०३ उल्लेखनादि

चतुर्-अश्रं स्थण्डिलं गोमयेनोपलिप्य
रङ्ग-वल्ल्य्-आदिभिर् अलङ्कृत्य
तत्र व्रीहिभिश् चतुर्-अश्रं स्थण्डिलं कल्पयित्वा
तद्-उपरि पत्रादिकं निक्षिप्य
तद्-उपरि तण्डुलं निक्षिप्य
तस्मिन् प्रादेश-मात्रं चतुर्-अश्रं दर्भैः प्राचीनं त्रिर् उल्लिखेत

तमिऴ्

உதகசாந்தி

அடியில் நெல், மேலே அரிசி இவைகளை சதுரச்ரமாகப் போட்டுக் கொண்டு நுனியுள்ள தர்ப்பங்களைக் கையில் கொண்டு அரிசியின் நடுப் பாகத்தில் “பிரம்மஜஜ்ஞாநம்” என்கிற மந்திரத்தினால் மேற்கிலிருந்து கிழக்காகக் கீற வேண்டும். “நாகேஸுபர்ணம்” என்கிற மந்திரத்தினால் அதற்குத் தென் பக்கத்தில் மேற்கிலிருந்து கிழக்காகவும், “ஆப்யாயஸ்வ’ என்கிற மந்திரத்தினால் நடுவிற்கு வடவண்டைப் பக்கத்தில் மேற்கி லிருந்து கிழக்காகவும், “யோருத்ர:” என்கிற மந்திரத்தினால் நடுவில் தெற்கிலிருந்து வடக்காகவும், கீறி விட்டு ஜலத்தைத் தொட்டு விட்டு, “இதம் விஷ்ணு:’ என்கிற மந்திரத்தினால் மேலண்டைப் பக்கத்தில் தெற்கிலிருந்து வடக்காகவும், “bajuT:” என்கிற மந்திரத்தினால் நடுவிற்கு [[TODO:परिष्कार्यम्??]]

तत्र मध्ये

०३ ब्रह्म जज्ञानम् ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

मध्ये पश्चिमाद् आरभ्य प्राचीम् उल्लिखेत् ॥

[[10]]

०६ नाके सुपर्णमुप ...{Loading}...

नाके॑ सुप॒र्णम् +++(→सूर्यं)+++ उप॒ यत् पत॑न्तं
हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षत त्वा ।
हिर॑ण्य-पक्षं॒ +++(शतभिषक्-स्थ-)+++वरु॑णस्य दू॒तं
य॒मस्य॒ योनौ॑ +++(→भरण्यां)+++ शकु॒नं भु॑र॒ण्युम्+++(←भृ)+++ ॥

इति दक्षिणतः पश्चिमादारभ्य प्रागवसानम् ।

१६ आ प्यायस्व ...{Loading}...

आ प्या॑यस्व॒ समे॑तु ते
वि॒श्वतः॑ सोम॒ वृष्ण्य॑म् ।
भवा॒ वाज॑स्य सङ्ग॒थे+++(=संगमने)+++ ॥

इति उत्तरतः पश्चिमादारभ्य प्रागवसानम् ।

38 यो रुद्रो ...{Loading}...

यो रु॒द्रो अ॒ग्नौ , यो अ॒फ्सु ,
य ओष॑धीषु॒, यो रु॒द्रो
विश्वा॒ भुव॑ना वि॒वेश॒
तस्मै॑ रु॒द्राय॒ नमो॑ अ॒स्तु

इति मध्ये दक्षिणत आरभ्य उदगवसानमुल्लिखेत् । अप उपस्पृश्य ।

१७ इदं विष्णुर्वि ...{Loading}...

इ॒दव्ँ विष्णु॒र् +++(अग्नि-विद्युत्-सूर्यात्मना)+++ वि च॑क्रमे
+++(पृथिव्याम् अन्तरिक्षे दिवि च)+++ त्रे॒धा नि द॑धे प॒दम् ।
+++(तैर् आधारैर् जगत्)+++ सम् ऊ॑ढम् अस्य पाꣳसु॒रे +++(ले इति साम्नि, पांसुमति [पादे])+++ ॥

इति पश्चात् दक्षिणत आरभ्य उदगवसानम् ।

०१ इन्द्रं विश्वा ...{Loading}...

इन्द्रं॒ विश्वा॑ अवीवृधन्त्
समु॒द्र+++(वत्)+++-व्य॑चसं॒ गिरः॑ ।
र॒थीत॑मं र॒थीनां॒,
वाजा॑नां॒ सत्-प॑तिं॒ पति॑म् ॥

इति पुरस्ताद् दक्षिणत आरभ्य उदग् अवसानम् उल्लिखेत ॥

दर्भान् निरस्याप उपस्पृश्य,

दूर्वाक्षत-फलैर् अवकीर्य,
गन्धोदकेनाभ्युक्ष्य,
पुष्पैर् अवकीर्य
प्राग्-अग्रान् दर्भान् संस्तीर्य,

कुम्भः

तन्तुवेष्टितं सुधूपितं कुम्भं,
ब्रह्मजज्ञानम् इति (पूर्वोक्त) मन्त्रेण प्रतिष्ठाप्य

०३ ब्रह्म जज्ञानम् ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

तस्मिन् तिरः पवित्रम् उदगग्रं निधाय व्याहृतीभिः,