१० दिनान्तर-कर्माणि

नियमान्तरपालने व्यवस्था

इतःप्रभृति माध्याह्निक-काले माध्याह्निकं,
सायं सन्ध्योपासनं,
प्रातः स्नानं, सन्ध्या, ब्रह्म-यज्ञः, समिद्-आधानं, माध्याह्निकम्
इति यथोपदेशं कर्मानुष्ठानं कुर्यात्।

त्र्य्-अहम् एतम् अग्निं धारयन्ति
इति पूर्वम् एवोक्तं ।
अतः उपनयनात् त्रि-दिनं एतम् अग्निं संरक्ष्य
काल-द्वये समिद्-आधानं कुर्यात् ।

तमिऴ्

மேதாயச:அபிவிருத்யர்த்தம் ஸுச்ரவ: பூஜாம் கரிஷ்யே என்பதாக ஸங்கல்ப்பித்துக் கொண்டு பலாச மரத்தின் அடியில் பூஜை செய்ய வேண்டும். அந்த ஸ்தானத்தில் தான் தற்சமயம் பலாச தண்டத்தையே பலாச மரமாகக் கொண்டு பூஜிக்கின்றனர். ஷோடசோபசாரங்களைச் செய்ய வேண்டும். இடையில் குளாபூபம் நிவேதயாமி என்பதாக `அப்பம்’ பக்ஷணத்தை நிவேதநம் செய்வதும் வழக்கம். “யச்சந்தஸாம் + ச்ருதம்மே கோபாய” என்பதாக பிரார்த்தித்து பலாச பூஜையை முடிக்க வேண்டும். இதற்குப் பிறகு விவாஹ பர்யந்தம் மூன்று காலத்திலும் ஸந்த்யா வந்தனம். மாத்யாஹ்நிகம் வேளைகளிலும் (ஸாயம் ப்ராத:) லௌகிகாக்நியில் ஸமிதாதாநம். ப்ரம்ஹ யஜ்ஞம் இவைகளைச் செய்து வர வேண்டும். ஸமாவர்த்தனம் ஆனதும் ஸமிதாதாநம் நிவிருத்தம் ஆகும். மற்றவைகள் தொடரும். [[TODO::परिष्कार्यम्??]]

[[89]]

ब्रह्मयज्ञः

प्रथमोपाकृति-पर्यन्तं
ब्रह्मयज्ञे वेद-पठने गायत्र्य् एव ।
तद्-अनन्तरं यावद्-अधीतं
तावद्-आवर्तनीयम् ।
प्रश्नं नातिक्रामेत् ।

त्र्य्-अहम् एतम् अग्निं धारयन्तीत्य् उक्तत्वात्
चतुर्थ-दिने सायम् आरभ्य
तदा तदा लौकिकाग्नौ समिद्-आधानं कुर्यात् ।

वासस आदानम्

(सू - वासश् चतुर्थीम् उत्तरया ऽऽदत्ते ऽन्यत् परिधाप्य ।)

चतुर्थ-दिने
यथा सम्प्रदायं प्रातः
कुमारस्य मङ्गल-स्नानं कारयित्वा,
सन्ध्योपासनं, प्रातस्-समिदाधानञ् च कारयित्वा,
अनन्तरम् आचार्यः

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

अस्य मम कुमारस्यान्यत्-परिधापनं कर्तुं …

अन्यत्परिधापनं करिष्ये ।

ग्रह-प्रीतिः ।

सूत्रे ऽनुक्तम् अपि
सम्प्रदाय-रीत्या क्रियमाणं लिख्यते ।
नूतनं वस्त्रान्तरम् आदाय,
“रेवतीस् त्वा”,
इति द्वाभ्याम् अभिमन्त्र्य,

०३-०४ रेवतीस्त्वा व्यक्ष्णन्कृत्तिकाश्चाकृन्त२म् ...{Loading}...

+++(नक्षत्रेषु)+++ रे॒वती॑स् त्वा॒ व्य॑क्ष्ण॒न्+++(=व्यध्वंसयन् [मेषादिभ्यः])+++
कृत्ति॑का॒श् चाकृ॑न्त२ꣳस् त्वा ।
धियो॑ ऽवय॒न्न्, अव॒ ग्न+++(=देवता)+++ आ॑वृञ्जन्त्+++(=अच्छिन्दन्)+++
स॒हस्र॒म् अन्ताꣳ॑+++(=दशासूत्राणि)+++ अ॒भितो॑ अयच्छन्न्

दे॒वीर् दे॒वाय॑ +++(वस्त्र)+++परि॒धी+++(धौ)+++ स॑वि॒त्रे ।
म॒हत् तद् आ॑साम् अभवन् महित्व॒नम्+++(=महत्वम्)+++ ।+++(र४)+++

“अकृन्तन्न् अवयन्न्” इति तिसृभिः परिधाप्य,

०५ या अकृन्तन्नवयन् ...{Loading}...

या अकृ॑न्त॒न्न् अव॑य॒न्॒ या अत॑न्वत॒
याश् च॑ दे॒वीर् +++(वस्त्रस्य)+++ अन्ता॑न् अ॒भितो॑ ऽददन्त+++(←दद् दाने)+++ ।
तास् त्वा॑ दे॒वीर् ज॒रसे॒ संव्य॑य॒न्त्व्
आयु॑ष्मान् इ॒दं परि॑धत्स्व॒ वासः॑ ।

०६ परिधत्त धत्त ...{Loading}...

परि॑धत्त धत्त॒ वास॑सैनꣳ
श॒तायु॑षं कृणुत दी॒र्घम् आयुः॑ ।
बृह॒स्पतिः॒ प्राय॑च्छ॒द् वास॑ ए॒तत्
सोमा॑य॒ राज्ञे॒ परि॑धात॒वा उ॑ ।

०७ जराङ् गच्छासि ...{Loading}...

ज॒रां ग॑च्छासि॒, परि॑धत्स्व॒ वासो॒
भवा॑ कृष्टी॒नाम्+++(=मनुष्याणां)+++ अ॑भिशस्ति॒-पावा॑+++(ता)+++ ।
श॒तञ् च॑ जीव श॒रद॑स् सु॒वर्चा॑
रा॒यश् च॒ पोष॒म् उप॒ संव्य॑यस्व +++(वासो यथा रायस्पोषं भवति तथा)+++।

परिहितं “परीदं वास” इत्येतयाऽनुमन्त्रयते ।

०८ परीदं वासो ...{Loading}...

परी॒दं वासो॒ अधि॑+++(+अ)+++धास् स्व॒स्तये
ऽभू॑र् आपी॒नाम्+++(=आप्तानां)+++ अ॑भिशस्ति॒-पावा॑+++(ता!)+++ ।
श॒तञ् च॑ जीव श॒रदः॑ पुरू॒चीर्+++(=बहुगतीः)+++
वसू॑नि चा॒र्यो वि॑भजासि॒ जीवन्न्॑

आचमनं कारयित्वा
यज्ञोपवीतान्तरञ् च धारयित्वा,
मौञ्जी+अजिन-दण्डांश्च अन्यान्धारयेत् ।

कुमारः दिन-त्रय-वसितं दीक्षा-वस्त्रम् आदाय

“हे गुरो वासस्ते ददामि” इति दद्यात्, स च गुरुः ।

१५ यस्य ते ...{Loading}...

यस्य॑ ते प्रथमवा॒स्यꣳ॑+++(=प्रथमाच्छादितं)+++ हरा॑म॒स्
तं त्वा॒ विश्वे॑ अवन्तु दे॒वाः ।
तन् त्वा॒ भ्रात॑रस् सु॒वृधो॒ वर्ध॑मान॒म्
अनु॑ जायन्तां ब॒हव॒स् सुजा॑तम् ॥

इति मन्त्रेणादद्यात् ॥

तमिऴ्

ப்ராஜாபத்யாதிவ்ரத உபக்ரம உத்ஸர்ஜனஸமாநதந்த்ர ப்ரயோகம் எழுதப்படுகிறது.

மாணவகன் ஸமிதாதானம் செய்து க்ருச்ராசரணம் செய்து கொள்ள வேண்டும். மம உபநயந ப்ரப்ருதி ஏதத்க்ஷண பர்யந்தம் மத்யே ஸம்பாவித ப்ரம்மசர்ய விரத நியமலோப ப்ராஜாபத்ய க்ருச்ர ப்ரத்யாம்நாயம் ஹிரண்ய கர்ப்ப + ப்ராயச்சித்தார்த்தம் யத்கிஞ்சித் ஹிரண்ய தாநம் கரிஷ்யே யத்கிஞ்சித் ஹிரண்யம் நாநா கோத்ரேப்ய: ஸ்ரீ வைஷ்ணவேப்ய: தேப்யஸ்தேப்யஸ்ஸம்ப்ரததே: [[TODO::परिष्कार्यम्??]]

[[90]]

पलाश-पूजादि

कुमारः -

मेधा-यशो-ऽभिवृद्ध्य्-अर्थं
सुश्रवः-पूजां करिष्ये ।

पलाशवृक्षमूले, पलाश-दण्डे वा
सुश्रवो-देवतां ध्यायामि,
आवाहयामि

इत्यादि षोडशोपचारान् समर्प्य,

हरिद्रा-स्नानं समर्प्य
गुडापूपञ् च निवेद्य,

यश्छन्दसामृषभः + श्रुतम्मे गोपाय

यथाशक्तिब्राह्मणैः जपं कारयित्वोद्वासयेत् ।
महदाशीर्वादः ।
पालिका-विसर्जनं,
रक्षा-विसर्जनञ् च कुर्यात् ।