१४ ०१ सीमन्तोन्नयनम् प्रथमे
१४ ०१ सीमन्तोन्नयनम् प्रथमे ...{Loading}...
सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि ॥ आपस्तम्बगृह्यसूत्र १४.१ ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- The Sīmantonnayana (or parting of the pregnant wife’s hair, is performed) in her first pregnancy, in the fourth month.
हरदत्त-प्रस्तावः
मन्त्राम्नानक्रमेण विवाहादयस् संस्कारा व्याख्याताः । अनन्तरं तत्-क्रमेणैव सीमन्तादयो व्याख्यायन्ते—
हरदत्तः
सीमन्तो नाम केश-मध्ये रेखाविशेषः । स उन्नीयते यस्मिन् कर्मणि तत् सामन्तोन्नयनन्नाम कर्म गर्भसंस्कारः ।
तच् चतुर्थे मासि कर्तव्यम् । प्रथम-नियमाद् आधार-संस्कारो ऽयम् ।
आधारे च संस्कृते तत्राहिताः सर्व एव गर्भाः संस्कृता भवन्ति ॥१॥
सुदर्शनः
सीमन्तोन्नयनम् इति कर्म-नाम-धेयम्।
यस्मिन् कर्मणि गर्भिण्यास् सीमन्त उन्नीयते तत् व्याख्यास्याम इति शेषः ।
तच् च प्रथमे गर्भे; न तु गर्भे गर्भे । गर्भार्थम् एवाधार-स्त्री-संस्कारः । स्त्रीसंस्कारत्वात् सकृद् एव कृतस् सीमन्तस् सर्वान् एव गर्भान् संस्करोति ।
चतुर्थे मासि चतुर्थे मासे । अल्लोपश्छान्दसः, “छन्दोवत्सूत्राणि भवन्ति” इति स्मृतेः ॥१॥
मूलम् ...{Loading}...
सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि ।
१४ ०२ ब्राह्मणान् भोजयित्वाऽऽशिषो
१४ ०२ ब्राह्मणान् भोजयित्वाऽऽशिषो ...{Loading}...
ब्राह्मणान् भोजयित्वा ऽशिषो वाचयित्वा,
अग्नेर् उपसमाधानाद्य्-आज्यभागान्ते
ऽन्वारब्धायाम् +++(चौले - अन्वारब्धे)+++
उत्तरा आहुतीर् हुत्वा +++(= " धाता ददातु नो रयिम्" इति चतस्रो, “यस्त्वा हृदा कीरिणे"ति चतस्रः)+++
जयादि प्रतिपद्यते ॥
परिषेचनान्तं कृत्वा
०१ धाता ददातु ...{Loading}...
धा॒ता द॑दातु नो र॒यिम्
ईशा॑नो॒ जग॑त॒स्+++(!)+++पतिः॑ ।
स नः॑ पू॒र्णेन॑ वावनत् ।
०२ धाता प्रजाया ...{Loading}...
धा॒ता प्र॒जाया॑ उ॒त रा॒य ई॑शे +++(=ईष्टे)+++
धा॒तेदं विश्व॒म् भुव॑नं जजान ।
धा॒ता पु॒त्रं यज॑मानाय॒ दाता॑
तस्मा॑ उ ह॒व्यं घृ॒तव॑द् विधेम ।
०३ धाता ददातु ...{Loading}...
धा॒ता द॑दातु नो र॒यिम्
प्राचीं॑ जी॒वातु॒म् अक्षि॑ताम् ।
व॒यं दे॒वस्य॑ धीमहि
सुम॒तिꣳ स॒त्य-रा॑धसः+++(=धनस्य)+++ ।
०४ धाता ददातु ...{Loading}...
धा॒ता द॑दातु दा॒शुषे॒ वसू॑नि
प्र॒जाका॑माय मी॒ढुषे॑ +++(=सेक्त्रे)+++ दुरो॒णे +++(=दारेषु)+++ ।
तस्मै॑ दे॒वा अ॒मृताः॒ सं व्य॑यन्तां॒ +++(=ददतु)+++
विश्वे॑ दे॒वासो॒ अदि॑तिः स॒जोषाः॑ ।
०५ यस्त्वा हृदा ...{Loading}...
१० यस्त्वा हृदा ...{Loading}...
यस् त्वा॑ हृ॒दा की॒रिणा॒ +++(=स्तोत्रिणा)+++ मन्य॑मा॒नो
ऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि ।
जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि
प्र॒जाभि॑र् अग्ने अमृत॒त्वम् अ॑श्याम् ॥
०६ यस्मै त्वम् ...{Loading}...
११ यस्मै त्वं ...{Loading}...
यस्मै॒ त्वꣳ सु॒कृते॑ जातवेद॒ उ
लो॒कम् अ॑ग्ने कृ॒णवः॑ +++(=कुर्याः)+++ स्यो॒नम् +++(सुखमयम्)+++।
अ॒श्विन॒ꣳ॒ स पु॒त्रिणं॑ वी॒रव॑न्तं॒
गोम॑न्तꣳ र॒यिं न॑शते +++(=प्राप्नोति)+++ स्व॒स्ति ॥
०७ त्वे सु ...{Loading}...
१४ त्वे सु ...{Loading}...
त्वे सु पु॑त्त्र शव॒सो
ऽवृ॑त्र॒न् +++(=अवर्तन्त)+++ काम॑-कातयः +++(=कामकामनाः)+++ ।
न त्वाम् इ॒न्द्राति॑ रिच्यते ।।
०८ उक्थउक्थे सोम ...{Loading}...
०२ उक्थौक्थे सोम ...{Loading}...
उ॒क्थउ॑क्थे॒ सोम॒ इन्द्रं॑ ममाद
नी॒थेनी॑थे +++(समाप्ते समाप्ते)+++ म॒घवा॑नꣳ सु॒तासः॑ ।
यद् ईꣳ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः
स॑मा॒न-द॑क्षा॒ +++(=समानबलाः)+++ अव॑से॒ हव॑न्ते ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- (The husband) serves food to Brāhmaṇas and causes them to pronounce auspicious wishes; then, after (the ceremonies) from the putting (of wood) on the fire down to the Ājyabhāga oblations (have been performed), he offers the oblations (indicated in the) next (Mantras, M. II, 11, 1-8), while (the wife) takes hold of him, and enters upon the (performance) of the Jaya and following oblations.
हरदत्तः
तत्र पूर्वेद्युर् नान्दीश्राद्धम् । अथ तस्मिन्न् अहनि ब्राह्मणान् भोजयित्वा तैर् भुक्तवद्भिर् आशिषो वाचयित्वा अग्नेर् उपसमाधानादि प्रतिपद्यते सकृत्-पात्राणि शलल्य्-आदयश् च, सह शम्याः ॥२॥ अष्टौ प्रधानाहुतयो “धाता ददातु नो रयिम्” इति चतस्रो “यस्त्वाहृदा कीरिणे"ति चतस्रः ॥३॥
सुदर्शनः
इह ब्राह्मण-भोजनाशीर्वचनयोर् विधानं उपनयनवत् क्रमार्थम् । पात्रासादन-काले तु यथार्थं शलल्यादीनि सकृद् एवासाद्यानि । शम्याश् च परिध्यर्थे । उत्तराः “धाता ददातु नो रयिम्” इति चतस्रो “यस्त्वा हृदा कीरिणा” इति चतस्र इत्यष्टौ । शेषं सुगमम् ॥२॥
मूलम् ...{Loading}...
ब्राह्मणान् भोजयित्वाऽऽशिषो वाचयित्वाऽग्नेर् उपसमाधानाद्य्-आज्य-भागान्ते ऽन्वारब्धायाम् उत्तरा आहुतीर् हुत्वा जयादि प्रतिपद्यते ।
१४ ०३ परिषेचनान्तङ् कृत्वा
१४ ०३ परिषेचनान्तङ् कृत्वा ...{Loading}...
परिषेचनान्तं कृत्वा ऽपरेणाग्निं प्राचीम् उपवेश्य त्रेण्या शलल्या त्रिभिर् दर्भ-पुञ्जीलैश् शलालु-ग्लप्सेनेत्य् +++(→उदुम्बर-फल-सङ्घातेन)+++ ऊर्ध्वं सीमन्तम् उन्नयति व्याहृतीभिर् उत्तराभ्यां च ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Having performed (the rites) down to the sprinkling (of water) round (the fire), he makes her sit down to the west of the fire, facing the east, and parts her hair upwards (i.e. beginning from the front) with a porcupine’s quill that has three white spots, with three Darbha blades, and with a bunch of unripe Udumbara fruits, with the Vyāhṛtis or with the two next (verses, II, 11, 9. 10).
हरदत्तः
प्राचीं प्राङ्-मुखीं स्वयं प्रत्यङ्-मुखः ।
त्रिषु प्रदेशेषु एनी श्वेता त्रेणी । इकार-लोपश् छान्दसः । णत्वं च । शलली शल्यकस्य रोम-सूची ।
सविशाखा नाडी पुञ्जीलम् इत्युच्यते । दर्भस्य पुञ्जीलानि त्रीणि भवन्ति ।
उदुम्बरस्य फल-सङ्घात-विशेषस् तरुणः शलालु-ग्लप्स इत्युच्यते । पिशाचोदुम्बरस्येत्यन्ये ।
एतानि द्रव्याणि युगपद्गृहीत्वा तैस्सीमन्तमुन्नयति ऊर्ध्वमुदूहति भूर्भुवस्सुवरित्येताभिः उत्तराभ्यां च “राकामहं, “यास्ते राक” इत्येताभ्याम् ।
त्रयाणाम् अन्ते सकृद् उन्नयनम् । इह मन्त्रसमाम्नाये व्याहृतीनां पाठो न कर्तव्यः । व्याहृतिभिरित्येतेनैव सिद्धस्सम्प्रत्ययः । यथा व्याहृतीश्च जपित्वा, व्याहृतीर्विहृताः, इत्यादौ । एवं सिद्धे व्याहृतीनां पाठः समाम्नायार्थम् । किञ्चासति पाठे व्याहृतिभिरुत्तराभ्याञ्चेत्युच्यमाने याजमानसमाम्नायात् ग्रहणं प्राप्नोति–व्याहृतिभिरुत्तराभ्याञ्च मन्त्राभ्यां “उच्छुष्मो अग्न” इत्येताभ्यामिति । तत्र पाठस्य प्रसिद्धत्वात् । “राकामहं” “यास्ते राके” इत्येतयोश्च प्रधानाहुतित्वं विज्ञायेत, विशेषाभावात् । तस्मादस्मादेव समाम्नायाद्ग्रहणं यथा स्यादिति व्याहृतीनामिह पाठः ॥३॥
सुदर्शनः
प्राचीं प्राङ्मुखीम् । स्वयं तु प्रत्यङ्मुखः । त्रेणी त्रीण्येतानि शुक्लानि यस्यास्सा । यद्वा त्रिषु प्रदेशेषु एनी श्वेता । त्रेणीति च रूपं छान्दसम् । शलली सूच्याकारं शल्यलोम । त्रेणीति शलल्या विशेषणम् । दर्भ-पुञ्जीलं सविशाखा नाडी । शलालुर् गोष्ठोदुम्बरः, खरपत्रोदुम्बरः, पिशाचोदुम्बर इत्यनर्थान्तरम् । ग्लप्सः स्तबकः ; पिशाचोदुम्बरस्य तरुणफलसङ्घातविशेष इत्यर्थः । इत्येतैर्द्रव्यैर्युगपद्गृहीतैरूर्ध्वं सीमन्तमुन्नयति शिरसि मध्ये रेखामुदूहति । कैर्मन्त्रैः ? “भूर्भुवस्सुवः” “राकामहं सुहवाम्” “यास्ते राके सुमतयः” इत्येतैर्मन्त्रैः । चकारो बहुमन्त्रज्ञापनार्थः ॥३॥
मूलम् ...{Loading}...
परिषेचनान्तं कृत्वा ऽपरेणाग्निं प्राचीम् उपवेश्य त्रेण्या शलल्या त्रिभिर् दर्भ-पुञ्जीलैश् शलालु-ग्लप्सेनेत्य् ऊर्ध्वं सीमन्तम् उन्नयति व्याहृतीभिर् उत्तराभ्यां च ।
१४ ०४ ‘गायतम्’ इति
१४ ०४ 'गायतम्' इति ...{Loading}...
गायतम् इति वीणा-गाथिनौ संशास्ति ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- He says to two lute-players, ‘Sing!’
हरदत्तः
वीणया यो गाथां गायति स वीणगाथी । तावुभौ प्रागेवानीतौ भवतः । तौ संशास्ति संप्रेष्येति– गायतमिति । तौ गायतः । तत्र ऋङ्नियमः ॥४॥
सुदर्शनः
वीणया गाथां गायत इति वीणागाथिनौ । तौ गायतमिति संशास्ति संप्रेष्यति ॥४॥
मूलम् ...{Loading}...
‘गायतम्’ इति वीणागाथिनौ सँशास्ति ॥
१४ ०५ उत्तरयोः पूर्वा
१४ ०५ उत्तरयोः पूर्वा ...{Loading}...
उत्तरयोः पूर्वा साल्वानां ब्राह्मणानामितरा ।
१२ यौगन्धरिरेव नो ...{Loading}...
यौग॑न्धरिर् ए॒व नो॒ राजेति॒ साल्वी॑र् अवादिषुः ।
विवृ॑त्तचक्रा॒ आसी॑ना॒स् तीरे॑ण यमुने॒ तव॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- Of the next two (verses, II, 11, 11. 12) the first (is to be sung on this occasion) among the (people of the) Sālvas.
हरदत्तः
उत्तरयोः ऋचोः या पूर्वा “यौगन्धरिर्” इत्येषा । सा साल्वानां सीमन्तकर्मणि गाथा साल्वदेशनिवासिनां अस्यामृचि गानं कर्तव्यमित्यर्थः । स देशो यमुनातीरे भवति । वैश्याश्च तत्र भूयिष्ठं भवन्ति । तेषामेव राजा यौगन्धरिः ॥६॥ इतरा “सोम एव नो राजा” इत्येषा । न सर्वेषां ब्राह्मणानामपि तु साल्वानाम् ॥५॥
सुदर्शनः
उत्तरयोः ऋचोः वीणागाथिनौ गायेताम् । केषां कतरा गाथा? इत्यत आह पूर्वेति । पूर्वा “यौगन्धरिः"इत्येषा । साल्वदेशीयानां त्रयाणां वर्णानामपि गाथा ; “साल्वीः” इत्यविशेषलिङ्गात् । अन्यदेशवासिनां ब्राह्मणानामितरा “सोम एव नो राजा” इत्येषा । क्षत्रियवैश्यानां तु “सोमो नो राजाऽवतु मानुषीः प्रजाः” (आश्व. गृ. १-१२-७.) इत्याश्वलायनीये दृष्टायां सार्ववर्णीक्यामृचि गानं कर्तव्यम् । न तु गानाभावः । गायतमित्यविशेषेण संशासनविधानात् । केचित्—साल्वानामपि ब्राह्मणानामितरेति ॥५॥
मूलम् ...{Loading}...
उत्तरयोः पूर्वा साल्वानां ब्राह्मणानामितरा ।
१४ ०६ नदीनिर्देशश्च यस्याम्
१४ ०६ नदीनिर्देशश्च यस्याम् ...{Loading}...
+++(अन्येषाम् - “सोम एव नो राजा” इत्येषा।)+++ नदी-निर्देशश्च यस्यां वसन्ति ॥
१३ सोम एव ...{Loading}...
सोम॑ ए॒व नो॒ राजेत्य्
आ॑हुर्ब्राह्म॒णीः प्र॒जाः ।
विवृ॑त्त-चक्रा॒ आसी॑ना॒स्
तीरे॑णासौ॒+++(→उपजीव्यनदीनाम)+++ तव॑ ।
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 1 The second (is to be used) for Brāhmaṇas; and the river near which they dwell is to be named.
हरदत्तः
द्वितीये मन्त्रे असौ शब्दस्य स्थाने नद्या नाम संबुध्या निर्देष्टव्यम् । यस्यां वसन्ति यामुपजीवन्तीत्यर्थः । यथा–तीरेण कावेरि तवेति । क्षत्रियाणां तु सर्वेषां कल्पान्तरदृष्टायां सार्ववर्णिक्यामृचि गानं भवति । “सोम एव नो राजेत्याहुर्मानुषीः प्रजाः । विवृत्तचक्रा आसीना” इति । अत्रापि नदीनिर्देशस्सम्बुध्या ॥६॥
सुदर्शनः
“सोम एव नो राजा” इत्यस्वां असावित्यस्य स्थाने “कावेरि” “वेगवति” इति सम्बुध्या नदीनिर्देशश्च भवति । कस्या नद्याः? इति चेत् यस्यां वसन्ति” समीपसप्तमी चेयम् । यस्यास्समीपे वसन्ति तस्या निर्देश इत्यर्थः ॥६॥
मूलम् ...{Loading}...
नदीनिर्देशश्च यस्यां वसन्ति ।
१४ ०७ यवान् विरूढानाबध्य
१४ ०७ यवान् विरूढानाबध्य ...{Loading}...
+++(पूर्वमेवैतदर्थम् उप्तान्)+++ यवान् विरूढान् +++(शिरसि वध्वाः)+++ आबध्य,
+++(वधूर्)+++ वाचं यच्छत्य् आनक्षत्रेभ्यः ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- 2 He ties barley-grains with young shoots (to the head of the wife); then she keeps silence until the stars appear.
हरदत्तः
विरूढान् अङ्कुरितान् सूत्र-बद्धान् आबध्नाति शिरसि वध्वाः । सैव वाचं यच्छति । एवम् उपदेशो भोजनञ् चास्यास्मिन्न् अहनि नेच्छन्ति । यवाश् च प्रागेव वप्तव्याः यथास्मिन् काले विरूढा भवन्ति ॥७॥
सुदर्शनः
अङ्कुरितान् सूत्र-ग्रथितान् यवान् वध्वाश् शिरस्याबध्नाति । शिरसीति कुतः? आचारात् ॥७॥
मूलम् ...{Loading}...
यवान् विरूढानाबध्य वाचं यच्छत्यानक्षत्रेभ्यः ।
१४ ०८ उदितेषु नक्षत्रेषु
१४ ०८ उदितेषु नक्षत्रेषु ...{Loading}...
उदितेषु नक्षत्रेषु प्राचीम् उदीचीं वा दिशम् उपनिष्क्रम्य
वत्सम् अन्वारभ्य
व्याहृतीश् च जपित्वा
वाचं विसृजेत् ॥
सर्वाष् टीकाः ...{Loading}...
Oldenberg
- When the stars have appeared, he goes (with his wife) towards the east or north, touches a calf, and murmurs the Vyāhṛtis; then she breaks her silence.
हरदत्तः
वत्सः पुमान् गौश्च भवति । व्याहृतयस्समस्ताः याजमानसमाम्नायात् प्रत्येतव्याः ॥८॥
सुदर्शनः
विस्पष्टार्थम् । इह केचिद् अध्येतारो “यच्छतो” “विसृजत” इति द्विवचने पठन्ति । तस्मिन् पक्षे वाग्-यमनादि-पदार्थ-पञ्चकम् उभौ जायापती कुरुतः । केचित्– यवाबन्धनादि सर्वं वधूर् एव ; न पतिर् इति ॥८॥
मूलम् ...{Loading}...
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य वत्समन्वारभ्य व्याहृतीश्च जपित्वा वाचं विसृजेत् ।