०९ 'ये देवाः पुरस्सदः' इति पञ्च,

‘ये देवाः पुरस्सदः’ इति पञ्च,

ये दे॒वाᳶ पु॑र॒स्-सदो॒ ...{Loading}...

विश्वास-प्रस्तुतिः

ये दे॒वाᳶ पु॑र॒स्-सदो॒ऽग्नि-ने᳚त्राः [रख्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॑ नम॒स्,
तेभ्य॒स् स्वाहा᳚ ]

Keith

The gods that sit in the east, led by Agni;

मूलम्

ये दे॒वाᳶ पु॑र॒स्सदो॒ऽग्निने᳚त्राः [रख्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा᳚ ]

मूलम् (संयुक्तम्)

ये दे॒वाᳶ पु॑र॒स्सदो॒ऽग्निने᳚त्रा दख्षिण॒सदो॑ य॒मने᳚त्राᳶ पश्चा॒थ्सद॑स्सवि॒तृने᳚त्रा उत्तर॒सदो॒ वरु॑णनेत्रा उपरि॒षदो॒ बृह॒स्पति॑नेत्रा रख्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यः॑ [12] स्वाहा

भट्टभास्कर-टीका

ये देवाः पुरस्सदः पूर्वस्यां दिशि सीदन्तीति । ‘पूर्वापराधराणाम्’ इत्यसिप्रत्ययः ।
अग्निनेत्राः अग्निप्रधानाः । ‘छन्दसि नेतुरुपसङ्ख्यानम्’ इत्यप्रत्ययः, ‘ऋतश्छन्दसि’ इति कबभावः ।
रक्षोहणः रक्षसां हन्तारः, ते नो ऽस्मान्पान्तु, ते नोस्मानवन्तु प्रीणयन्तु, तेभ्यो नमः नमस्कुर्मः, तेभ्यस्स्वाहा स्वाहुतमस्तु ।

विश्वास-प्रस्तुतिः

[ये दे॒वाः] दख्षिण॒-सदो॑ य॒म-ने᳚त्राः [रख्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॑ नम॒स्,
तेभ्य॒स् स्वाहा᳚ ]

Keith

that sit in the south, led by Yama;

मूलम्

[ये दे॒वाः] दख्षिण॒सदो॑ य॒मने᳚त्राः [रख्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा᳚ ]

भट्टभास्कर-टीका

एवं ये देवाः दक्षिणसदः यमनेत्रा रक्षोहणः ते नः पान्तु ते नोवन्त्वित्यादि ।

विश्वास-प्रस्तुतिः

[ये दे॒वाः] पश्चा॒थ्-सद॑स् सवि॒तृ-ने᳚त्राः [रख्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॑ नम॒स्,
तेभ्य॒स् स्वाहा᳚ ]

Keith

that sit in the west, led by Savitr;

मूलम्

[ये दे॒वाः] पश्चा॒थ्सद॑स्सवि॒तृने᳚त्राः [रख्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा᳚]

भट्टभास्कर-टीका

तथा ये देवाः पश्चात्सदः सवितृनेत्राः रक्षोहण इत्यादि ।

विश्वास-प्रस्तुतिः

[ये दे॒वाः] उत्तर॒-सदो॒ वरु॑ण-नेत्राः [रख्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॑ नम॒स्,
तेभ्य॒स् स्वाहा᳚ ]

Keith

that sit in the north, led by Varuna;

मूलम्

[ये दे॒वाः] उत्तर॒सदो॒ वरु॑णनेत्राः [रख्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा᳚ ]

भट्टभास्कर-टीका

ये देवा उत्तरसदो वरुणनेत्राः रक्षोहण इत्यादि ।

विश्वास-प्रस्तुतिः

[ये दे॒वाः] उपरि॒-षदो॒ बृह॒स्-पति॑-नेत्राः रख्षो॒-हण॒स्,
ते नᳶ॑ पान्तु॒,
ते नो॑ऽवन्तु॒,
तेभ्यो॑ नम॒स्,
तेभ्य॒स् स्वाहा᳚ ॥

Keith

that sit above, led by Brhaspati; that slay the Raksases; may they protect us, may they help us; to them homage; to them hail! [1]

मूलम्

[ये दे॒वाः] उपरि॒षदो॒ बृह॒स्पति॑नेत्राः रख्षो॒हण॒स्ते नᳶ॑ पान्तु॒ ते नो॑ऽवन्तु॒ तेभ्यो॑ नम॒स्तेभ्य॒स्स्वाहा॥

भट्टभास्कर-टीका

ये देवा उपरिषदो बृहस्पतिनेत्राः ।

रक्षोहण इत्यादि । वनस्पत्यादित्वात् बृहस्पतिशब्दे पूर्वोत्तरयोः पदयोर्युगपत्प्रकृतिस्वरत्वम् ॥