०६ दर्वी-कूर्च-पवित्रेध्म-द्रव्य-सम्भाराणां च दाहे

दर्वी-कूर्च-पवित्रेध्म-द्रव्य-सम्भाराणां च दाहे उपघात-विनाशेषु
अन्यं यथालिङ्गं सादयित्वा
संस्कृत्य
‘त्वन्नो अग्ने’ ‘सत्वन्नो अग्ने’ ‘त्वमग्ने अयासि’ ‘प्रजापते नत्वदेतानि’ इति जुहुयात् ।

०४ त्वं नो ...{Loading}...

त्वन् नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्
दे॒वस्य॒ हेडो+++(=क्रोधो )+++ ऽव॑ यासिसीष्ठाः+++(=यक्षीष्ठाः)+++ ।
यजि॑ष्ठो॒ +++(हविर्)+++वह्नि॑तम॒श् शोशु॑चानो॒+++(=देदीप्यमानः)+++
विश्वा॒ द्वेषाँ॑सि॒ प्र मु॑मुग्ध्य् अ॒स्मत् ।

०५ स त्वं ...{Loading}...

स त्वन् नो॑ अग्ने ऽव॒मो+++(=मूलभूतो)+++ भ॑व॒+ऊ॒ती+++(त्या)+++
+++(“अग्निरवमो देवतानां विष्णुः परमः” इति ब्राह्मणम्)+++
नेदि॑ष्ठो+++(=अन्तिकतमो)+++ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ+++(=व्युष्टायाम्)+++ ।
अव॑ यक्ष्व नो॒ वरु॑णँ॒, ररा॑णो
वी॒हि+++(=खाद)+++ मृ॑डी॒कँ+++(=सुखयितारं [हविः])+++ सु॒हवो॑ न एधि

+++(अग्नीवरुणाभ्याम् इदं न मम)+++

68 त्वमग्ने अयासि ...{Loading}...

त्वम॑ग्ने अ॒यासि॑ ।
अ॒या सन् मन॑सा हि॒तः ।
अ॒या सन् ह॒व्यम् ऊ॑हिषे ।
अ॒या नो॑ धेहि भेष॒जम् ।

१० प्रजापते न ...{Loading}...

प्रजा॑पते॒ न त्वद् +++(विश्वा जातानि→)+++ ए॒तान्य् अ॒न्यो
विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव
यत्-का॑मास् ते जुहु॒मस् तन् नो॑ अस्तु
व॒यꣵ स्या॑म॒ पत॑यो रयी॒णाम्॥

[[11]]