१९ पवमानग्रहाणामभिमर्शनम्

द्रोणकलशे प्रपीड्य पवित्रं निदधाति । एकधनानां यथार्थं सर्वाश्च मैत्रावरुणचमसीया आधवनीयेऽवनीय पूतभृतो बिल उदीचीनदशं पवित्रं वितत्य य आधवनीये राजा तमसर्वं पूतभृत्यवनीय । उपयामगृहीतोऽसि प्रजापतये त्वा द्रोणकलशमभिमृशेत् । उपयामगृहीतोऽसीन्द्राय त्वा आधवनीयम् । उपयामगृहीतोऽसि विश्वेभ्यस्त्वा देवेभ्यः पूतभृतम् । ते पवमानग्रहाः । अग्निर्होतेति पञ्चहोत्रा यजमानस्सर्वान् ग्रहानभिमृशति असंभवतां मन्त्रावृत्तिः ।