१५ महावीरस्याभिमन्त्रणम्

यत्राभिजानाति याभिर्वर्तिकां ग्रसिताममुञ्चतमिति तदध्वर्युर्महावीरमभिमन्त्रयते । दश प्राचीर्दश भासि दक्षिणा । दश प्रतीचीर्दश भास्युदीचीः । दशोर्ध्वा भासि सुमनस्यमानः । स नो रुचं धेह्यहृणीयमानः ॥ अग्निष्ट्वा वसुभिः पुरस्ताद्रोचयतु गायत्रेण छन्दसा । स मा रुचितो रोचय ॥ इन्द्रस्त्वा रुद्रैर्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसा । स मा रुचितो रोचय ॥ वरुणस्त्वादित्यैः पश्चाद्रोचयतु जागतेन छन्दसा । स मा रुचितो रोचय ॥ द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतो रोचयत्वानुष्टुभेन छन्दसा । स मा रुचितो रोचय ॥ बृहस्पतिस्त्वा विश्वैर्देवैरुपरिष्टाद्रोचयतु पाङ्क्तेन छन्दसा । स मा रुचितो रोचय ॥ रोचितस्त्वं देव घर्म देवेष्वसि । रोचिषीयाहं मनुष्येषु । संराड्घर्म रुचितस्त्वं देवेष्वायुष्माꣳ स्तेजस्वी ब्रह्मवर्चस्यसि ॥ रुचितोऽहं मनुष्येष्वायुष्माꣳ स्तेजस्वी ब्रह्मवर्चसी भूयासम् ॥ रुगसि । रुचं मयि धेहि । मयि रुक् ॥ दश पुरस्ताद्रोचसे । दश दक्षिणा । दश प्रत्यङ् । दशोदङ्ङ् । दशोर्ध्वो भासि सुमनस्यमानः । स नः सम्राडिषमूर्जं धेहि । वाजी वाजिने पवस्व । रोचितो घर्मो रुचीय इत्यनुवाकेन । यत्राभिजानात्यप्नस्वतीमश्विना वाचमस्मे इति तदुपोत्तिष्ठन्नध्वर्युराह रुचितो घर्मः इति१ । अध्वर्युप्रथमाः अनभिधून्वन्तस्त्रिः प्रतिपरियन्ति । धवित्राण्यादायाध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति । तानि प्रतिप्रस्थाता अग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां सादयति ।