११ ब्रह्म-सूक्तम्

‘ब्रह्मजज्ञानम्’ इत्यादि, ‘ब्रह्मसमिद्भवत्याहुतीना’मित्यन्तं ब्रह्मसूक्तं,

८ २१-२६ ब्रह्म जज्ञानम् ...{Loading}...
सायणोक्त-विनियोगः

21यद् उक्तं सूत्रकारेण
‘ब्रह्मण ऋषभम्’ इति
तस्य पशोः सूक्ते
वपायाः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

सायणोक्त-विनियोगः

22अथ वपाया याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

पि॒ता वि॒राजा॑म्, ऋष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑ख्षव्ँ वि॒श्व-रू॑प॒ आवि॑वेश
तम् अ॒र्कैर् अ॒भ्य॑र्चन्ति व॒थ्सम् ।
ब्रह्म॒ सन्त॒म् ब्रह्म॑णा व॒र्धय॑न्तः

सर्वाष् टीकाः ...{Loading}...
मूलम्

पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम् ।
अ॒न्तरि॑ख्षव्ँ वि॒श्वरू॑प॒ आवि॑वेश ।
तम॒र्कैर॒भ्य॑र्चन्ति व॒थ्सम् ।
``ब्रह्म॒ सन्त॒म्ब्रह्म॑णा व॒र्धय॑न्तः ।

सायण-टीका

योऽयं वेन आदित्यः पूर्वमुक्तः सोऽयं विराजां विशेषेण राजमानानां रयीणां धनानां पिता पालयिता, ऋषभः श्रेष्ठः, विश्वरूपः पुर्वाह्णादिषु वसन्तादिषु कालविशेषेषु च बहुरूपः तादृशोऽयमिदमन्तरिक्षमाविवेश प्रतिदिनं प्रविशति । ब्रह्म सन्तं परब्रह्मस्वरूप एव भूत्वाऽवस्थितं ततं आदित्यं ब्रह्मणा मन्त्रेण वर्धयन्तो ब्राह्मणा अर्कैः अर्चनीयैः अभ्यर्चन्ति अभितः पूजयन्ति । तत्र दृष्टान्तः - वत्सं यथा दोग्धुकामाः पुरुषा वत्समुपलालयन्ति एवं फलकामा आदित्यमभ्यर्चन्ति ॥

सायणोक्त-विनियोगः

23अथ पुरोडाशस्य पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑ दे॒वान् अ॑जनयत्
ब्रह्म॒ विश्व॑म् इ॒दञ् जग॑त् ।
ब्रह्म॑णः ख्ष॒त्रन् निर्मि॑तम्
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

ब्रह्म॑ दे॒वान॑जनयत् ।
ब्रह्म॒ विश्व॑मि॒दञ्जग॑त् ।
ब्रह्म॑णः ख्ष॒त्रन्निर्मि॑तम् ।
ब्रह्म॑ ब्राह्म॒ण आ॒त्मना᳚ ।

सायण-टीका

यज्जगत्कारणं ब्रह्म तदेव देवान् इन्द्रादीन् जनयत् । तथैव तद्ब्रह्मान्यदपि विश्वं सर्वमिदं जगत् अजनयत् । ब्रह्मणः सकाशात् क्षत्त्रं निर्मितं क्षत्त्रियजातिर्निर्मिता । यत्परं ब्रह्म तत् आत्मना स्वस्वरूपेणैव ब्राह्मणः अभवत् । अस्ति हि ब्राह्मणशरीरे परब्रह्मण आविर्भावविशेपः । अत एवाध्यापनादावधिक्रियते ॥

सायणोक्त-विनियोगः

24अथ पुरोडाशस्य याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

अ॒न्तर् अ॑स्मिन्न् इ॒मे लो॒काः ॥ 67 ॥
अ॒न्तर् विश्व॑म् इ॒दञ् जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ् ज्येष्ठ᳚म् ।
तेन॒ को॑ ऽर्हति॒ स्पर्धि॑तुम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

अ॒न्तर॑स्मिन्नि॒मे लो॒काः ॥ 67 ॥
अ॒न्तर्विश्व॑मि॒दञ्जग॑त् ।
ब्रह्मै॒व भू॒ताना॒ञ्ज्येष्ठ᳚म् ।
तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम् ।

सायण-टीका

अस्मिन् ब्रह्मणि अन्तः मध्ये इमे भूरादयो लोकाः अवस्थिताः । तथैव अन्तः मध्ये विश्वं सर्वमिदं जगत्स्थावरजङ्गमरूपमवस्थितम् । तस्मात्कारणाद्ब्रह्मैव भूतानामाकाशादिपञ्चमहाभूतानां प्राणिनां च मध्ये ज्येष्ठं अतिशयेन श्रेष्ठं प्रशस्तं च । तेन तादृशेन ब्रह्मणा को नामान्यः पुरुषः स्पर्धितुमर्हति’ तत्समानस्य स्पर्धा युक्ता, न चास्ति कश्चित्समानः । अत एव श्वेताश्वतरशाखायामभिधीयते ‘न तत्समश्चाभ्यधिकश्च दृश्यते’ इति ॥

सायणोक्त-विनियोगः

25अथ हविषः पुरोनुवाक्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

ब्रह्म॑न् दे॒वास् त्रय॑स्-त्रिꣳशत् ।
ब्रह्म॑न्न् इन्द्र-प्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस् स॒माहि॑ता

सर्वाष् टीकाः ...{Loading}...
मूलम्

ब्रह्म॑न्दे॒वास्त्रय॑स्त्रिꣳशत् ।
ब्रह्म॑न्निन्द्रप्रजाप॒ती ।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑ ।
ना॒वीवा॒न्तस्स॒माहि॑ता ।

सायण-टीका

हे ब्रह्मन्यथोक्ते ब्रह्मणि त्रयस्त्रिंशद्देवाः ‘ये देवा दिव्येकादश स्थ’ इति मन्त्रोक्ताः समाहिताः । तथा ब्रह्मन् परब्रह्मण्येव देवस्वामिनाविन्द्रप्रजापती समाहितौ । तया ब्रह्मण्येव विश्वा भूतानि सर्वाणि स्थावरजङ्गमान्यन्तः समाहितानि सम्यगवस्थितानि । तत्र दृष्टान्तो नावीवेति । यथा समुद्रनद्यादितरणवेलायां चेतनाचेतनानि वस्तूनि नौमध्येऽवस्थाप्यन्ते तद्वत् ॥

सायणोक्त-विनियोगः

26अथ हविषो याज्यामाह -

विश्वास-प्रस्तुतिः ...{Loading}...

चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व॒ग्नयः॑ ।
इ॒मन्नो॑ य॒ज्ञन्न॑यतु प्रजा॒नन्न् ।
घृ॒तम्पिन्व॑न्न॒जरꣳ॑ सु॒वीर᳚म् ॥ 68 ॥
ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम् ।

सर्वाष् टीकाः ...{Loading}...
मूलम्

चत॑स्र॒ आशा॒ᳶ प्रच॑रन्त्व् अ॒ग्नयः॑ ।
इ॒मन् नो॑ य॒ज्ञन् न॑यतु प्रजा॒नन्न्
घृ॒तम् पिन्व॑न्न् अ॒जरꣳ॑ सु॒वीर᳚म् ॥ 68 ॥
+++(प्रकाशकत्वेन)+++ ब्रह्म॑ स॒मिद् भ॑व॒त्य् आहु॑तीनाम् ।

सायण-टीका

यथोक्ते ब्रह्मणि चतस्र आशाः चतुर्विधाः प्राच्यादिदिशः प्रति अग्नय आहवनीयाद्याः प्रचरन्तु प्रकर्षेण वर्तन्ताम् । पूर्वस्यां दिश्याहववनीयः दक्षिणस्यां दिश्यन्वाहार्यपचनः पश्चिमायां दिशि गार्हपत्यः उदीच्यां दिश्याग्नीध्रीयः । तथाविधः सर्वाधारपरमात्मा नः अस्मदीयं इमं यज्ञं प्रजानन् प्रकर्षेणानुसंदधानो नयतु समाप्तिं प्रापयतु । किं कुर्वन्? अजरमविनश्वरं सुवीरं शोभनापत्यहेतुभूतमिदं घृतमाहुतिरूपं पिन्वन् पिबन् । किं बहुना, आहुतीनामस्माभिरनुष्ठीयमानानां ब्रह्म समिद्भवति परब्रह्मैव सम्यक्प्रकाशकं भवति ॥