२७ 'प्राणो रक्षति'

+०१, उपहोमशेषः - प्राणो रक्षति ...{Loading}...

सायण-टीका

(SB) द्वितीयाष्टके पञ्चमः प्रपाठकः ॥

यस्य निश्वसितं वेदा या वेदेभ्योऽखिलं जगत् ॥
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥॥ १ ॥॥

चतुर्थ उपहोमार्था मन्त्रा बहव ईरिताः ॥
प्रपाठके पञ्चमेऽस्मिंस्तच्छेष उपवर्ण्यते ॥॥ २ ॥॥

01 प्राणो रख्षति ...{Loading}...

प्रा॒णो र॑ख्षति॒ विश्व॒म् एज॑त्
इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑ ।
स इथ् सर्व॒व्ँ व्या॑नशे+++(=व्याप्तवान्)+++ ।

01 प्राणो रख्षति ...{Loading}...
मूलम्

प्रा॒णो र॑ख्षति॒ विश्व॒मेज॑त् ।
इर्यो॑ भू॒त्वा ब॑हु॒धा ब॒हूनि॑ ।
स इथ्सर्व॒व्ँ व्या॑नशे ।

सायणटीका

1तत्र प्रथमानुवाके प्रथमामृचमाह - योऽयं मुखनासिकावर्ती प्राणवायुः सोऽयं बहुधा भूत्वा प्राणापानादिवृत्तिभेदेनानेकप्रकारो भूत्वा बहूनि जीवजातानि प्रति इर्यः प्रेरकस्सन् एजत् कम्पमानं जङ्गमरूपं जगद्रक्षति स इत् स एव प्राणः सर्वं जगत् व्यानशे व्याप्तवान् ॥॥

02 यो देवो ...{Loading}...

यो दे॒वो दे॒वेषु॑ वि॒भूर् अ॒न्तः ।
आ-वृ॑द् ऊ॒दात्+++(←वचने)+++ ख्षेत्रिय् अ॑ध्व॒-गद् वृषा᳚ ।
तम् इत् प्रा॒णम् मन॒सोप॑ शिख्षत
अग्र॑न् दे॒वाना॑म् इ॒दम् अ॑त्तु नो ह॒विः ।

विश्वास-टिप्पनी

यः इत्यस्य वाक्ये वर्तमानत्वाद् तिङन्तस्वरो न हन्यते - तथा सति वद् → ऊदात् इत्यस्मिन् तादृशः स्वरो भवितुम् अर्हति न वेति … ??

02 यो देवो ...{Loading}...
मूलम्

यो दे॒वो दे॒वेषु॑ वि॒भूर॒न्तः ।
आवृ॑दू॒दात्ख्षेत्रिय॑ध्व॒गद्वृषा᳚ ।
तमित्प्रा॒णम्मन॒सोप॑ शिख्षत ।
अग्र॑न्दे॒वाना॑मि॒दम॑त्तु नो ह॒विः ।

सायणटीका

2अथ द्वितीयामाह - दीव्यन्तीति देवाः प्राणचक्षुःश्रोत्रादयः तेषु देवेषु मध्ये यो मुख्यो देवः प्राणः श्वासकर्ता सोऽयम् अन्तर् आवृदूदात् पुनःपुनर् अन्तर् बहिश् चावर्तमानत्वात् विभूः कृत्स्नदेहव्यापी क्षेत्री क्षेत्रं शरीरं तस्य स्वामी वृषा श्रेष्ठः ॥
तस्य दृष्टान्तः - अध्वगत् यथा लोके ऽध्वगो ऽनालस्य-गमनं करोत्य् एवमयं प्राणः प्रतिक्षणमुच्छ्वासनिश्वासौ करोति तमित् तमिव प्राणं मनसोपशिक्षत भक्तिपुरस्सरमुपचरत ॥ स प्राणो देवानां मध्येऽग्रं प्रथमं नोऽस्मदीयमिदं हविरत्तु भक्षयतु ॥ यदुक्तमैतरेयब्राह्मणे - ‘चक्षुः श्रोत्रं मनो वाक्प्राणस्ता एताः पञ्च देवता इमं विश्लिष्टाः पुरुषम्’ इति ॥ तदेतन्मन्त्रद्वयं प्राणदेवताविषयं द्रष्टव्यम् ॥

03 मनसश्चित्तेदम् ...{Loading}...

मन॑स॒श् चित्ता॑+इ॒दम् ।
भू॒तम् भव्य॑ञ् च गुप्यते
तद् +हि दे॒वेष्व् अ॑ग्रि॒यम् ॥1॥

03 मनसश्चित्तेदम् ...{Loading}...
मूलम्

मन॑स॒श्चित्ते॒दम् ।
भू॒तम्भव्य॑ञ्च गुप्यते ।
तद्धि दे॒वेष्व॑ग्रि॒यम् ॥1॥

सायणटीका

3अथ तृतीयामाह - यदिदं मनः अन्तःकरणमस्ति तस्य चित्ता चित्तेन वृत्तिविशेषेणेदं दृश्यमानं भूतं भव्यं चातीतमनागतं च सर्वं गुप्यते रक्ष्यते ॥ यत्पूर्वं निष्पन्नं पुत्रभृत्यादिचेतनं धनधान्याद्यचेतनं यच्चेतःपरं संपादनीयं चेतनमचेतनं च तत्सर्वं मनसैव परिरक्ष्यते ॥ तद्रक्षोपायानां मनसा चिन्त्यमानत्वात् ॥ हि यस्मात्कारणात् तन्मनो देवेषु दीप्यमानेष्विन्द्रियेषु अग्रियं श्रेष्ठं तस्मात्तेन रक्षणमुचितम् ॥॥

04 आ न ...{Loading}...

आ न॑ एतु पुरश् च॒रम् ।
स॒ह दे॒वैर् इ॒मꣳ हव᳚म्+++(=आह्वानम्)+++ ।
मन॒श् श्रेय॑सिश्रेयसि ।
कर्म॑न्+++(→णि)+++ य॒ज्ञ-प॑ति॒न् दध॑त् ।+++(5)+++

04 आ न ...{Loading}...
मूलम्

आ न॑ एतु पुरश्च॒रम् ।
स॒ह दे॒वैरि॒मꣳ हव᳚म् ।
मन॒श्श्रेय॑सिश्रेयसि ।
कर्म॑न्य॒ज्ञप॑ति॒न्दध॑त् ।

सायणटीका

4अथ चतुर्थीमाह - तन्मनो देवैर्दीप्यमानैरन्यैरिन्द्रियैः सह पुरश्चरं स्वयमग्रगामि भूत्वा नोऽस्मदीयमिमं हवमाह्वानं प्रत्येतु आभिमुख्यं प्राप्नोतु ॥ किं कुर्वन्? श्रेयसिश्रेयसि कर्मन् तस्मिंस्तस्मिन्प्रशस्ते कर्मणि यज्ञपतिं दधत् यजमानं स्थापयतु सर्वेषु पुण्यकर्मसु प्रवर्तयत्वित्यर्थः ॥ तदेतन्मन्त्रद्वयं मनोदेवताविषयं द्रष्टव्यम् ॥॥

05 जुषताम्मे वागिदम् ...{Loading}...

जु॒षता᳚म् मे॒ वाग् इ॒दꣳ ह॒विः ।
वि॒राड् दे॒वी पु॒रोहि॑ता ।
ह॒व्य॒-वाड् अन॑पायिनी

05 जुषताम्मे वागिदम् ...{Loading}...
मूलम्

जु॒षता᳚म्मे॒ वागि॒दꣳ ह॒विः ।
वि॒राड्दे॒वी पु॒रोहि॑ता ।
ह॒व्य॒वाडन॑पायिनी ।

सायणटीका

5अथ पञ्चमीमाह - इदं पुरोवर्ति मे हविः वाग्देवी सेवताम् ॥ कीदृशी? विराट् विविधं राजत हति विराड्विराजमाना देवी देवताविग्रहा पुरोहिता प्रथमतः प्रवृत्ता ॥ यद्यपि पुरश्चरत्वं मनस उक्तं, तथाऽपि कायव्याप्रारापेक्षया पूर्वभावित्वं प्रथममवृत्तिर्वचसो युक्ता ॥ अत एव व्यवहारक्रमोऽन्यत्राम्नातः - ‘यद्धि मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति’ इति ॥ हव्यवाट्, वाचा हि मन्त्रमुच्चार्य हविर्दीयते तस्माद्वागियं हविर्वहतीत्युपचर्यते ॥ अनपायिनी सर्वेष्वपि व्यवहारेष्वनुगता ॥ न हि वागिन्द्रियमन्तरेणातीतानागतविषयो व्यवहारः संभवति ॥॥

06 यया रूपाणि ...{Loading}...

यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति
पेशाꣳ॑सि दे॒वाᳶ प॑र॒मे ज॒नित्रे᳚ ।
सा नो॑ वि॒राड् अन॑पस्फुरन्ती ॥2॥
वाग्-दे॒वी जु॑षताम् इ॒दꣳ ह॒विः ।

06 यया रूपाणि ...{Loading}...
मूलम्

यया॑ रू॒पाणि॑ बहु॒धा वद॑न्ति ।
पेशाꣳ॑सि दे॒वाᳶ प॑र॒मे ज॒नित्रे᳚ ।
सा नो॑ वि॒राडन॑पस्फुरन्ती ॥2॥
वाग्दे॒वी जु॑षतामि॒दꣳ ह॒विः ।

सायणटीका

6अथ षष्ठीमाह - यान्येतानि देवतिर्यङ्मनुष्यादिरूपाणि यानि च नीलपीतशुक्लकृष्णादिरूपाणि तानि सर्वाणि यया वाचा मनुष्या वहुधा वदन्ति, इदं समीचीनमिदमसमीचीनमित्येतादृशं बहुधा वदन्ति ॥ तथा - परमे जनित्रे उत्तमे जन्मनि वर्तमाना देवाश्च पेशांमि रमणीयानि रूपाणि यया वाचा वदन्ति ॥ सा वाग्देवी नौऽस्मदीयमिदं हृविर्जुषताम् ॥ कीदृशी वाक्? अर्थप्रकाशकत्वेन विविधं राजत इति विराट् ॥ अपस्फुरणमर्थाभिधाने कुण्ठीभावः तद्राहित्यादनपस्फुरन्ती ॥ तदिदं मन्त्रद्वयं वाग्देवता विषयं द्रष्टव्यम् ॥॥

07 चख्षुर्देवानाञ्ज्योतिरमृते ...{Loading}...

चख्षु॑र् दे॒वाना॒ञ् +++(→सूर्यः)+++ ज्योति॑र् अ॒मृते॒ न्य॑क्तम्
अ॒स्य +++(→सर्वस्य)+++ वि॒ज्ञाना॑य बहु॒धा निधी॑यते
तस्य॑ +++(→चक्षुषोः)+++ सु॒म्नम् अ॑शीमहि
मा नो॑ हासीद् विचख्ष॒णम् ।

07 चख्षुर्देवानाञ्ज्योतिरमृते ...{Loading}...
मूलम्

चख्षु॑र्दे॒वाना॒ञ्ज्योति॑र॒मृते॒ न्य॑क्तम् ।
अ॒स्य वि॒ज्ञाना॑य बहु॒धा निधी॑यते ।
तस्य॑ सु॒म्नम॑शीमहि ।
मा नो॑ हासीद्विचख्ष॒णम् ।

सायणटीका

7अथ सप्तमीमाह - देवानां दीव्यमानानामिन्द्रियाणां मध्ये चक्षुर् इन्द्रियं ज्योतिः विस्पष्टभासकं, तच् चामृते मरणरहिते आदित्यस्वरूपे न्यक्तं निलीनम् ॥
अत एव बह्वृचा आमनन्ति - ‘आदित्यश्चक्षुर्भूप्वाऽक्षिणी प्राविशत्’ इति ॥
तद् इदं चक्षुः अस्य सर्वस्य नीलपीतादिरूपजातस्य बहुधा विज्ञानाय नानाविधज्ञानसिद्धये निधीयते प्रजापतिना व्यवस्थाप्यते ॥
तस्य चक्षुरिन्द्रियस्य सुम्नं सुखं तेन चक्षुरिन्द्रियेण रूपप्रकाशने सति यात्सुखं जायते तत्सर्वमशीमहे अश्नुवीमहि प्राप्नुयाम ॥ विचक्षणं विशेषेण प्रकाशकं, तच्चक्षुरिन्द्रियं नोऽस्मान् मा हासीत् कदाचिदपि मा परित्यजतु ॥॥

08 आयुरिन्नᳶ प्रतीर्यताम् ...{Loading}...

आयु॒र् इन् न॒ᳶ प्रती᳚र्यताम्
अन॑न्धा॒श् चख्षु॑षा व॒यम् ।
जी॒वा ज्योति॑र् अशीमहि
सुव॒र् ज्योति॑र् उ॒तामृत᳚म् ।

08 आयुरिन्नᳶ प्रतीर्यताम् ...{Loading}...
मूलम्

आयु॒रिन्न॒ᳶ प्रती᳚र्यताम् ।
अन॑न्धा॒श्चख्षु॑षा व॒यम् ।
जी॒वा ज्योति॑रशीमहि ।
सुव॒र्ज्योति॑रु॒तामृत᳚म् ।

सायणटीका

8अथाष्टमीमाह - चक्षुर्देवताप्रसादेन नोऽस्मदीयमायुरित् प्रतीर्यतां सर्वथा वर्धताम् ॥ अनेन चक्षुषा युक्ता वयं जीवाः क्वाप्यनन्धाः सन्तो रूपाभिव्यक्तवृतिलक्षणं ज्योतिः अशीमहि प्राप्नुयाम ॥ उत अपि च सुवः स्वर्गस्थितममृतं ज्योतिः विनाशरहितमादित्यप्रकाशं अशीमहि चक्षुषा पश्येम ॥ तदिदं मन्त्रद्वयं चक्षुर्देवताविषयं द्रष्टव्यम् ॥॥

09 श्रोत्रेण भद्रमुत ...{Loading}...

श्रोत्रे॑ण भ॒द्रम् उ॒त शृ॑ण्वन्ति स॒त्यम् ।
श्रोत्रे॑ण॒ वाच॑म् बहु॒धोद्यमा॑नाम्
श्रोत्रे॑ण॒ मोद॑श् च॒ मह॑श् च श्रूयते
श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आ शृ॑णोमि

09 श्रोत्रेण भद्रमुत ...{Loading}...
मूलम्

श्रोत्रे॑ण भ॒द्रमु॒त शृ॑ण्वन्ति स॒त्यम् ।
श्रोत्रे॑ण॒ वाच॑म्बहु॒धोद्यमा॑नाम् ।
श्रोत्रे॑ण॒ मोद॑श्च॒ मह॑श्च श्रूयते ।
श्रोत्रे॑ण॒ सर्वा॒ दिश॒ आ शृ॑णोमि ।

सायणटीका

9अथ नवमीमाह - यद्भद्रं कल्याणं यच्च सत्यं वचनं तत्सर्वं श्रोत्रेणैव सर्वे शृण्वन्ति ॥ येयं वाक् प्राणिभिर्बहोधोच्यते तां सर्वां वाचमनेन श्रोत्रेन्द्रियेण सर्वो जनः शृणोति ॥ किं च - योऽयं मोदो हर्षविषयो वृत्तान्तो यच्च महः पूजाविषयो वृत्तान्तः स सर्वोऽपि श्रोत्रेणैव श्रूयते ॥ किं च - सर्वा दिशो योऽयं सर्वदिग्विषयो वृत्तान्तः तमप्यहं श्रोत्रेण सर्वत आशृणोनि ॥॥

10 येन प्राच्या ...{Loading}...

येन॒ प्राच्या॑ उ॒त द॑ख्षि॒णा । प्र॒तीच्यै॑ दि॒शश् शृ॒ण्वन्त्य् उ॑त्त॒रात् ।
तद् इच् छ्रोत्र॑म् बहु॒धोद्यमा॑नम्
अ॒रान् न ने॒मिᳶ परि॒ सर्व॑म् बभूव ॥3॥+++(5)+++

10 येन प्राच्या ...{Loading}...
मूलम्

येन॒ प्राच्या॑ उ॒त द॑ख्षि॒णा । प्र॒तीच्यै॑ दि॒शश्शृ॒ण्वन्त्यु॑त्त॒रात् ।
तदिच्छ्रोत्र॑म्बहु॒धोद्यमा॑नम् ।
अ॒रान्न ने॒मिᳶ परि॒ सर्व॑म्बभूव ॥3॥

सायणटीका

10अथ दशमीमाह - येन श्रोत्रेण प्राच्यादिदिग्भ्य आगतं शब्दं शृण्वन्ति, तदेव श्रोत्रं बहुधोद्यमानं उच्यमानं शब्दजातं सर्वं परिबभूव परिगृह्य वर्तते रथनेमिरिव सर्वान् अरान् ॥ चक्रस्य बहिर्वलयो नेभिः तदन्तर्वर्तिनोऽवयवाः कालसंज्ञा अराः ॥ एतच्च मन्त्रद्वयं श्रोत्रविषयं द्रष्टव्यम् ॥ एतेषां दशानां मन्त्राणां जातकर्मणि विनियोगं वोधायन आह - ‘अथैनं दधि मधु धृतमिव समुदाहृत्य हिरण्येन प्राशयति पाणो रक्षति विश्वमेजदित्यनुवाकेन प्रत्यृचम्’ इति ॥॥

इति तैत्तिरीयब्राह्मणभाष्ये द्वितीयाष्टके पञ्चमप्रपाठके प्रथमोऽनुवाकः ॥