२५ सौमिकर्त्विजां वरणं, प्रवृतहोमश्च

दैवं च मानुषं च होतारौ वृत्वा ३। आश्रावमाश्रावमृतुप्रैषादिभिस्सौमिकान् ऋत्विजो वृणीते । इन्द्रं होत्रात् सजूर्दिव आ पृथिव्या इति अमुकशर्मा होतुर्नाम उपांशूक्त्वा मानुष इत्युच्चैः इति होतारम् । एवं सर्वत्र । अपिसृज्य १ तृणमस्फ्य उत्तरान् । अग्निमाग्नीध्रात् आग्नीध्रम् । अश्विनाध्वर्यू आध्वर्यवात् अमुकशर्माणौ मानुषौ इत्यध्वर्यू ।

अध्वर्युः - प्रवृतः प्रवृतहोमौ जुहोति । जुष्टो वाचो भूयासं जुष्टो वाचस्पतये देवि वाक् । यद्वाचो मधुमत्तस्मिन्माधास्स्वाहा सरस्वत्यै स्वाहा । वाचे सरस्वत्या इदम् । ऋचा स्तोमꣳ समर्धय गायत्रेण रथन्तरम् । बृहद्गायत्रवर्तनि स्वाहा । सरस्वत्या इदम् । एवं प्रतिप्रस्थाता जुहोति । मित्रावरुणौ प्रशास्तारौ प्रशास्त्रात् मैत्रावरुणम् । इन्द्रो ब्रह्मा ब्राह्मणात् ब्राह्मणाच्छंसिनम् । मरुतः पोत्रात् पोतारम् । ग्नावो नेष्ट्रात् नेष्टारम् । अग्निर्दैवीनां विशां पुर एतायं सुन्वन् यजमानो मनुष्याणां तयोर्नावस्थूरि गार्हपत्यं दीदयच्छतꣳ हिमा द्वायूराधांसीत्संपृञ्चानावसंपृञ्चानौ तन्वः २ अमुकशर्मा मानुष इति यजमानम् । यजमानः - प्रवृतः जुष्टो वाचो — सरस्वत्यै स्वाहा । वाचे सरस्वत्या इदम् । ऋचा स्तोमꣳ — वर्तनि स्वाहा । सरस्वत्या इदम् । अध्वर्युः - घृतवति शब्दे जुहूपभृतावादायेत्यादि । प्राजहितात्पशुश्रपणमग्नीषोमीयवत् । अच्छिन्नो रायस्सुवीरोऽ-ग्नये त्वा जुष्टामुत्कृन्तामि । अग्नये छागस्य वपाया मेदसोऽनुब्रू३हि । अग्नये छागस्य वपाया मेदसः प्रेष्य । जातवेदो वपया — देवास्स्वाहा । अग्नय इदम् । अग्नेरहं देवयज्ययेन्द्रियावी भूयासम् । जेमानं महिमानं इति वा ।