०१ प्रतिज्ञादि

तात्पर्य-दर्शनं गृह्य-
प्रयोग-व्याकृतिं पुनः ।
सुधी-विलोचनं वैद्य-
नाथीयाख्य-निबन्धनम् ॥

प्रयोग-दर्पणं चापि
समीक्ष्य श्राद्ध-कर्मणः ।
पुंसां सुखेन बोधार्थं
प्रयोगोऽत्र विलिख्यते ॥

अवधेयम् (द्रष्टुं नोद्यम्)

अवधेयम् - अस्मिन् प्रयोगे पितृश्राद्धरीतिः प्रदर्शिता । मातुश्श्राद्धे - संकल्पे, वरणे, अर्चनादौ, अन्नजपे, दत्तकरणे तत्रतत्र वक्तव्यप्रकारः विद्वत्पुरोहितमुखादवगन्तव्यः । एवं मातामहादिश्राद्धे अन्यार्थे क्रियमाणे च ॥

उपवीत-नियमः

प्राणायामाचमनयोर् अग्नेश्चैव मुखे तथा ।
आघारयोस् तत्-समिधोः स्विष्टकृद्-याज्यभागयोः ॥
प्रायश्चित्त-स्तोत्र-सूक्त-जपेषु परिवेषणे ।
हुतशिष्टान्नतो ऽन्यस्याभिश्रवण-नमस्ययोः ॥
प्रदक्षिणानुव्रजन-विसर्ग-स्वागतेषु च ।
सौमनस्य-प्रार्थनयोः स्वस्ति-वाचनके तथा ॥
विप्राणां दक्षिणादाने पिण्डाघ्राणे तथैव च ।
प्रत्युत्थाने चोपवीतम् एतेष्व् अन्यत्र नैव तत् ॥