०१ पञ्चहोतृहोमः

प्राणानायम्य, चातुर्मास्यान्यारप्स्यमानः३ पञ्चहोतारं सग्रहं होष्यामीति सङ्कल्प्य । अध्वर्युः - आहवनीयं विहृत्य । जुह्वां सकृद्गृहीत्वा अग्निर्होता । अश्विनाध्वर्यू । त्वष्टाग्नीत् । मित्र उपवक्ता । इति सन्ततं मनसा जपित्वा । अथ उपांशुजपो वाक्यशः पाठश्च । सोमस्सोमस्य पुरोगाः । शुक्रश्शुक्रस्य पुरोगाः । श्रातास्त इन्द्र सोमाः । वातापेर्हवनश्रुतस्स्वाहा आहवनीये जुहोति । वाचस्पतये ब्रह्मण इदम् । अग्निं परित्यज्य । चातुर्मास्यान्यारप्स्यमानः पञ्चहोतारं हुत्वा कूष्माण्डैर्जुहुयात्