४१ होमार्थं अङ्गावदानं, वसाग्रहणं, प्रचारश्च

अध्वर्युः चतसृषूपस्तृणीते जुहूपभृतोर्वसाहोमहवन्यां समवत्तधान्यामिति । जुहूपभृतोर्हिरण्यशकला-ववधाय बर्हिषि प्लक्षशाखायामवदानान्यवद्यन् संप्रेष्यति मनोतायै हविषोऽवदीयमानस्यानुब्रू३हि । यजमानः - पञ्चहोतारं वदेत् । हृदयाद्वृक्याच्च मेदो गृहीत्वान्यत्र निधाय स्वधितेरक्तया धारया मा भेर्मा संविक्था इति हृदयस्यावदाय स्वधितिनैव हरति । ततो द्वितीयाद्यवदानम् । अथ जिह्वाया अथ वक्षस इत्यादि । यथोद्धृतानां दैवतानां द्विर्द्विरवदाय जुह्वामवदधाति । गुदं त्रैधं विभज्य स्थविमदुपयड्भ्यो निधाय मध्यमं द्वैधं विभज्य दैवतेष्ववदधाति अणिमत्सौविष्टकृतेषु । दक्षिणं दोस्सव्या श्रोणिर्गुदतृतीयमिति सौविष्टकृतानि तूष्णीमभिघार्य सकृत्सकृदवदायोपभृत्यवदधाति । त्रेधा मेदोऽवद्यति द्विभागं स्रुचोस्तृतीयं समवत्तधान्याम् । यूषे मेदोऽवधाय मेदसा स्रुचौ प्रावृत्य हिरण्यशकलमुपरिष्टात्कृत्वाऽभिघारयति । समवत्तधान्यां तूष्णीं षडाद्यानीडामवद्यति वनिष्ठुं सप्तमम् । न यजमानभागम् । वृक्यान्तं तूष्णीम् । न सुरूपवर्षवर्णे । अनस्थिभिरिडां वर्धयति । क्लोमानं प्लीहानं पुरीततं इत्यन्ववधाय मेदसा प्रावृत्य यूष्णोपसिच्याभिघारयति । अपां त्वौषधीनाꣳ रसं गृह्णामि वसाहोमहवन्यां वसाहोमं गृह्णाति । स्वधितिना धारां छिनत्ति सव्येन । द्विः पञ्चावत्तिनः अप उपस्पृश्य । अभिघार्य । श्रीरस्यग्निस्त्वा श्रीणात्वापस्समरिणन् स्वधितिना वसाहोमं प्रयौति । वातस्य त्वा ध्रज्यै पूष्णो रꣳह्या अपामोषधीनाꣳ रोहिष्यै तेनापिदधाति । ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यदैन्द्रोऽपानो अङ्गेअङ्गे वि बोभुद्देवत्वष्टर्भूरि ते सꣳ समेतु विषुरूपा यथ्सलक्ष्माणो भवथ देवत्रा यन्तमवसे सखायोऽनु त्वा माता पितरो मदन्तु अनवदानीयान्यङ्गानि शृतैस्सन्निधाय संमृशति । अथ हविषा प्रचरति । अग्नीषोमाभ्यां छागस्य हविषोऽनु ब्रूहि । अग्नीषोमाभ्यां छागस्य हविषः प्रेष्य संप्रेष्यति । याज्याया अर्धर्चे प्रतिप्रस्थाता वसाहोमं जुहोति घृतं घृतपावनः पिबत वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा त्वान्तरिक्षाय स्वाहा । आन्तरिक्षायेदम् । दिशस्स्वाहा । दिग्भ्य इदम् । प्रदिशस्स्वाहा । प्रदिग्भ्य इदम् । आदिशस्स्वाहा । आदिग्भ्य इदम् । विदिशस्स्वाहा । विदिग्भ्य इदम् । प्रतिदिशं जुहोति । उद्दिशस्स्वाहा । उद्दिग्भ्य इदम् । मध्ये । स्वाहा दिग्भ्यः । दिग्भ्य इदम् । पश्चादारभ्य प्राञ्चं हुत्वा । नमो दिग्भ्यः इत्युपतिष्ठते । वषट्कृते जुहोति । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानम् इति वा । प्रत्याक्रम्य नारिष्ठान् हुत्वा । जुह्वामुपस्तीर्य । सकृत्पृषदाज्यस्योपहत्य द्विरभिघार्य । द्विः पृषदाज्यस्योपहत्य द्विरभिघार्य पञ्चावत्तिनः । वनस्पतियागे ध्रौवसमाप्तिः । वनस्पतयेऽनुब्रू३हि । वनस्पतये प्रेष्य । वनस्पतय इदम् । वनस्पतेरहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । तत्रस्थ एवोपर्याहवनीये जुह्वामौपभृतानि विपर्यस्यन्नाह । अग्नये स्विष्टकृतेऽनु ब्रू३हि । अग्नये स्विष्टकृते प्रेष्य । अग्नये स्विष्टकृत इदम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रत्याक्रम्य जुह्वामप आनीय । वैश्वानरे हविः । आयतने स्रुचौ सादयित्वा । पर्वाञ्जनादि । मेद उपस्तीर्य । मेदसाभिघारयति । उपहूतां मैत्रावरुणषष्ठा भक्षयन्ति । प्रतिप्रस्थाता सप्तमः । वनिष्ठुमग्नीधे षडवत्तं संपादयति । तमाग्नीध्र इडावद्भक्षयति । अध्यूध्नीं होत्रे हरति ।