होमः

+++(अत्र दर्शपूर्णमासप्रकृतिः, नाग्निहोत्रप्रकृतिः।)+++

देवता-निश्चये विशेषाः -

०७ २८ पौर्णमास्याम् पौर्णमासी ...{Loading}...

पौर्णमास्यां पौर्णमासी यस्यां क्रियते २८

इध्म-सन्नाहः - +++(पार्वणे च पूर्वद्युस्सन्नद्धव्य इध्मः।)+++

०१ १२ अग्निमिध्वा ...{Loading}...

परिस्तरणम् - +++(क्रमो ऽन्यत्रोक्तः।)+++ अग्निमिध्वा प्रागग्रैर्दर्भैरग्निं परिस्तृणाति १२

०१ १३ प्रागुदगग्रैर्वा उक्ताः ...{Loading}...

प्रागुदगग्रैर्वा।

०१ १४ दक्षिणाग्रैः पित्र्येषु ...{Loading}...

दक्षिणाग्रैः पित्र्येषु।

०१ १५ दक्षिणाप्रागग्रैर्वा तत्र ...{Loading}...

दक्षिणाप्रागग्रैर्वा।

०१ १९ पवित्रयोस्सँस्कार आयामतः ...{Loading}...

(पवित्रसृष्टिः -)

पवित्रयोस् संस्कारः, आयामतः +++(=दीर्घ्यतः [प्रादेशमात्रं])+++ परीमाणम्,
… इति दर्शपूर्णमासवत्तूष्णीम्।

विश्वास-टिप्पनी

तयोर् आयामतो यत्परिमाणं दीर्घप्रमाणं प्रादेशमात्रौ।[आप.श्रौ.१११९.] समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कुरुते, तृणं काष्ठं वान्तर्धाय छिनत्ति, न नखेन।

ततोऽप उपस्पृशेत् - “रौद्रराक्षस” इति परिशिष्टवचनात्। ततस्तयोर्मूलाद् आरभ्याऽग्राद् अद्भिर्मार्जनम् ।

आज्यसंस्काराय प्रोक्षणीसंस्काराय प्रणीताप्रणयनाय च प्रयुज्यते।

प्रोक्षणी-संस्कारः (श्रौतसूत्राद् गृहीतोऽंशः) -

… इति दर्शपूर्णमासवत्तूष्णीम् १९ पवित्रान्तर्हितायाम् अग्निहोत्रहवण्याम् अप आनीयोदगग्राभ्यां पवित्राभ्यां प्रोक्षणीर् उत्पुनाति"[आप.श्रौ.१११९]
+++(तत्राग्निहोत्र-हवण्या इहाभावात् पात्रान्तरं प्राप्यते। … उदग्-अग्राभ्यां पवित्राभ्यां अन्तर्हितायां वैकङ्कत्यां स्रुच्य् अप आनीय, ताभ्यां त्रिर् उत्पूय प्रोक्षेत् ।)+++

०१ २० अपरेणाग्निम् पवित्रान्तर्हिते ...{Loading}...

अपरेणाग्निं पवित्रान्तर्हिते पात्रेऽप आनीयोदगग्राभ्यां पवित्राभ्यां त्रिर् उत्पूय,
समं प्राणैर् हृत्वोत्तरेणाग्निं दर्भेषु सादयित्वा, दर्भैः प्रच्छाद्य २०

पात्र-संस्कारः - उत्तरेणाग्निं दर्भान्त्संस्तीर्य द्वन्द्वं न्यञ्चि +++(=न्यग्भूतानि)+++ पात्राणि प्रयुनक्ति देवसंयुक्तानि १६

०१ १७ सकृदेव मनुष्यसंयुक्तानि ...{Loading}...

सकृदेव मनुष्यसंयुक्तानि।

०१ १८ एकैकशः पितृसंयुक्तानि ...{Loading}...

एकैकशः पितृसंयुक्तानि।

पात्रप्रोक्ष इति दर्शपूर्णमासवत्तूष्णीम्। +++(उत्तानानि पात्राणि इत्यादि पात्रप्रोक्षणम् । विस्रंसनञ् चेध्मस्यतदन्तर्भावादेव सिद्धम्। सपवित्रेण पाणिना त्रिः प्रोक्षेत् ॥)+++

०१ २१ ब्राह्मणन् दक्षिणतो ...{Loading}...

ब्रह्म-वरणम् - ब्राह्मणं दक्षिणतो दर्भेषु निषाद्य २१

०१ २२ आज्यं विलाप्यापरेणाग्निम् ...{Loading}...

आज्य-संस्कारः - आज्यं विलाप्य, अपरेणाग्निं पवित्रान्तर्हितायाम् आज्यस्थाल्याम् आज्यं निरुप्य, उदीचोऽङ्गारान्निरूह्य, तेष्वधिश्रित्य, ज्वलताऽवद्युत्य, द्वे दर्भाग्रे प्रत्यस्य +++(अनेन वज्रनिभाभ्यां रक्षोनाशः)+++, त्रिः पर्यग्नि कृत्वा +++(अनेन देवेभ्यः प्रतिजानति द्रव्यम्)+++, उदगुद्वास्याङ्गारान् प्रत्यूह्य, उदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूय +++(अनेन शोधनम्)+++, पवित्रे अनुप्रहृत्य २२

०२ ०१ येन जुहोति ...{Loading}...

दर्वी-संस्कारः - येन जुहोति, तदग्नौ प्रतितप्य, दर्भैः संमृज्य, पुनः प्रतितप्य, प्रोक्ष्य, निधाय, दर्भान् अद्भिस्संस्पृश्याग्नौ प्रहरति १

०२ ०२ शम्याः परिध्यर्थे ...{Loading}...

शम्याः+++(=युगकीलाः)+++ परिध्यर्थे विवाह+उपनयन-समावर्तन-सीमन्त-चौल-गोदान-प्रायश्चित्तेषु २ +++(अथ परिधीन् परिदधाति। तत आघारसमिधौ।)+++

०२ ०३ अग्निम् ...{Loading}...

परिषेचनम् - अग्निं परिषिञ्चत्य् - अदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनम्, अनुमते ऽमुमन्यस्वेति पश्चादुदीचीनं, सरस्वतेऽनुमन्यस्वेत्युत्तरतः प्राचीनं, देव सवितः प्रसुवेति समन्तम् ३

०१ अदितेऽनु मन्यस्व ...{Loading}...

अदि॒तेऽनु॑ मन्यस्व। +++(इति दक्षिणतः, प्राचीनम्)+++

०२ अनुमतेऽनु मन्यस्व ...{Loading}...

अनु॑म॒ते+++(=ऊनचन्द्रे पूर्णमासि)+++ ऽनु॑ मन्यस्व। +++(इति पश्चिमाद् उदीचीनम्)+++

०३ सरस्-वतेऽनु मन्यस्व ...{Loading}...

सर॑स्-वते+++(छान्दसो गुणः)+++ ऽनु॑ मन्यस्व। +++(इति उत्तरतः प्राचीनम्)+++

०४ देव सवितः ...{Loading}...

देव॑ सवितः॒ प्रसु॑व। +++(इति प्रागारम्भं प्रदक्षिणं)+++

०२ ०४ पैतृकेषु समन्तमेव ...{Loading}...

पैतृकेषु समन्तमेव तूष्णीम्।

०२ ०५ इध्ममाधायाघारावाघारयति ...{Loading}...

इध्मः, आघारः - इध्ममाधाय +++(एकविंशतिदारुमिध्मम् [आप.१५.६])+++, आघाराव् +++(आघारनामकौ होमौ द्वौ)+++ आघारयति +++(= दीर्घधारया जुहोति)+++ दर्शपूर्णमासवत्तृष्णीम् ५ +++(उत्तरं परिधिसन्धिमन्ववहृत्य… दक्षिणाप्राञ्चं ऋजुं सन्ततं ज्योतिष्मत्याघारमाघारयन् सर्वाणीध्मकाष्ठानि संस्पर्शयक्ति [आप.श्रौ.२१२७]। दक्षिणं परिधिसन्धिमन्ववहृत्य प्राञ्चमुदञ्चम्ऽ[आप.श्रौ.२१४१] ऋजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा व्यतिषक्तावव्यातिषक्तौ वाऽ[आप.श्रौ.२१२८]। गार्ह्यपरिभाषामनुसृत्य प्रागपवर्गाभ्यामुदगपवर्गाभ्यां वा दीर्घधाराभ्यां जुहोति, न तु कोणदिगपवर्गाभ्याम् इति तु केचित्।)+++ +++(यत्तूष्णीम् तत्प्राजापत्यम् । (तै.ब्रा.२१४)+++ दर्शपूर्णमासवत्प्रथमस्य प्रजापतिः, द्वितीयस्येन्द्र इति केचित्। )

०२ ०६ अथाज्यभागौ जुहोत्यग्नये ...{Loading}...

आज्यभागौ - अथाज्यभागौ जुहोत्य् अग्नये स्वाहेत्युत्तरार्धपूर्वार्धे, सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे, समं पूर्वेण +++(=आघारहोमसममात्रा ऽऽज्य)+++ ६

०२ ०७ यथोपदेशम् प्रधानाहुतीर्हुत्वा ...{Loading}...

यथोपदेशं प्रधानाहुतीर् हुत्वा,
+++(उपहोमाः -)+++
जयाभ्यातानान्,
राष्ट्रभृतः,
प्राजापत्यां,
व्याहृतीर् विहृताः,
सौविष्टकृतीम् इत्य् उपजुहोति -

Yad asya karmaNaH ...{Loading}...
विश्वास-प्रस्तुतिः

यद् अ॑स्य॒ कर्म॒णो ऽत्यरी॑रिचं॒
यद् वा॒ न्यू॑नम् इ॒हाक॑रम् ।
अ॒ग्निष् टत् स्वि॑ष्ट॒कृद् वि॒द्वान्थ्
सर्व॒ꣵ स्वि॑ष्ट॒ꣵ सुहु॑तं करोतु॒
स्वाहा᳚ ।

मूलम्

यद॑स्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑नमि॒हाक॑रम् ।
अ॒ग्निष्टत्स्वि॑ष्ट॒कृद्वि॒द्वान्थ्सर्व॒ग्ग्॒ स्वि॑ष्ट॒ग्ं॒ सुहु॑तं करोतु॒ स्वाहा᳚ ।

+इति ७

विश्वास-टिप्पनी

एतदेवानुयाज्यम् इति केचित्। कपर्दिकारिकायान्तु स्थालीपाकादिषु नैकेषु कर्मसु न विद्यतेऽयम्भागः। तथैवाधुनिकाचारे केषाञ्चित्।

अन्यप्रायश्चित्ताहुतयः बोधायनोक्ताः।

परिधिप्रहरणम् - (आज्यहोमेषु जयाद्यनन्तरं श्रौतवत्तूष्णीं परिधीनग्नौ प्रहृत्य, तान् दर्वीसंस्रावेणाभिजुहोति। परिधितत्संस्काराणां श्रौतवदभ्यनुज्ञानस्योक्तत्वात्, कृतकार्याणां प्रतिपत्त्यपेक्षत्वाद् आचाराच्च । शम्याश्चेत्, अस्मिन् काले अपोह्या “अथ शम्या उपोद्य” [बौ.गृ.१४३७] इति बोधायनवचनात्, आचाराच्च ॥)

०२ ०८ पूर्ववत् परिषेचनमन्वमँस्थाः ...{Loading}...

अग्नेरुत्तरं परिषेचनम् - पूर्ववत्परिषेचनमन्वमंस्थाः प्रासावीरिति मन्त्रसन्नामः ॥ +++(अत्र श्रौतवत्प्रणीता विमुञ्चति तूष्णीम् - कृतकार्याणामासां प्रतिपत्त्यपेक्षत्वात्। ब्राह्मणश्च यथाशक्ति दानमानादिना सत्कृतो गच्छेत् ॥)+++

+++(स्थालीपाकतन्त्रविशेषः पृथग् उक्तः। अग्नौ चर्याऽपि पृथक्। एवं साधारण-प्रायश्चित्तानि।)+++