वाक्-नियमनम्

पावित्र्ये

04 देवताभिधानञ् चाप्रयतः ...{Loading}...

देवताभिधानं चाप्रयतः ४

+++(अपपात्रसम्भाषणे प्रायश्चित्तम् अन्यत्रोक्तम्)+++

परुष-वचने

05 परुषञ् चोभयोर् देवतानां ...{Loading}...

परुषं +++(वचनं)+++ चोभयोर् देवतानां राज्ञश् च +++(वर्जयेत्)+++ ५

08 गोर्दक्षिणानाङ् कुमार्याश्च परीवादान् ...{Loading}...

गोर्, दक्षिणानां, कुमार्याश् च परीवादान् वर्जयेत् ८

15 नासौ मे सपत्न ...{Loading}...

न “+असौ मे सपत्न” ब्रूयात् । यद्यसौ मे सपत्न इति ब्रूयाद्, द्विषन्तं भ्रातृव्यं जनयेत् १५

वचन-शैल्याम्

09 स्पृहतीञ् च गान् ...{Loading}...

+++(सस्यधान्यादिकं भक्षयन्तीं←)+++ स्पृहतीं च गां नाचक्षीत +++(तत्स्वामिने)+++ ९

10 संसृष्टाञ् च वत्सेनानिमित्ते ...{Loading}...

संसृष्टां +++(गां)+++ च वत्सेनानिमित्ते +++(नाचक्षीत तत्स्वामिने)+++१०

11 नाधेनुमधेनुरिति ब्रूयात् धेनुभव्येत्येव ...{Loading}...

नाधेनुम् अधेनुर् इति ब्रूयात् - “धेनुभव्ये"त्य् एव ब्रूयात् ११

12 न भद्रम्भद्रमिति ब्रूयात् ...{Loading}...

न भद्रम् “भद्रम्” इति ब्रूयात् । +++(तत्-स्थाने)+++ “पुण्यं प्रशास्तम्” इत्येव ब्रूयात् १२

16 नेन्द्रधनुरिति परस्मै प्रब्रूयात् ...{Loading}...

नेन्द्र-धनुर् इति परस्मै प्रब्रूयात् १६

17 न पततः सञ्चक्षीतः ...{Loading}...

न पततः +++(=पक्षिणः/ asteroids)+++ संचक्षीतः+++(=गणयेत्)+++ १७

प्रशंसायाम्

10 स्तुतिञ् च गुरोः ...{Loading}...

स्तुतिं च गुरोः समक्षं - यथा “सुस्नातम्” इति १०

साक्षिवचने

22 प्रश्नञ् च न ...{Loading}...

+++(दुर्बोध्यार्थ-)+++प्रश्नं+++(→प्रश्नोत्तरं)+++ च न विब्रूयात् २२

23 अथाप्युदाहरन्ति ...{Loading}...

अथाप्य् उदाहरन्ति +++(वक्ष्यमाणं श्लोकम्)+++ २३

24 मूलन् तूलं वृहति ...{Loading}...

मूलं तूलं+++(→आगामिनी सम्पत्)+++ वृहति+++(=उत्पाटयति)+++
दुर्विवक्तुः प्रजां पशून् आयतनं हिनस्ति ।
“धर्मप्रह्राद! न कुमालनाय +++(इदं कुकर्म)+++”
रुदन् ह मृत्युर् व्य्-उवाच +++(ऋषिकृतं)+++ प्रश्नम्
+++(“केनानवधानेन पातितेन मच्छिशुर् मृत” इति )+++

इति २४

21 न संशये प्रत्यक्षवद्ब्रूयात् ...{Loading}...

न संशये प्रत्यक्षवद्ब्रूयात् २१

वादेषु

05 अनसूयुर्दुष्प्रलम्भः स्यात्कुहकशठनास्तिकबालवादेषु ...{Loading}...

अन्-असूयुर्, दुष्-प्रलम्भः स्यात्
कुहक-शठ-नास्तिक-बाल-वादेषु ५

+++(सभानियमा अन्यत्रोक्ताः।)+++

सभाः

19 सभाः समाजांश्च ...{Loading}...

सभाः समाजांश्+++(=जनयूथं)+++ च १९

20 समाजञ् चेद्गच्छेत् प्रदक्षिणीकृत्यापेयात् ...{Loading}...

समाजं+++(=जनयूथं)+++ चेद् गच्छेत्, +++(निर्गच्छन्)+++ प्रदक्षिणी-कृत्यापेयात् २०