नीला-सूक्तम्

(“स्वाहा॑ ॥ विष्णुपत्न्या इदं न मम” इति त्यागः)।

ओं ॥ गृणाहि॒ । +++(मध्येऋच आरम्भः??)+++

घृ॒तव॑ती सवित॒र्! आधि॑पत्यै॒ᳶ
पय॑स्वती॒ रन्ति॒र्+++(←रम्)+++ +++(इयम्)+++ आशा॑ नो अस्तु ।
ध्रु॒वा दि॒शाव्ँ वि॑ष्णु-प॒त्न्य् अघो॑रा॒
ऽस्येशा॑ना॒ सह॑सो॒, या म॒नोता᳚ +++(=काचिद् देवी)+++ ।

बृह॒स्पति॑र् मात॒रिश्वो॒त वा॒युस्
स॑न्धुवा॒ना+++(←धु कम्पने)+++ वाता॑ अ॒भि नो॑ गृणन्तु ।
वि॒ष्ट॒म्भो दि॒वो, ध॒रुण॑ᳶ पृथि॒व्या,
अ॒स्येशा॑ना॒ जग॑तो॒, विष्णु॑-पत्नी ।