२१ बहिष्पवमानार्थं सर्पणम्

उदञ्चः प्रह्वा बहिष्पवमानाय पञ्चर्त्विजस्समन्वारब्धास्सर्पन्ति । अध्वर्युं प्रस्तोतान्वारभते प्रस्तोतारं प्रतिहर्ता प्रतिहर्तारमुद्गातोद्गातारं ब्रह्मा ब्रह्माणं यजमानः यजमानं प्रशास्ता । न्यङ्ङिव शीर्षाणि कृत्वा सर्पन्ति । पूर्वोऽध्वर्युर्बर्हिर्मुष्टिं धून्वन् सर्पति वागग्रेगा अग्र एत्वृजुगा देवेभ्यो यशो मयि दधती प्राणान् पशुषु प्रजां मयि च यजमाने च । गायत्रः पन्था वसवो देवता वृकेणापरिपरेण पथा स्वस्ति वसूनशीय । चात्वालमवेक्षमाणास्स्तुवते । उत्तरे वा वेद्यंसेऽन्तर्वेद्युपविशन्ति। सर्वे युगपदुपविश्य विमुञ्चन्ति । अथाध्वर्युः स्तोत्रमुपाकरोति । वायुर्हिङ्कर्ताग्निः प्रस्तोता प्रजापतिस्साम बृहस्पतिरुद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो निधनं ते देवाः प्राणभृतः प्राणं मयि दधतु प्रस्तोत्रे बर्हिर्मुष्टिं प्रयच्छति । अत्र चतुर्णामुपगातॄणां वरणं करोति । ब्रह्मन् स्तोष्याम इत्युक्ते ब्रह्मा - देव सवितरेतत्ते प्राह तत्प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मायुष्मत्या ऋचो मा गात तनूपात्साम्न-स्सत्या व आशिषस्सन्तु सत्या आकूतय ऋतं च सत्यं च वदत स्तुत देवस्य सवितुः प्रसवे इत्यनुद्रुत्य । रश्मिरसि क्षयाय त्वा क्षयं जिन्व इत्युपांशूक्त्वा । ओꣳ स्तुत इत्युच्चैरनुजानाति । यजमानः - वस्व्यै हिं कुरु तस्यै प्रस्तुहि तस्यै स्तुहि तस्यै मेऽवरुध्यै पुरस्तात् बहिष्पवमानाद्यजमानो जपति । दशहोतारं व्याचष्टे । चित्तिस्स्रुक् — सामाध्वर्युः । स्तूयमाने च दशहोतारं जपति । अध्वर्युव्यतिरिक्ताश्चत्वार उपगातारो हो इत्युपगायेयुः । ओं इति यजमानः । हिन्वानो हेतृभिर्हितोम् इति मध्यमायां च स्तोत्रीयायां श्येनोऽसि गायत्रछन्दा अनु त्वारभे स्वस्ति मा संपारय अन्वारोहं जपति । स्तुतस्य स्तुतमस्यूर्जं मह्यꣳ स्तुतं दुहामा मा स्तुतस्य स्तुतं गम्यादिन्द्रियावन्तो वनामहे धुक्षीमहि प्रजामिषम् । सा मे सत्याशीर्देवेषु भूयाद्ब्रह्मवर्चसं मा गम्यात् । यज्ञो बभूव स आ बभूव स प्रजज्ञे स वावृधे । स देवानामधिपतिर्बभूव सो अस्माꣳ अधिपतीन्करोतु वयꣳ स्याम पतयो रयीणाम् स्तोत्रमनुमन्त्रयते । ब्रह्मा स्तुते पवमाने यथेतं गत्वापरेणोत्तरवेदिं दक्षिणातिक्रम्योपविशति सवनीयस्या वपाया होमादास्ते ।