कल्कत्ता-कारिका

मन्त्रोमधान माद्ये तु प्रथमे श्येन उच्यते ।

षष्ठ्यन्ताक्रमणी प्रोक्ता अष्टम्याद्या तु मण्डला १

आरोहे आत्मानि स्यातामष्टम्यान्त्ये तु षष्ठिका ।

दूर्वेष्टकां तथा हैमींमुक्त्वा चैव तु वामभृत् २॥

नवम्याद्या च तत्पूर्वे उक्ते रेतस्सिचौ क्रमात् ।

ज्योतिरन्त्या तथाष्टम्या दशम्यन्त द्विषष्टिके ३॥

सय्याँन्यौ द्वे क्रमेणैव निधेये दक्षिणोत्तरे ।

ऋतव्ये युगपत्स्थाप्ये अष्टम्याद्ये तु षष्टिके ४ ॥

नवम्यन्त्या अषाडास्यात् चतुर्थी दक्षिणोत्तराः ।

सप्तम्यन्ता चतुर्थ्यैका तत्संलब्दातु पक्षिका ५ ॥

उदक्पक्षात्म संलग्न द्वितीयाथ तृतीयका ।

घर्मेष्टका कुलायिन्यौ सन्निधेये क्रमेण तु ६॥

उखास्थानं तृतीयस्यां पञ्चम्यां स्थान एव तु ।

अथ शिरोऽन्तन्तुं कृत्वा तु पुरुषाकृतिः ७॥

द्वादश्याद्या चतुर्थीका द्वितीया दक्षिणोत्तरा ।

तदुत्तरत्र चतुर्थ्यन्या तत्पश्चाच्च चतुर्थिका ८ ॥

पञ्चमाः क्रमशः स्थाप्याः पुच्छे चैका तु षष्टिका ।

तदुत्तरा पञ्चमी च तत्पश्चात् षष्ठिका परा ९॥

द्वितीयस्यां द्वितीया च द्वादश प्रथमो गणः ।

एका????1दश्यां चतुर्थ्यैका ततो दक्षिणतः परा १० ॥

तत्पश्चा तदुदक्चान्या तत्पश्चाद्दक्षिणा परा ।

एवं क्रमेण संस्थाप्य द्वादशस्ता द्वितीयके ११

गणे तृतीये वक्ष्ये थ द्वादश्यान्त्या चतुर्थिका ।

तदुत्तरा तथैवान्या तद्दक्षापश्चिमे ततः १२

क्रमाच्चर्थ्यः पञ्चैता उपधेयाआ विजानता ।

तत्पश्चात्पुच्छपार्श्वेन्त्या षष्ठीसंलग्न पञ्चमी १३

तत्पश्चात् षष्ठिका चान्या द्वितीयस्यान्तु पञ्चमी ।

तृतीयो गण एवं स्यादपस्या मूर्ध्नि विन्यसेत् ॥ १४

शिरोऽग्रे द्वितीयं त्यक्त्वा पञ्च पश्चात्क्रमेण तु ।

दक्षपक्षस्य मध्या तु षष्ठ्यरीत्यामुदीचिगाः ॥ १५

पञ्चैव दक्षिणे पार्श्वे पुच्छेप्रागायतान्यसेत् ।

उदक्पक्षस्य मध्यात्तु षष्ठरीत्यान्तु दक्षिणाः ॥ १६

ऋषीष्टकोपधानन्तु ततो वक्ष्ये यथाक्रमम् ।

आद्यायान्तु तृतीयादितिस्रः प्राक्च चतुर्थिके ॥ १७

ततः पश्चादुदक्चैका तदुदक्त्तिस्र एव तु ।

ततः–तिस्र एवात्र शेषाउत्तर पक्षकाः ॥ १८

प्रथमस्यां द्वितीयादि क्रमादुदगवस्थिताः ।

षट्त्सनीरुपधायैवं ततो दक्षिण पक्षके ॥ १९

आत्मसंबधिनः पञ्च प्रथमा दक्षिणोत्तराः ।

ततोदक्षिणतश्चैव क्षत्रं पाहि गणस्ततः ॥ २०

दक्षिण दशतत्द्रूपा विश्वेशुत्वादिको गणः ।

पुनरष्टौ च तिस्रश्च स्वर्जिदित्यादिको गाणः ॥ २१

तत उत्तर पक्षे तु गणोपाहितिरुच्यते ।

द्वितीयस्यां द्वितीयादि सप्तचैवोदगायताः ॥ २२

सपत्नहगणश्चैव उद्वदेकादशैर्गणः ।

पुनर्दक्षिणपक्षे तु इषिसीदादिकोगणः ॥ २३

दशसंख्यात्र निर्दिष्ट उपधानन्तु आदिमः ।

सव्वँत्सर गणस्तत्र षट्संख्याकः क्रमेण तु ॥ २४

तत उत्तर पक्षे तु एकस्यां गण ईरितः ।

चतुर्दशी भवेत्संख्या उपधानमुदक् क्रमात् ॥ २५

पिन्वमानादि षट् चैव पुनस्तत्रैव सन्यसेत् ।

(ऋषीष्टकोपधायैवं दक्षपक्षेथ सन्ततीः ॥ २६

उत्तरे तु वशाः पञ्च दिक्षु षट् त्रिवृतः क्षिपेत् ।

शिरोग्रे दक्षपक्षाग्रे पुच्छे चोत्तर पक्षके ॥ २७

आत्मनिष्ठे षडेव ंस्युः– तु तृतीयगाः।

पञ्चमी तु तृतीयस्यां शेषा लोकं पृणा इह ॥ २९

इति भाष्यान्तरानु सारेणैवं पठन्ति )

आयवादिम गणाः पञ्च विश्वेषु त्वान्तिमा इमाः ।

पञ्च त्रिंशत् दक्षपक्षे उदीचीरुपधाय ताः ॥ ३०

स्वर्जिदाादि गणाः पञ्च सव्वँत्सर गणाः पञ्चगाः ।

उदक्पक्ष उदीच्यस्थाः चत्वारिंसच्च पञ्च च ॥ ३१

एकस्यां पिन्वमानासि पुच्छे विंशतिरिष्टकाः ।

पुच्छाप्ययात् पुरश्शिष्टात् चतुर्थीऋषभेष्टका ॥ ३२

लोकंपृणाः पक्षयास्ेस्युः पुच्छेऽष्टाविंशतिरिष्टकाः ।

इति प्रथम प्रस्तारः

अथ द्वितीय प्रस्तारस्य मन्त्रोपधानम्

द्क्षपक्षे तु विशयाः पञ्चाश्विन्यः स्युरिष्टकाः ।

ऋतव्या उत्तरास्ताभ्यः उदक्प्राणभृतस्ततः ॥ ३३

अपस्याः स्युः प्रतिदिशं चतुर्थ्यां मध्यतोऽन्तिमा ।

इष्टका अनुपरिहारीयाऽऽनीयन्तेऽग्निं प्रदक्षिणम् ॥ ३४

संयान्यावप्यृतव्ये च पञ्चम्यां मध्यतः स्थिताः ।

सूत्रोक्तश्चितिशेषोथ तृतीया वक्ष्यते चितिः ॥ ३५

त्वामग्न इत्यत्यर्धयुतं शतम्

षड् लोकंपृणास्त्रिष्टुबगन्म निद्रा । ३६

॥ तृतीया चित्तिः ॥

मण्डलाद्या ऋतव्यान्ता दक्षिणाश्रोणिदेशगाः ।

तृतीय रीत्यबाधेन क्षिपेदेकादशेष्टक ॥ ३७

शीर्ष्णि दक्षचतुर्थी च दक्षपक्षादिमादिमा ।

पुच्छे द्वितीया रीत्यां तु चतुर्थी सा चतुर्थिका ॥ ३८

सव्यपक्षे त्वादिमान्त्या पञ्चम्यामपि पञ्चमी ।

आयुर्मे दक्षिणांसस्थां उदक् प्राणभृदिष्टकाः ॥ ३९

बृहत्यः पक्षयोः पुच्छे द्वादश द्वादश क्रमात् ।

तृतीयरीत्यन्तिमाद्याः प्रतीच्यो वालखिल्यकाः ॥ ४०

चतुर्थ्यां तु द्वितीयाद्याः प्राच्यः स्युर्वालखिल्यकाः ।

भूतेष्टकाश्च पञ्चम्यां षष्ठ्यां च द्वादशेष्टकाः ॥ ४१

पुच्छाप्ययात्पुरश्शिष्टा चतुर्थी ऋषभेष्टका ।

एकादशशतं लोकंपृणा अत्र स्तरे क्षिपेत् ॥ ४२

लोकंपृणा द्वादशकं शतं वात्र विधीयते ।

मेधाकारं तु अत्रैव यूपकर्म विधीयते ॥ ४३

॥ चतुर्थी चितिः ॥

चतुर्थ्यां ब्राह्म्णकॢप्ताः अष्टाविंशतिरिष्टकाः ।

आशुरग्नेरिति द्वाभ्यां सप्त सप्त दिशं प्रति ॥ ४४

चतस्र आत्ममध्यस्थाः ज्ञेयाः संयान्यृतवकाः ।

द्वौ गणौ पार्श्वयोः स्थाप्यौ आत्ममध्यात्परर्षभः ॥ ४५

सृष्टयस्त्वसिधात्वन्ताः ईयुष्टे व्युष्टिरुत्तमा ।

त्वामादि लोकंपृण तास्तु पञ्च

त्रिंशच्छतं चापि भवेन्मनुष्वत् ॥ ४६

॥ पञ्चमी चितिः ॥

अग्ने जातादिका मन्त्रा असपत्ना इति श्रुताः ।

असपत्ना शीर्ष्ण्युदक्स्था षष्ठी पुच्छाद्यरीतिगा ॥ ४७

दक्षपक्षे तृतीयाप्या तृतीयान्त्योत्तरच्छदे ।

चतुर्थ्यां पञ्चमी मध्ये विराजां क्रम उच्यते ॥ ४८

दक्षपक्षे चतुर्थ्यन्त्याश्चतस्रश्च ततः पुरः ।

तदुत्तरे ततः पूर्वे तदुदक् दश पूर्वतः ॥ ४९

दक्षपक्षाद्यरीत्याद्याः तिस्रस्तिस्रश्च तत्पुरः ।

तदुत्तरे ततः पूर्वे विराजो दश दक्षिणाः ॥ ५०

पुच्छाद्यायं चतस्रश्च तत्पूर्वा च तदुत्तरा ।

तत्पूर्वा तदुदक् तिस्रो विराजः पश्चिमा दश ॥ ५१

उदक् पक्षाद्यरीत्यन्ताः तिस्रस्तिस्रश्च तत्पुरः ।

तद्दक्षिणे ततए पूर्वे विराजस्तूत्तरा दश ॥ ५२

द्वितीयायां पञ्चमी च तिस्रश्चापि तदुत्तराः ।

ताभ्यः पुरस्तात्तिस्रश्च स्तोमभागाः पुरो गताः ॥ ५३

दक्षपक्षे चतुर्थ्याद्ये पञ्चम्याद्येपुरोद्वयम् ।

तदुत्तरा च सप्तैता स्तोमभागाश्च दक्षिणाः ॥ ५४

पुच्छे तृतीयरीत्याद्याः तुरीया रीतिश्च सप्त ताः ।

उदक्पक्षे चतुर्थ्यन्त्ये पञ्चम्यन्त्ये पुरो द्वयम् ॥ ५५

तद्दक्षिणा च सप्तैताः स्तोमभागाः तथोत्तराः ।

पञ्चम्यामादिमास्तिस्रः स्तोमभागास्तु मध्यमाः ॥ ५६

पञ्चम्यन्त्या दक्षपक्षे तृतीयायामुपादिमा ।

पुच्छे द्वितीयरीत्याद्याः तृतीयोपान्तिमोत्तरे ॥ ५७

तृतीयायां पञ्चमी तु मध्यस्था नाकसद्भवेत् ।

षष्ठ्यन्त्यातु विकर्णी स्यादातृण्णां मध्यतः क्षिपेत् ॥ ५८

दक्षपक्षे तृतीयायां मध्ये स्यान्मण्डलेष्टका ।

पुच्छाद्यायां च रेतस्सिक् सप्तमी स्थविरस्य तु ॥ ५९

पञ्चम्यां तु चतुर्थी स्यात् विश्वज्योतिश्च शेषिता ।

षष्ठरीत्यामृतव्ये द्वे सप्तमी चाष्टमी तथा ॥ ६०

ऋतव्ये द्वे तदुदक् संयन्यावदिमादिमे ।

गायत्र्यः शिरसि स्थाप्यः विराजां त्रिष्टुभः पुरः ॥ ६१

पुच्छे द्वितीयरीत्यन्ता जगत्यस्तस्त्र शेषिताः ।

अनुषुभो विराजां प्राक् बृहतीरुष्णिहा अथ ॥ ६२

द्वितीयायां चतस्रश्चाप्याद्यायां द्वे च षष्टिके ।

षष्ठरीत्यामादिमा षट् पङ्क्त्योऽक्षरपङ्क्तयः ॥ ६३

चतुर्थ्यां तु चतुर्थी स्यादतिच्छन्दास्तु मध्यतः ।

पुच्छाद्यायामन्तिमाः स्युः द्विपदास्तिस्र इष्टकाः ॥ ६४

दक्षपक्षे परे शिष्टाः सयुग्जीमूतकृत्तिकाः ।

तृतीयरीत्युपान्त्या च द्वितीयायां तथान्तिमा ॥ ६५

तत्रैवमध्याः शिष्टा द्वे विषये वृष्टिसंज्ञकाः ।

उदक्पक्षे द्वितीयाद्या चाद्यायां सप्त शेषिताः ॥ ६६

अथ चादित्यसंज्ञाः स्युर्दक्षपक्षे तथा पुनः ।

चतुर्थ्यामथ पञ्चम्यां यशोदाः पञ्च शेषिताः ॥ ६७

उदक्पक्षे तु पाश्चत्या इष्टका एकविंशतिः ।

भूयस्कृतोऽग्निरूपाश्च द्रविणोदाः षडायुषः ॥ ६८

अग्नेस्तु हृदयं विद्यात्तृतीयायां चतुर्थिका ।

उदक्पक्षे पुरोभागे सप्तर्तव्याश्व शेषिताः ॥ ६९

निधाय विश्वकर्मादि नव स्युः स्वर्णशर्कराः ।

तृतीयायां द्वितीया स्यात् वृषपूर्वप्रजापतिः ॥ ७०

अथाज्यान्यः चतुर्थी स्यात् उपान्त्या दक्षिणछदे ।

द्वितीयायां द्वितीया च पुच्छाद्ययां च पञ्चमी ॥ ७१

उदक्पक्षे द्वितीयायां उपान्त्या चात्ममध्यतः ।

चतुर्थ्यां तु तृतीया स्यात् अश्मनोथ दिशः प्रति ॥ ७२

दक्षपक्षोत्तरे भागे पुरस्ताद्राष्ट्रभृद्गणः ।

अग्निर्भुवो जनस्य त्वामग्ने तमितिसर्वतः ॥ ७३

दक्षपक्षे द्वितीयाद्या षष्ठी च तत्र तु ।

पुच्छे तृतीयरीत्यन्त्या चतुर्थ्यां च द्वितीयका ।

उदक्पक्षे द्वितीयान्त्या पञ्च लोकंपृणेष्टकाः । ७४