२७ तीर-कुण्डे पाषाण-स्थापनम्

नदीतीर-(तटाकतीर)-कुण्डे पाषाणस्थापनम् ॥

अथ कर्ता नवं वासः, तिलान्, दर्भान् कुम्भमितिसम्भृत्य नदी (तटाक) तीरंगत्वा स्नात्वा, पुण्ड्रान् धृत्वाऽऽचम्य कुण्डं खात्वा प्रणम्य प्राचीनावीती

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

गोत्रस्य + अद्य अहनि वास उदक तिलोदक प्रदानार्थं नदी (तटाक) तीरकुण्डे पाषाण स्थापनं कर्तुं योग्यतासिद्धिमनुगृहाण । उपवीती प्राणानायम्य प्राचीनावीती सङ्कल्प्य प्रीत्यर्थं पाषाण गोत्रस्य + अद्य अहनि वास उदक तिलोदक प्रदानार्थं नदी (तटाक) तीर कुण्डे पाषाण स्थापनं करिष्ये । ( उप ) सात्विक त्यागः (प्राची) पाषाण स्थापन काले तिथिवारनक्षत्रलग्न योग करणैः योदोषस्समजनि तद्दोषपरिहारार्थं प्राजापत्य कृच्छ्र प्रत्याम्नायं यत्किञ्चिद्धिरण्यदानं करिष्ये हिरण्यगर्भ + प्रयच्छमे स्थापनकालेतिथि + हिरण्यं श्रीवैष्णवाय सम्प्रददे || दर्भवेष्टितं पाषाणं कुण्डमध्ये निधाय मृद्भिः प्रच्छाद्य, उत्थाय, आयहि, पित: प्रेत, (मात: प्रेते) सोम्य (सोम्ये) गम्भीरैः प॒थिभिः पूर्वैः प्र॒जां, अ॒स्मभ्यं॑, द॒त् (ददती) र॒यिञ्चॅ दीर्घायुत्वञ्चॅ, शत शॉरदञ्च । गोत्रं, शर्माणं, पितरं, प्रेतं (गोत्रां, नाम्नीं मातरं, प्रेतां) आवाहयामि । गोत्रस्य शर्मणः मम पितुः, प्रेतस्य (गोत्राया नाम्या: मम मातुः प्रेतायाः) इदमासनं । इदमर्चनं । इदन्ते तिलोदकम् ॥ उप- सात्विकत्यागः । - - प्राणानायम्य प्राचीनावीती - गोत्रस्य + अद्यअहनि दहन

जनितक्षुत् तृष्णा दाहताप, उपशमनार्थं प्रेताप्यायनार्थं, प्रेततृप्त्यर्थं नदी

.

52

दहनदिन कृत्यं

(तटाक) तीर कुण्डे वास उदक तिलोदक प्रदानानि करिष्ये । उप-सात्विकत्यागः । प्राचीनावीती त्रिगुणीकृतं सदर्भ वस्त्रमादाय गोत्रस्य + अहनिगोत्राय शर्मणे पित्रे प्रेताय इति सव्य सव्ये तराभ्यां पाणिभ्यां पितृ तीर्थेन पीडयित्वा एतद्वासोदकं ददामि निमज्य गोत्राय शर्मणे पित्रेप्रेताय एतद्वासोदकं ददामि पुनर्निमज्य गोत्राय शर्मणे पित्रे, प्रेताय एतद्वासोदकं ददामि || वस्त्र मन्यत्र निधाय । कुम्भे तिलान्निक्षिप्य, सदर्भ हस्तेन पितृ तीर्थेन तिलोदकं दद्यात्- गोत्राय शर्मणे पित्रे प्रेताय एतत्तिलोदकं ददामि ॥ एवं द्विः । एवं नदी तीर कुण्डे प्रतिदिनं वासोदकं तिलोदकञ्च दद्यात् । प्रतिदिनं त्रीण्येव वासोदकानि । तिलोदकानितु एतद्दिनापेक्षया प्रतिदिनमेकैकोत्तरं दद्यात् ॥

7 (सू एव महरहरञ्जलि नैकोत्तरवृद्धि रैकादशाहात् ।। उत्थाय, गोत्र शर्मन्, पित: प्रेत (गोत्रे - नाम्नि मातः, प्रेते) अमूनि वासोदक तिलोदक प्रदानानि उपतिष्ठ उपविश्य अत्र स्नाहि, (किञ्चिज्जलं दद्यात् एवमेव, जलंपिब्र, शीतो भव, तृप्तो भव (शीता भव, तृप्ता भव) इति किञ्चित्किञ्चिज्जलं निनयेत्, अन्ते निरवशेषं निनयेत् । उपवीती आचम्य सात्विकत्यागः । - -

आचम्य कलशे जलं गृहीत्वा मुक्तशिखः प्राचीनावीती दक्षिणहस्तेपूर्णं कलशं पृष्ठ आदाय गृहमेत्य शुद्धस्थले कलशं निधाय उपवीती शिखा बन्धनं कृत्वा श्रोत्राचमं कुर्यात् ।