०३ हविर्धाननिर्माणम्

अध्वर्युः :- लौकिकाभिरद्भिः प्रोक्ष्य बर्हिः, त्रिार्वेदिं प्रोक्षति । नाप्रोक्षितामभिचरन्ति । अथैनां बर्हिषा बहुलं प्राचीनं स्तीर्त्वा प्रयुक्तपूर्वे शकटे नद्धयुगे प्रतिहतशम्ये प्रक्षाल्य । तयोः प्रथमग्रथितान् ग्रन्थीन् विस्रस्य । नवान् प्रज्ञातान् कृत्वाऽग्रेण प्राग्वंशमभितः पृष्ठ्यामव्यनयन् परिश्रिते सच्छदिषी अवस्थापयति । अथैने पत्नी पदतृतीयेनाज्यमिश्रेण चतुर्धाकृतेन आ नो वीरो जायतां कर्मण्यो यꣳ सर्वेऽनु जीवाम यो बहूनामसद्वशी । द्विर्दक्षिणामक्षधुरं दक्षिणेन हस्तेनोत्तानेन प्राचीनमनक्ति । न च हस्तमावर्तयति । सकृदेव मन्त्रोच्चारणम् । एवमितरां द्वितीयभागेन । तत उत्तरस्य हविर्धानस्योपानक्ति । अध्वर्युः :- जुह्वां सकृद्गृहीत्वा युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिस्स्वाहा औत्तरवेदिके जुहोति । सवित्र इदम् । हविर्धानाभ्यां प्रवर्त्यमानाभ्यामनुब्रू३हि इति सम्प्रेष्यति ।