०५ वैश्वदेवव्रतम्

वैश्वदेवकाण्डव्रतोपक्रमः ।

आचार्यः सङ्कल्प्य इमं माणवकं वैश्वदेवव्रतं चारयिष्ये । माणवकः वैश्वदेवं व्रतं चरिष्यामि ।

निवीती भूत्वा,

विश्वान्देवान् काण्डर्षींस्तर्पयामि सांहितीः, याज्ञिकीः वारुणीः ब्रह्माणं, सदसस्पतिम्

इति तर्पयित्वा उपवीती भूत्वा यथास्थानमुपविशेत् ।

आचार्यः अग्नेरुपसमाधानाद्यग्निमुखान्तेऽन्वारब्धः विश्वे॑भ्यो दे॒वेभ्यः काण्डर्षिभ्यः स्वाहा॑ - विश्वे॑भ्यो दे॒वेभ्यः॒ काण्ड॒र्षिभ्य॒ इदन्न मम । [[TODO::परिष्कार्यम्??]]

ஆசார்யன் ஜயாதி ஆரம்பித்து உபஸ்தான பர்யந்தம் செய்ய வேண்டும். மாணவகன் கும்பத்தைத் தொட்டுக் கொண்டு சந்நோவாத: + சாந்தி: என்று ஜபம் செய்ய வேண்டும்.

பிராம்மணர்களைக் கொண்டும் செய்விக்க வேண்டும். யதாஸ்தானத்தில் உட்கார வைத்து, மாணவகனை புது ஸூர்யன் வஸ்திரத்தினால் அவன் முகத்தை மறைக்க வேண்டும். சில வினாடிகளில் கட்டை எடுத்து விட்டு, அக்னி உதகும்பம், ஆகாசம், மலை, குழந்தை தங்கம் இவைகளைப் பார்க்கச் செய்து வயஸ்ஸுபர்ணா: + பத்தாந் என்கிற மந்திரத்தினால் ஆதித்யனை உபஸ்தானம் [[TODO::परिष्कार्यम्??]]

[[103]]

आनो विश्वे॑ + वि॒थुरं न शवः स्वाहा॑ विश्वेभ्यः देवेभ्य इदन्न मम ।
शन्नोँ देवा + अप्याः स्वाहा॑ विश्वेभ्यः देवेभ्य इदन्न मम ।
ये सॅवि॒तुः + चि॒त्रम॒स्मे स्वाहा॑ विश्वेभ्यः देवेभ्य इदन्न मम ।
अग्नेँ या॒हि + विश्वा॒न्॒ स्वाहा॑ विश्वेभ्यः देवेभ्य॒ इदन्न मम ।
द्यौः पिँतः + वियॅन्त स्वाहा॑ विश्वेभ्यः देवेभ्य इदन्न मम ।
विश्वेँदेवाः + मादयध्वं स्वाहा॑ विश्वेभ्यः देवेभ्य इदन्न मम । [[TODO::परिष्कार्यम्??]]

अनन्वारब्धः, “सांहितीभ्यः, याज्ञिकीभ्यः, वारुणीभ्यः, ब्रह्मणे सदसस्पतिम्” - इति पञ्चाहुतीर्जुहुयात् । माणवकः अग्नेरुत्तरतः स्थित्वा ।

अग्ने॑ व्र॒तपते काण्डर्षिभ्योँ वैश्वदेवं व्रतं चॅरिष्यामि । तच्छकेयं तन्मेँ राध्यताम् ।
वायो॑ व्र॒तपते काण्डर्षिभ्योँ वैश्वदे॒वं व्र॒तं चॅरिष्यामि । तच्छुकेयं तन्मेँ राध्यताम् ।
आदिँत्य व्रतपते काण्डर्षिभ्योँ वैश्वदे॒वं व्र॒तं चॅरिष्यामि । तच्छ॒केयं तन्मे॑राध्यताम् ।
व्रतानां व्रतपते काण्डर्षिभ्योँ वैश्वदे॒वं व्र॒तं चॅरिष्यामि । तच्छ॒केयं तन्मेँ राध्यताम् । [[TODO::परिष्कार्यम्??]]

செய்யச் சொல்ல வேண்டும்.

அடுத்ததாக அப்யுதயம். க்ருதஸ்ய ப்ராஜாபத்யாதி வ்ரத உபக்ரம உத்ஸர்ஜன ஸமாநதந்த்ரகர்மண: கரிஷ்யமாணஸ்ய ஸ்னான கர்மணச்ச உபயோ: அங்கபூதம் ஆப்யுதயிகம் ஹிரண்ய ரூபேண கரிஷ்யே என்பதாக ஸங்கல்ப்பித்து அப்யுதயம் புண்யாஹம் செய்ய வேண்டும்.[[TODO::परिष्कार्यम्??]]

[[105]]

यथास्स्थानमुपविशेत् । आचार्यः जयादि प्रतिपद्य अग्न्युपस्थानान्तं कुर्यात् ॥

वैश्वदेवव्रतोत्सर्जनम्

आचार्यः सङ्कल्प्य इमं माणवकं वैश्वदेवव्रतोत्सर्जनं चारयिष्ये । माणवकः वैश्वदेवव्रतोत्सर्जनं चरिष्यामि । निवीतीभूत्वा उपक्रमवत् तर्पयित्वा उपवीत्युपविशेत् ।

आचार्यः अग्नेरुपसमाधानाद्यग्निमुखान्तेऽन्वारब्धः,

विश्वेभ्यो दे॒वेभ्यः काण्डर्षिभ्यॅः स्वाहा॑ - विश्वेभ्यो देवेभ्यः काण्डर्षिभ्य इदन्न मम आनो विश्वे

इत्यादिषडाहुतीश्च हुत्वाऽनन्वारब्धः, सांहितीभ्यः इत्यादि पञ्चाहुतीश्च जुहुयात् । माणवकः उत्तरतः स्थित्वा

अग्ने॑ व्र॒तपते काण्ड॒र्षिभ्योँ वैश्वदे॒वं व्र॒तंचॅतमचरिषम् । तदशकं तन्मेँराधि ।
वायो॑ व्र॒तपते काण्ड॒र्षिभ्योँ वैश्वदे॒वं व्र॒तंमचारिषम् । तदशकं, तन्मेँराधि ।
आदित्य व्रतपते काण्डर्षिभ्योँ वैश्वदेवं व्रतंमचारिषम् । तदशकं, । तन्मेँराधि ।
व्र॒तानां व्रतपते काण्डुषि॑भ्योँ वैश्वदे॒वं व्र॒तंमचारिषम् । तच्छ॒केयं तन्मेँराधि ।

इदमत्रावधेयम् । प्राजापत्यादिव्रतानुष्ठाने पक्षत्रयं वर्तते । इदानीमपि केचित्काण्डानुक्रमणिकरीत्याऽध्यापयन्ति । तत्पक्षे तत्तत्काण्डोपक्रमे, परिसमाप्तौ च तत्तद्व्रतोपक्रमः उत्सर्जनञ्च यथाक्रमं कारयितव्ये । तथा चेत् सङ्कल्पं वपनं स्नानं तर्पणाग्निमुखानि च इति कपर्दिना उक्तप्रकारेण तत्तत्काले वपनादि प्राप्तं स्यात् । तद्वदभ्युदयञ्च । अयमेकः पक्षः ।

[[105]]

इदानीं सर्वत्र सारस्वतपाठरीत्याऽध्ययनात् वेदाध्ययनसमाप्त्यनन्तरं विवाहात्पूर्वं एकस्मिन्नेव दिने वा द्वि त्रिदिनेषु वा अष्टौ व्रतानि यथाक्रममनुतिष्ठन्ति । तथा चेत् अष्टानामपि व्रतानाम् आदितः एकमेव वपनमुचितम् । तथा प्रथमव्रतस्य (प्राजापत्य व्रतोपक्रमस्य अवसाने एक एवाभ्युदयः ।

एकदा क्रियमाणानामनेकशुभकर्मणाम् ।
वृद्ध्यङ्कुरप्रतिसरान्सकृदेव समाचरेत् ॥

अयं द्वितीयः पक्षः ॥ विवाहदिन एवाष्ट व्रतानि समावर्तनं चेति क्रियमाणानि चेत्तदानीं समावर्तन एव वपनं, व्रताद्यपेक्षया समावर्तनस्य बलीयस्त्वात् । अयं तृतीयः पक्षः । अष्टव्रतानां समानतन्त्रेणानुष्ठानमपि इदानीं लोके प्राचुर्येण वर्तते । तत्स्वरूपमपि विलिख्यते । व्रतादीनामुपक्रमे कपर्दी

ऋषीन्मुखान्ते जुहुयाद्व्रतेषु सूक्तोपहोमान्सदसस्पतिञ्च ।
उपस्थितिञ्चाप्यथ देवतानां जयादयो ब्राह्मणतर्पणञ्च ॥
सङ्कल्पवपनस्नानतर्पणाग्निमुखानि च ।
ऋषिहोमाद्युपस्थानं जयपुण्याहमेव च ॥
सोमसूक्तनिषत्सदसस्पतिं तन्त्रवज्जुहुयात्सलिलं नमः ।
शुक्रिये समिधोऽग्न इतिव्रती युञ्जते सविता जयवारि शम् ॥
मीलने यतवाक्शिरसः कृते वेष्टनेऽस्तमिते गृहमाविशेत् ।
स्थीयतेऽन्ध इवत्वथवास्यते वाग्यतेन ततोऽभ्युदितक्रिया ।
ततः प्रभाते तु बहिर्गृहाणां वह्निञ्च सूर्यञ्च तथोदकुम्भम् ।
आकाशमुद्वीक्ष्य गिरिञ्च वत्सं पश्येद्धिरण्यञ्च वयस्सुपर्णाः ।
उत्सर्जने तु युञ्जादिं मीलनादिञ्च वर्जयेत् ।
समिदाधानमन्त्रोऽग्नौ द्यौस्समित्पूर्वमिष्यते ॥