतयः ।
आर्द्रामलक-मात्रा अन्नाहुतयः ।
द्वादश-पर्व-पूरिताः पाण्याहुतयश् च कार्याः ॥

॥ इति प्रयोगचन्द्रिकायां प्रथमः खण्डः ॥