२४ पशोः नियोगः

देवस्य त्वा — हस्ताभ्यामाददे पशुरशनामादाय । पशोर्दक्षिणे बाहौ परिवीयोर्ध्वमुत्कृष्य । ऋतस्य त्वा देव हवि: पाशेनारभे दक्षिणेऽर्धे शिरसि पाशेनाक्ष्णया प्रतिमुच्य । धर्षा मानुषानग्नीषोमाभ्यां त्वा जुष्टं नियुनज्मि उत्तरतो यूपस्य नियुनक्ति । अद्भ्यस्तौषधीभ्यः प्रोक्षाम्यग्नीषोमाभ्यां त्वा जुष्टं प्रोक्षामि प्रोक्षति । अपां पेरुरसि पाययति । स्वात्तं चित्सदेवꣳ हव्यमापो देवीस्स्वदतैनम् उपरिष्टादधस्तात्सर्वतश्च प्रोक्ष्य वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते । अयं वेद इत्यादि । स्रुच्यमाघार्य प्रत्याक्रम्य जुह्वा पशुं समनक्ति । सं ते प्राणो वायुना गच्छताम् शिरसि । सं यजत्रैरङ्गानि द्विः अंसोच्चलयोः । सं यज्ञपतिराशिषा श्रोण्याम् । मखस्य शिरोऽसीति ध्रुवासमञ्जनादि कर्म प्रतिपद्यते । महावेद्या उत्तरतो बहिस्स्थितौ क इदमध्वर्युरित्यादि ।