०७ समावर्तनम्

समावर्तनम् (स्नानकर्म)

व्रती समिदाधानं कृत्वा ताम्बूलं दक्षिणां च गृहीत्वा

नम॒स् सद॑से …स॒भाम् मे॑ गोपाय ...{Loading}...
नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चख्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चख्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

267 सप्रथ सभाम् ...{Loading}...

सप्र॑थ स॒भाम् मे॑ गोपाय ।
ये च॒ सभ्या᳚स् सभा॒सदः॑ ।
तानि॑न्द्रि॒याव॑तᳵ कुरु ।
सर्व॒म् आयु॒र् उपा॑सताम् ।

(सर्वे॑भ्यः श्रीवैष्ण॒वेभ्यो॒ नमः॑॥)

अशेषे हे परिषत् ...{Loading}...

स्वामिनः!
अशेषे हे परिषत्
भवत्-पादमूले मया समर्पिताम् इमां सौवर्णीं यत्-किञ्चिद्-दक्षिणां
यथोक्तदक्षिणामिव स्वीकृत्य

स्नान (समावर्तन) कर्म कर्तुं योग्यतासिद्धिमनुगृहाण ।

विष्वक्सेनं सम्पूज्य स्नानकर्म करिष्ये । इति सङ्कल्पं कुर्यात्।

(सू - वेदमधीत्य स्नास्यन्प्रागुदयाद्व्रजं प्रविश्यान्तर्लोम्ना चर्मणा द्वारमपिधायास्ते । नैनमेतदहरादित्योऽभितपेत् । मध्यन्दिनेऽग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाऽऽधाय अपरेणाग्निं कट एरकायां वोपविश्योत्तरया क्षुरमभिमन्त्र्य उत्तरेण यजुषावप्त्रे प्रदायापां संसर्जनाद्याकेशनिधानात्समानम्) अत्र कपर्दी

सूत्रे वस्त्रे मणियुगसमित्स्रक्सुगन्धप्रवर्तौ
शीतोष्णाम्बुक्षुरकटयवच्छत्रदण्डाञ्जनानि ।
मानोपानद्द्वयकुशशकृत्स्नानचूर्णोदपात्रं
स्नास्यन्युञ्ज्यात्सकृदिहनरः काष्ठमौदुम्बरञ्च ॥

अग्नेरुपसमाधानाद्याज्यभागान्ते, मध्ये पात्रप्रयोगकाले दैव्यानि षट्पात्राणि द्वन्द्वन्नियुज्य । (उपवीतद्वयम्), सुवर्णमणिबादरमणिबन्धनसूत्रद्वयं वस्त्रद्वयं, सौवर्णं मणिं, बादरं मणिं, पालाशीं समिधं, स्रजं, सुगन्धान्, प्रवर्तौ (कुण्डले) शीताम्बु, उष्णाम्बु, क्षुरं, कटं, यवान्, छत्रं, दण्डम्, अञ्जनम्, आदर्शम्, उपानद्द्वयं, (पादरक्षाद्वयं) कुशान्, आनडुहं शकृत्, स्नानार्थचूर्णम्, उदपात्रम्, औदुम्बरं काष्ठञ्च एतानि सकृत् प्रयुज्य, प्रोक्षणकाले च सकृत्प्रोक्ष्य (आज्यभागान्ते कृते ।

पालाशीं समिधमादाय,

इमँ स्तोमं, अर्हँते, जातवेँदेसे, रथॅमिव, सम्मँहेम, मनी॒षया॑ । भ॒द्राहिनँः, प्रमॅतिरस्य, सँ॒स॒द्यग्ने॑, स॒ख्ये॑, मारिँषाम, व॒यन्तवॅ । [[TODO::परिष्कार्यम्??]]

इत्यादधाति (अत्र न स्वाहाकारः, नोद्देश्यत्यागश्च)

[[119]]

अपरेणाग्निं, कटे एरकायां वा उपविश्य, क्षुरमादाय,

त्र्यायुषं, जमदँग्नेः, कश्यपॅस्य, त्र्यायुषम् । यद्देवानां, त्र्यायुषं, तन्मेँ अस्तु, त्र्यायुषम् । [[TODO::परिष्कार्यम्??]]

इति क्षुरम् अभिमन्त्र्य

शिवो नामॉसि, स्वधिँतिस्तेपिता, नमँस्ते अस्तु, मामॉहिँसीः । [[TODO::परिष्कार्यम्??]]

इति वप्त्रे प्रददाति । अत्र पिताऽन्यो वावप्ता । सः अपां संसर्जनादि अनुवाकस्य प्रथमेन यजुषा इत्यारभ्य चौलकर्मण्युक्तप्रकारेण केशनिधानपर्यन्तं कारयेत् । (औदुम्बरमूले दर्भस्तम्बे दर्भस्तम्बे वा निदधाति इत्येतावत्पर्यन्तमित्यर्थः) सर्वांगानि वापयित्वा क्षौरविधिवत् त्रयोदशवारं निमज्य, प्लोतवस्त्रेण शरीरं शोधयित्वा वपननिमित्तपुनस्नानञ्च कृत्वा धौतं परिधाय, पुण्ड्रञ्च धृत्वा ।

(सू जघनार्धे व्रजस्योपविश्य विस्रस्य मेखलां ब्रह्मचारिणे प्रयच्छति, तां स उत्तरयोदुम्बरमूले दर्भस्तम्बे वोपगूहति ।) व्रजं प्रविश्य (गृहं प्रविश्य) पश्चिमार्धे उपविश्य मौञ्ज्यादिब्रह्मचारिलिङ्गानि विस्रस्य ब्रह्मचारिणे प्रयच्छति । तां मेखलां स ब्रह्मचारी

इ॒दं महं नारायणशर्मणःँ श्रीवत्सगोत्रस्यॅ पाप्मानम्, उपॅगूहामि, उत्तँरः नारायणशर्मा द्वि॒षद्भ्यःँ । [[TODO::परिष्कार्यम्??]]

अनेन मन्त्रेणोदुम्बरमूले दर्भस्तम्बेवोपगूहति । एवममन्त्रकेन कृष्णाजिनदण्डौ चाफ्सु प्रास्येत् ।

(सू - एवं विहिताभिरेवाद्भिरुत्तराभिष्षड्भिस्स्नात्वोत्तरयोदुम्बरेण दतो धावते)

“उष्णेनॅ वायो” इति मन्त्रेण उष्णा अपः शीतासु मिश्रीकृत्य ताभिरद्भिः

आपोहिष्ठ, मयो भुवॅः, तानॅ ऊर्जे, दधातन । महे रणॉय, चक्षँसे । योवॅः शि॒वतमोरसॅः, तस्य भाजयत, इ॒हनॅः । उशतीरिँव, मातरॅः । तस्मै, अरॅङ्गमामवः, यस्य॒क्षयॉय, जिन्वॅथ । आपोँ जनयॅथा च नः । हिरॅण्यवर्णाः, शुचॅयः, पावका:, यासुँजात:, कश्यपॅः, यास्विन्द्रँः । अ॒ग्निं या गर्भं, दधिरे, विरूँपाः, तान आपॅः शँस्यो॒नाः, भवन्तु । यासाँराजा॑, वरु॑णः, याति॒ मध्ये॑, स॒त्या॒नृ॒ते,

[[120]]

अवपश्यॅन्, जनॉनाम् । मधुश्रुतःँ, शुचॅयः, याः पॉव॒काः तान॒आपॅः, शँस्योनाः, भ॒व॒न्तु । यासा॑न्दे॒वाः दि॒वि कृ॒ण्वन्तिँ, भृक्षं या अ॒न्तरिँक्षे, बहुधा भवँन्ति । याः पृँथिवीं, पयँसोन्दन्तिँ, शुक्राः, तान आपॅः, शँस्यो॒नाः, भवन्तु । [[TODO::परिष्कार्यम्??]]

इति षड्भिः अन्ततः सकृत्स्नात्वा ।

अ॒न्नाद्यॉय, व्यूँहध्वं, दीर्घायुः, अहमॅन्नादः, भूयासम् । सोमोराजा॑, यमागॅमत्, समे॒ मु॑खं, प्रवे॑क्ष्यति, भगेँन, सहवर्चँसा । [[TODO::परिष्कार्यम्??]]

इति औदुम्बरकाष्ठेन द्वादशाङ्गुलपरिमाणेन दन्तानां सव्योत्तरभागमारभ्य प्रदक्षिणक्रमेणाध आगत्य पुनरपि ऊर्ध्वं गत्वा दन्तशोधनं कुर्यात् ।

(सू - स्नानीयोच्छादितः स्नातः) स्नानीयचूर्णैः हरिद्रामधूकादिभिः देहशोधनं कृत्वा तटे शरीरं शोधयित्वा, अनन्तरं शरीरशुद्ध्यर्थरूपं पञ्चाङ्गसंयुतं स्नानं देवर्षिपितृतर्पणान्तं कृत्वा धौतेन संशोधयेत् ।

(सू - उत्तरेण यजुषाऽहतं वासः परिधाय सार्वसुरभिणा चन्दनेन, उत्तरैर्देवताभ्यः प्रदायोत्तरयाऽनुलिप्य मणिं सौवर्णं सोपधानं सूत्रोतं, उत्तरयोदपात्रे त्रिः प्रदक्षिणं परिप्लाव्य, उत्तरयाग्रीवास्वाबध्य एवमेव बादरं मणिं मन्त्रवर्जं सव्येपाणावाबध्याहतमुत्तरं वासो रेवतीस्त्वेतिसमानम्)

(प्रथमतः कौपीनधारणं) अहतमन्तरं वास आदाय

सोमॅस्य, त॒नूरॅसि, त॒नुवँमे पाहि, स्वामॉ त॒नूराविँश । [[TODO::परिष्कार्यम्??]]

अनेन मन्त्रेणान्तरं वासः परिधाय (कच्छं यथा भवति तथा) (पादौ प्रक्षाल्य द्विराचम्य) पुण्ड्रं च धृत्वा, दर्भपवित्रं दक्षिणश्रोत्रे निधाय सार्वसुरभिणा कस्तूरिघनसारकुङ्कुमादिपरिमलद्रव्ययुक्तेन चन्दनेन प्रथमतः देवताभ्यः,

नमो॑ग्रहायॅ च, अभिग्रहायॅ च, नमॅश्शाकजञ्जभाभ्यां, नम॒स्ताभ्यःँ, दे॒वता॑भ्यः, या अँभिग्राहिणीः ॥ [[TODO::परिष्कार्यम्??]]

इति मन्त्रैः प्रदाय ।

अ॒फ्स॒रस्सुँ, यो गन्धः, गन्ध॒र्वेषुँ च, यद्यशॅः । दैवो यो माँनुषो गन्धः, समाँ गन्धः, सुरभिर्जुँषताम् ॥ [[TODO::परिष्कार्यम्??]]

इति स्वयमुरसि अनुलिम्पेत् ।

[[121]]

“मुखमग्रतो ब्राह्मणोऽनुलिम्पेत् ॥” इति वचनात् पूर्वं मुखेऽनुलिप्य उरसि अङ्गेषु चानुलिम्पेत् ॥ पवित्रं धृत्वा सौवर्णं मणिं वज्रवैडूर्यादियुक्तं सूत्रोतम्, उदपात्रे,

इ॒यमोषँधे, त्रायॅमाणा, सहॅमाना, सहॅस्वती । सामा॑, हिरॅण्यवर्चसंं, ब्र॒ह्मवर्च॒सिनं, मा॒करोतु । [[TODO::परिष्कार्यम्??]]

इति त्रिः प्रदक्षिणं परिप्लाव्य,

अपॉशोऽसि, उरोँमे, मा सँशाँरीः, शिवः, मोपॅतिष्ठस्व, दीर्घायुत्वायॅ, श॒तशॉरदाय । श॒तँश॒रद्भयॅः, आयुँषे, वर्चँसे, जी॒वात्वै, पुण्यॉय । [[TODO::परिष्कार्यम्??]]

तं सौवर्णं ग्रीवास्वाबध्य, सूत्रे प्रोतं बादरं मणिं उदपात्रेऽमन्त्रकं त्रिः प्रदक्षिणं परिप्लाव्य मन्त्रवर्जं सव्ये पाणावाबध्य, उत्तरीयं वासः आदाय,

रेवतीस्त्वा, व्यँक्ष्णन् + महित्वनम्

इति मन्त्राभ्याम् उत्तरीयमभिमन्त्र्य

या अकृँन्तन् + उप॒संव्यॅयस्व

इति त्रिभिः उत्तरीयं वासः उपवीतधारणवदाच्छाद्य,

परीदं वासॅः + वि॒भृजा॒स॒जीवॅन्

इत्युत्तरीयाच्छादितमात्मानमनुमन्त्रयते (अत्र केचित्

यु॒वाँसु॒ वासाः, परिँवीत आगा॑त्, सउ॒श्रेया॑न् भ॑व॒ति॒, जायँमानः । तन्धीरॉसः कवयःँ, उन्नॅयन्ति, स्वाधियो मनॅसा, देवयन्तः ॥ [[TODO::परिष्कार्यम्??]]

इति उष्णीषञ्च धारयन्ति ।) अत्र उपवीतद्वयं धार्यम् ।

(सू - तस्य दशायां प्रवर्तौ प्रबध्य दर्व्यामाधायाज्येनाभ्यानयन् उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ।)

तस्योत्तरीयस्य दशायां सौवर्णे कुण्डले प्रबध्य उपायेन दर्व्यग्रे स्थापयित्वाऽन्येन तयोरुपरि, आज्यमानीय तेनैवाज्येन, “आयुष्यं वर्चस्यमि"ति अष्टौ प्रधानाहुतीर्जुहुयात् ।

आ॒युष्यं वर्च॒स्य॑ सु॒वीर्यं, रा॒यस्पोषम्, औद्भिँद्यम् । इ॒दं, हिरॅण्यं, जैत्र्यॉय, आविँशतान्मां स्वाहा॑ हिरण्याय इदन्न मम ।
उच्चैर्वादि, पृतनाजि, सत्रासाहं, धनञ्जयम् । सर्वाः, समृँद्धीः, ऋद्धयः, हिरॅण्येऽस्मिन्, स॒माहिँताः, स्वाहा॑ - हिरण्याय॒ इदन्न मम ।
शुनमहं, हिरॅण्यस्य, पि॒तुरिँव, नामाग्रभैषजम् । तं मा॑, हिरॅण्यवर्चसं, पूरुषुँ पि॒यं कुरु स्वाहा हिरण्याय इदन्न मम ।
प्रि॒यं मा॑ दे॒वेषुँ कुरु, प्रि॒यं मा॑, ब्रह्मँणे कुरु । प्रि॒यं वि॒श्येँषु, शूद्रेषुँ, प्रि॒यँ राजॅसु, मा कुरु स्वाहा॑ - हिरण्यायेदं न मम । [[TODO::परिष्कार्यम्??]]

[[122]]

या ति॒रश्ची॑, निपद्यँसेऽहं विधरॅणी इति । तान्त्वा॑ धृतस्यँ, धारॅया, यजे, सँराधँनीँमहं, स्वाहा॑ - तिर्यङ्निपद्यमानायै संराधिन्यै इदन्न मम । सँराधिँन्यै दे॒व्यै स्वाहा॑ - संराधिन्यै देव्या इदन्न मम ।
प्रसाधिँन्यै, देव्यै स्वाहा॑ - प्रसाधिन्यै देव्यै इदन्न मम ।
सम्राजॅञ्च, वि॒राजॅञ्च, अ॒भि॒श्रीः, याचॅनोगृहे । लक्ष्मी राष्ट्रस्यँ, यामुखे, तयाँ मा, सँसृँजामसि, स्वाहा॑ । श्रियै लक्ष्म्यै च इ॒द॒न्न॒ मम । [[TODO::परिष्कार्यम्??]]

कुण्डलेऽन्यत्र स्थापयित्वा जयादि प्रतिपद्यते । अत्र शम्याः । अतः, अपोहनमेव । न सँस्रावहोमः । प्रायश्चित्तहोमः, प्राणायामः । परिषेचनम् । प्रणीतामोक्षणम् । ब्राह्मण उद्वासनम् । अग्न्युपस्थानम् ।

(सू - परिषेचनान्तं कृत्वा, एताभिरेव दक्षिणे कर्ण आबध्नाति, एताभिस्सव्ये।) आयुष्यं वर्चस्यं + तयामासँसृजामसि ॥ इत्येतानष्टौ मन्त्रान् उक्त्वा दक्षिणे कर्णे कुण्डलमाबघ्नीँयात् । पुनरपि एतानष्ट मन्त्रानुक्त्वा सव्ये कर्णेऽपि कुण्डलमाबनीयात् ॥

(सू - एवमुत्तरैर्यथालिङ्गं स्रजश्शिरसि, आञ्जनम्, आदर्शावेक्षणम् उपानहौ, छत्रं, दण्डमिति)

शुभिँके, शिरॅः, आरोँह, शोभयॅन्ती, मुखं ममँ । मुखँहि, ममॅ शोभय, भूयाँसञ्च, भगं कुरु । [[TODO::परिष्कार्यम्??]]

इति शिरसि स्रज आबध्नीँयात् (अत्र यामाहरत्, इति मन्त्रः विकल्पः)

यदाञ्जँनं, त्रैककुदं, जा॒तं, हि॒मवॅत उपरिँ । तेनॅवामाञ्जे, तेजॅसे, वर्चँसे, भगॉय च ॥ [[TODO::परिष्कार्यम्??]]

इति पाणिभ्यां युगपदक्ष्णोः अञ्जनं कुर्यात् । अत्रापि मयि पर्वतपूरुषमिति मन्त्रः विकल्पः ।

यन्मे॑, वर्चँः, प॒रागँतम्, आत्मानम्, उपतिष्ठँति । इ॒दन्तत्, पुनरादँदे, दी॒र्घायुत्वायॅ, वर्चँसे । [[TODO::परिष्कार्यम्??]]

अनेनादर्शावेक्षणं कुर्यात् ।

प्रति॒ष्ठेस्थःँ, दे॒वताँनां, मामा॑, सन्ताप्तम् । [[TODO::परिष्कार्यम्??]]

अनेन उपानहौ युगपदुन्मुच्येत । च्छत्रमादाय,

प्र॒जापॅतेः शरॅणमसि, ब्रह्मँणः, च्छदिः, विश्वज॒नस्यॅ, च्छायासिँ, सर्वतोँ मा पाहि । [[TODO::परिष्कार्यम्??]]

इति च्छत्रेणात्मानमाच्छाद्य,

[[123]]

देवस्यँ त्वा, सवि॒तुः, प्र॒स॒वे, अ॒श्विनोः, बाहुभ्यां, पूष्णः, हस्ताभ्यां, आदँदे, द्विषतः, व॒धायॅ, इन्द्रँस्य, वज्रोँऽसि, वार्त्रँघ्नः, शर्मँमे भव, यत्पापं, तन्निवॉरय ॥ [[TODO::परिष्कार्यम्??]]

इति दक्षिणेन पाणिना, ऊर्ध्वप्रमाणमृजुं, सत्वचमसुषिरं[[??]] युग्मपर्वकं वैणवं दण्डमाददीत ॥

(सू - वाचं यच्छत्यानक्षत्रेभ्यः, उदितेषु, नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य, उत्तरेणार्धर्चेन दिश उपस्थाय उत्तरेण नक्षत्राणि चन्द्रमसमिति । रातिना सम्भाष्य यथार्थं गच्छति ।) प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य,

देवीः, षडुर्वीः, उरुणःँ, कृणोत, विश्वेँदेवासः, इह, वीरयध्वम् । [[TODO::परिष्कार्यम्??]]

इति दिश उपस्थाय,

माहा॑स्महि, प्रजया मा, तनूभिःँ, मारॅधाम, द्विषते, सोम राजन् ॥ [[TODO::परिष्कार्यम्??]]

इति नक्षत्राणि चन्द्रमसञ्च उपतिष्ठेत । समावर्तनकर्माङ्गम् अभ्युदयं पुण्याहञ्च कुर्यात् ॥

तूष्णीं समावर्तनम्

सू - अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णीं समिधमादधाति । तूष्णीं स्नानकर्म करिष्ये इति सङ्कल्प्य अग्नौ एकां समिधमाधाय अग्निमुपस्थाय सर्वांगं वापयित्वा पूर्वोक्तक्रमेण स्नात्वा धौतं वस्त्रं कच्छरूपेण परिधाय उत्तरीयं च धृत्वा पुण्ड्रं धृत्वा उपवीतद्वयं च धृत्वा गन्धाननुलिप्य पुष्पञ्च धृत्वा विवाहार्थं सज्जी भवेत् ।

தூஷ்ணீம் ஸமாவர்த்தனம்

மாணவகன் அனுஜ்ஞாபூர்வகம் ஸங்கல்ப்பம் செய்துகொள்ள வேண்டும். தூஷ்ணீம் ஸ்நாந கர்ம கர்த்தும்… தூஷ்ணீம் ஸ்நாந கர்ம கரிஷ்யே அக்னியை ஸமந்த பரிஷேசனம் செய்து ஒரு பலாச ஸமித்தை அக்னியில் சேர்த்து மறுபடி ஸமந்த பரிஷேசனம் செய்து உபஸ்தானம் (அக்நேநய + விதேம) செய்யவேண்டும் வபநம் ஸ்னாநம் கச்ச வேஷ்டி உடுத்தி புண்ட்ரதாரணம் சந்தனம் பூசி புஷ்பம் தரித்துக்கொள்ளுதல் விவாஹத்திற்கு ஸஜ்ஜமாக விருக்கவேண்டியது. [[TODO::परिष्कार्यम्??]]

[[124]]