महागणपतिहोमप्रयोगः

source: महागणपतिहोमः
publisher: a. subbaraman. mylapore veda adhyayana sabha
english translation by: Sundararajan Subramanian

॥ सन्ध्यावन्दनविवेचनम् ॥

गृहे त्वेकगुणा सन्ध्या गोष्ठे दशगुना स्मृता। शतसाहस्रिका नद्यां अनन्तं विष्णुसन्निधौ॥

जपस्थलान्न निर्गच्छेत् देवता-सन्निधौ क्वचित्। प्रदक्षिणं नमस्कारं न कुर्यात् देवतालये॥

ऋषिं छन्दो देवतांश्च ध्यायेन्मन्त्रस्य सर्वदा। यस्तु मन्त्रे जपेद् गार्ग्य ऋद्धं तस्य फलं भवेत्॥

अविदित्वा ऋषिं छन्दः दैवतं योगमेव च। नाध्यापयेद् जपेद्वापि पापीयाञ्जायते तु सः॥

मन्त्रद्रष्टा छन्दस्

छन्दोभिरेवात्मानं छादयित्वोपयान्तः छन्दसां छन्दस्त्वं; छन्दः पादौ तु वेदस्य॥

श्रौताचमनं; स्मार्त-पुराण आचमनं; श्रोत्राचमनम्

गोकर्ण मुद्रा

गोकर्णाकृति-हस्तेन माषमग्नजलं पिबेत्। तन्न्यूनमधिकं पीत्वा सुरापानसमं भवेत्॥

संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः। मुक्त्वाऽङ्गुष्ठकनिष्ठौ तु शिष्टेनाचमनं भवेत्॥

गृहीत्वा देवतीर्थतः। ब्राह्मतीर्थेन निःशब्दं माषमग्नं जलं पिबेत्।

ॐ श्रीकेशवाय नमः

मन्त्रपूतं जलं यस्मात् आपो हि ष्ठाभिमन्त्रितम्। पतत्यशुचिदेशेषु तस्मात् तत् परिवर्जयेत्॥

उत्तान-देवतीर्थेन दर्भाग्रैः मूर्ध्नि विप्रुषाम्। स्पृष्ट्वाप ऊर्ध्व-विक्षेप उल्लेख्यमिति सूरयः॥

ॐ भूर्भुवः॒सुवः॑

औम्

रजस्तमो मोहजातान् जाग्रत्स्वप्नसुषुप्तिजान्। वाङ्मनः कायजान् दोषान् नवैतान्नवभिर्दहेत्॥

दधिक्राव्णः आपो हि ष्ठा सुरभिमती सुरभि दधिक्रावा

स्थले तिष्ठन् जले दद्यात् जलस्थो न स्थले क्वचित्। तले तिष्ठन् स्थले दद्यात् जलतस्तु जले क्षिपेत्॥

ईषन्नम्रःप्रभाते तु मध्याह्ने तु ऋजुस्तथा। गोशृङ्गमात्रमुद्धृत्य रविं दृष्ट्वा जलाञ्जलिम्॥

द्वौ पादौ समौ कृत्वा पार्ष्णी उद्धृत्य प्रक्षिपेत्। मुक्तहस्तेन दातव्यं मुद्रां तत्र न कारयेत्॥

जलाभावे महामार्गे बन्धने त्वशुचावपि। उभयोः सन्ध्ययोः काले रजसा वाऽर्घ्यमुत्क्षिपेत्॥

ॐ भूर्भुवःसुवः

यत्प्रदक्षिणं प्रक्रामन्ति तेन पाप्मानमवधून्वन्ति॥

अहङ्ग्रहोपासनम्

आग्रहायणम्

प्राणो वायुः शरीरस्थः आयामस्तस्य निग्रतः॥

वामेन हस्तेन गणन् प्राणायामं जपेद् द्विजः॥

भूर्भुवः॒सुवः॑

भूः भुवः सुवः

भूः

भुवः

सुवः

महः

जनः

तपः

सत्यं

आपः

ज्योतिः

रसः

अमृतम्

ब्रह्म

भूर्भुवःसुवः

आब्रह्म

अपसर्पन्तु

पृथ्वि त्वया

बालार्कारुन

मुक्ता पाण्डुर

नीलेन्दीवर

(यमाय धर्मराजाय)

नर्मदायै, नमः सवित्रे, कायेन वाचा

आपो हिष्ठा, सूर्यश्च, आपः पुनन्तु, अग्निश्च, दधिक्राव्ण्णो, असावादित्यो ब्रह्म, देवतर्पणं आदित्यं तर्पयामि, मित्रस्य, आसत्येन, इमं मे वरुण, सन्ध्यायै नमः + कमोकार्षीन्नमो नमः, दिग्देवता वन्दनं - प्राच्यै दिशे नमः, ऋतं सत्यं, अद्या नो देव सवितः

अभिवादये आङ्गीरस बार्हस्पत्य, भारद्वाज, त्र्यार्षेय प्रवरान्वित भारद्वाज गोत्रः आपस्तम्ब सूत्रः यजुःशाखाध्यायी

शर्मा नामाहं अस्मि भोः

आत्रेय - आत्रेय आर्च्च्नानस श्यावाश्व

गार्ग्य - आङ्गीरस गार्ग्य शैन्य

कौण्डिण्य - वासिष्ठ मैत्रावरुन कौण्डिण्य

कौशिक - वैश्वामित्र आघमर्षण कौशिक

वाधूल - भार्गव वैतहव्य सावेदस

श्रीवत्स - भार्गव च्यावन आप्नवान और्वं जामदग्न्य

श्रीवत्स त्र्यार्षेय पञ्चार्षेय॥ सन्ध्यावन्दनप्रयोगः ॥

आचमनम्

अच्युताय नमः। अनन्ताय नमः। गोविन्दाय नमः। केशव नारायण माधव गोविन्द विष्णो मधुसूदन त्रिविक्रम वामन श्रीधर हृषीकेश पद्मनाभ दामोदर

प्राणायामः

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

ॐ भूः। ॐ भुवः। ओꣳ सुवः। ॐ महः। ॐ जनः। ॐ तपः। ओ॑ꣳ स॒त्यम्। ॐ तत्स॑वि॒तुर्वरे॑॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचो॒दया॑॑त्। ओमापो॒ ज्योती॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒सुव॒रोम्॥

सङ्कल्पः

ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं प्रातःसन्ध्यां उपासिष्ये॥

ॐ श्रीकेशवाय नमः

प्रोक्षणम्

आपो हि ष्ठेति मन्त्रस्य, सिन्धुद्वीप ऋषिः, देवी गायत्री छन्दः, आपो देवता, प्रोक्षणे विनियोगः

ॐ आपो॒ हि ष्ठा म॑यो॒ भुवः॑।

ता न॑ ऊ॒र्जे द॑धातन।

म॒हे रणा॑य॒ चक्ष॑से॥

यो वः॑ शि॒वत॑मो॒ रसः॑।

तस्य॑ भाजते॒ह नः॑।

उ॒श॒तीरि॑व मा॒तरः॑।

तस्मा॒ अरं॑ गमामवः।

यस्य॒ क्षया॑य॒ जिन्व॑थ।

आपो॑ ज॒नय॑था च नः।

ॐ भूर्भुवः॒सुवः॑।

प्राशनं (प्रातः)

सूर्यश्चेत्यनुवाकस्य अग्निः ऋषिः, गायत्री छन्दः, सूर्यो देवता अपां प्राशने विनियोगः

सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः। पापेभ्यो॑ रक्ष॒न्ताम्। यद्रात्र्या पाप॑मका॒र्षम्। मनसा वाचा॑ हस्ता॒भ्याम्। पद्भ्यामुदरे॑ण शि॒श्ना। रात्रि॒स्तद॑वलु॒म्पतु। यत्किञ्च॑ कुरि॒तं मयि॑। इदमहं माममृ॑तयो॒नौ। सूर्ये ज्योतिषि जुहो॑मि स्वा॒हा॥

प्राशनं (मध्याह्ने)

आपः पुनन्तु इत्यनुवाकस्य, आप ऋषिः अनुष्टुप् छन्दः, ब्रह्मणस्पतिर्देवता, अपां प्राशने विनियोगः॥

आपः॑ पुनन्तु पृथि॒वीं पृ॑थि॒वी पू॒ता पु॑नातु॒ माम्। पु॒नन्तु॒ ब्रह्म॑ण॒स्पति॒र्ब्रह्म॑ पू॒ता पु॑नातु॒ माम्॥

यदुच्छि॑ष्ट॒मभो॑॑ज्यं॒ यद्वा॑ दु॒श्चरि॑तं॒ मम। सर्वं॑ पुनन्तु॒ मामापो॑ऽस्॒तां च॑ प्रति॒ग्रह॒ꣴ स्वाहा॑॑॥

प्राशनं (सायम्)

अग्निशेत्यनुवाकस्य, सूर्य ऋषिः, गायत्री छन्दः, अग्निर्देवता, अपां प्राशने विनियोगः॥

अग्निश्च मा मन्युश्च मन्युपतयश्च मन्यु॑कृते॒भ्यः। पापेभ्यो॑ रक्ष॒न्ताम्। यदह्ना पाप॑मका॒र्षम्। मनसा वाचा॑ हस्ता॒भ्याम्। पद्भ्यामुदरे॑ण शि॒श्ना। अह॒स्तद॑वलु॒म्पतु। यत्किञ्च॑ कुरि॒तं मयि॑। इदमहं माममृ॑तयो॒नौ। सत्ये ज्योतिषि जुहो॑मि स्वा॒हा॥

पुनः प्रोक्षणम्

दधिक्राव्णः इति मन्त्रस्य, वामदेव ऋषिः, अनुष्टुप् छन्दः, विश्वेदेवा (दधिव्रावा) देवता॥ आपो हिष्ठेति मन्त्रस्य, सिन्धुद्वीप ऋषिः, देवी गायत्री छन्दः, आपो देवता, प्रोक्षणे विनियोगः

द॒धि॒व्राव्ण्णो॑ अकारिषम्।

जि॒ष्णोरश्व॑स्य वा॒जिनः।

सु॒र॒भि नो॒ मुखा॑करत्।

प्र ण॒ आयू॑ꣳषि तारिषत्॥

ॐ आपो॒ हि ष्ठा म॑यो॒ भुवः॑।

ता न॑ ऊ॒र्जे द॑धातन।

म॒हे रणा॑य॒ चक्ष॑से॥

यो वः॑ शि॒वत॑मो॒ रसः॑।

तस्य॑ भाजते॒ह नः॑।

उ॒श॒तीरि॑व मा॒तरः॑।

तस्मा॒ अरं॑ गमामवः।

यस्य॒ क्षया॑य॒ जिन्व॑थ।

आपो॑ ज॒नय॑था च नः।

ॐ भूर्भुवः॒सुवः॑।

आघ्राणम्

द्रुपदादिव मन्त्रस्य, (अमुक)ऋषिः, अनुष्टुप् छन्दः, द्रुपदा देवता, आघ्राणे विनियोगः॥

द्रु॒प॒दादि॑व मुञ्चतु। द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः। स्वि॒न्नः स्वा॒त्वी मला॑दिव। पू॒तं प॒वित्रेणे॒वाज्य॑॑म्। आपः॑ शुन्धन्तु॒ मैन॑सः॥

ऋ॒तं च॑ स॒त्यं चा॒भी॑॑द्धा॒त्तप॒सोऽध्य॑जायत। ततो॒ रात्रि॑रजायत॒ ततः॑ समु॒द्रो अ॑र्ण॒वः॥

स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत। अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी॥

सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत्। दिवं॑ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ सुवः॑॥

अर्घ्यप्रदानम्

ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं

प्रातः सन्ध्यार्घ्यप्रदानं करिष्ये।

माध्याह्निकार्घ्यप्रदानं करिष्ये।

सायं सन्ध्यार्घ्यप्रदानं करिष्ये।

अर्घ्य-प्रदान-मन्त्रस्य, विश्वामित्र ऋषिः, देवी गायत्री छन्दः। सविता देवता, अर्घ्यप्रदाने विनियोगः॥

ॐ भुर्भुवः॒सुवः॑। तत्स॑वि॒तुर्वरे॑॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचो॒दया॑॑त्॥

प्रायश्चित्तार्घ्यम्

ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं

प्रातःसन्ध्या-कालातीत-प्रायश्चित्तार्घ्य-प्रदानं करिष्ये।

माध्याह्निक-कालातीत-प्रायश्चित्तार्घ्य-प्रदानं करिष्ये।

सायं सन्ध्या-कालातीत-प्रायश्चितार्घ्यप्रदानं करिष्ये।

ॐ भूर्भुवः॒सुवः॑।

ऐक्यानुसन्धानम्

अ॒सावा॑दि॒त्यो ब्र॒ह्म। ब्र॒ह्मैवा॑हम॒स्मि॥

तर्पणम्

आदित्यं तर्पयामि। सोमं तर्पयामि। अङ्गाकरं तर्पयामि। बुधं तर्पयामि। बृहस्पतिं तर्पयामि। शुक्रं तर्पयामि। शनैश्चरं तर्पयामि। राहुं तर्पयामि। केतुं तर्पयामि।

केशवं तर्पयामि। नारायणं तर्पयामि। माधवं तर्पयामि। गोविन्दं तर्पयामि। विष्णुं तर्पयामि। मधुसूदनं तर्पयामि। त्रिविक्रमं तर्पयामि। वामनं तर्पयामि। श्रीधरं तर्पयामि। हृषीकेशं तर्पयामि। पद्मनाभं तर्पयामि। दामोदरं तर्पयामि॥

॥ गायत्रीजपः ॥

आब्रह्म-लोकात् आशेषात् आलोकालोकपर्वतात्। ये वसन्ति द्विजा देवाः तेभ्यो नित्यं नमो नमः॥

अपसर्पन्तु ये भूता ये भूता भुवि संस्थिताः। ये भूता विघ्नकर्तारः ते गच्छन्तु शिवाज्ञया॥

उग्र-भूत-पिशाचाद्याः ये च वै भूमि-भारगाः। एतेषामविरोधेन ब्रह्मकर्म समारभे॥

पृथ्वि त्वया धृता लोकाः देवि त्वं विष्णुना धृता। त्वं च धारय मां देवि पवित्रं कुरु चासनम्॥

शुक्लाम्बरधरं + विघ्नोपशान्तये॥

ॐ भूः + भूर्भुवः॒सुव॒रोम्॥

सङ्कल्पः

ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं

प्रातःसन्ध्या गायत्री महामन्त्र-जपं करिष्ये

आध्याह्निक-सन्ध्या गायत्री महामन्त्र-जपं करिष्ये

सायंसन्ध्या गायत्री महामन्त्र-जपं करिष्ये

प्राणायामः

प्रणवस्य ऋषिर्ब्रह्मा, देवी गायत्री छन्दः, परमात्मा देवता॥

भूरादिसप्तव्याहृतीनां, अत्रि-भृगु-कुत्स-वसिष्ठ-गौतम-काश्यप-आङ्गिरसा ऋषयः, गायत्री-उष्णिक्-अनुष्टुप्-बृहती-पङ्क्ति-त्रिष्टुप्-जगत्यः छन्दांसि, अग्नि-वायु-अर्क-वागीश-वरुण-इन्द्र-विश्वेदेवा देवताः॥

सावित्र्याः, विश्वामित्र ऋषिः, निचृद् गायत्री छन्दः, सविता देवता॥

गायत्री शिरसः, ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, परमात्मा देवता, प्राणायामे विनियोगः॥

आवाहनम्

आयात्विति अनुवाकस्य, वामदेव ऋषिः, अनुष्टुप् छन्दः, गायत्री देवता, आवाहने विनियोगः॥

आया॑तु॒ वर॑दा दे॒वी॒ अ॒क्षरं॑ ब्रह्म॒संमि॑तम्। गा॒यत्रीं॑॑ छन्द॑सां मा॒तेदं ब्र॑ह्म जु॒षस्व॑ नः॥

ओजो॑ऽसि॒ सहो॑ऽसि॒ बल॑मसि॒ भ्राजो॑ऽसि दे॒वानां॒ धाम॒ नामा॑सि॒ विश्व॑मसि वि॒श्वायुः॒ सर्व॑मसि स॒र्वायु॒रभि॑भूरोम्॥

गायत्रीमावा॑हया॒मि॒ सावित्रीमावा॑हया॒मि॒ सरस्वतीमावा॑हया॒मि॥

गायत्रीमन्त्रः

सावित्र्या ऋषिः विश्वामित्रः, निचृद् गायत्री छन्दः, सविता देवता, गायत्रीमहामन्त्रजपे विनियोगः

करन्यासः

तत्स॑वि॒तुः ब्रह्मात्मने अङ्गुष्ठाभ्यां नमः।

वरे॑॑ण्यं विष्ण्वात्मने तर्जनीभ्यां नमः।

भर्गो॑ दे॒वस्य॑ रुद्रात्मने मध्यमाभ्यां नमः।

धी॒म॒हि॒ ईश्वरात्मने अनामिकाभ्यां नमः।

धियो॒ यो नः॑ सदाशिवात्मने कनिष्ठिकाभ्यां नमः।

प्र॒चो॒दया॑॑त् सर्वात्मने करतलकरपृष्ठाभ्यां नमः।

अङ्गन्यासः

तत्स॑वि॒तुः ब्रह्मात्मने हृदयाय नमः।

वरे॑॑ण्यं विष्ण्वात्मने शिरसे स्वाहा।

भर्गो॑ दे॒वस्य॑ रुद्रात्मने शिखायै वषट्।

धी॒म॒हि॒ ईश्वरात्मने कवचाय हुम्।

धियो॒ यो नः॑ सदाशिवात्मने नेत्रत्रयाय वौषट्।

प्र॒चो॒दया॑॑त् सर्वात्मने अस्त्राय फट्।

भूर्भुवः॒सुव॒रोम् इति दिग्बन्धः

ध्यानम्

मुक्ता-विद्रुम-हेम-नील-धवल-छायैः मुखैस्त्रीक्षणैः युक्तां इदु-कला-निबद्ध-मकुटां तत्त्वार्थ-वर्णात्मिकाम्। गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गदाम् शङ्खं चक्रं अथारविन्द-युगलं हस्तैर्वहन्तीं भजे॥

बालार्कारुण-शोण-पाटल-मुखैः युक्तां कुमारीं गिरम् प्रातर्लोहित-विग्रहां भुवि-गतां सौख्यात्मिकां रासजीम्। बिभ्राणामभयं कमण्डलुमथाम्भोजाक्षमालां ब्रुवम् गायत्रीं हृदि हंसगां भवकरीं श्रीब्रह्मरूपां भजे॥

मुक्ता-पाण्डुर-हेम-धूसर-सितास्यां त्रिक्षणां व्योमगां मध्याह्ने सितविग्रहां सुयुवतीं सत्यात्मिकां तामसीम्। खट्वाङ्गाभय-शूलकानि दधतीं रुद्राक्षमालामुमाम् सावित्रीं वृषवाहनां क्षयकरीं श्रीरुद्ररूपां भजे॥

नीलेन्दीवर-मेचकैकवदनां वृद्धस्वरूपां रमां सायं-श्यामल-विग्रहां दिविगतां ज्ञानात्मिकां सात्विकीम्। शङ्खं चक्रमथाभयं च तुलसीमालां करैर्बिभ्रतीं तार्क्ष्यस्थां च सरस्वतीं स्थितिकरीं श्रीविष्णुरूपां भजे॥

पञ्चोपाचपूजा

लं पृथिव्यात्मने गन्धं समर्पयामि।

हं आकाशात्मने पुष्पाणि समर्पयामि।

यं वाय्वात्मने धूपं आघ्रापयामि।

रं अग्न्यात्मने दीपं दर्शयामि।

वं अमृतात्मने अमृतं निवेदयामि।

सं सर्वात्मने सर्वोपचारपूजाः समर्पयामि।

लं इत्यादि

ॐ। भूर्भुवः॒सुवः॑।

तत्स॑वि॒तुर्वरे॑॑ण्यम्। भर्गो॑ दे॒वस्य॑ धीमहि। धियो॒ यो नः॑ प्रचो॒दया॑॑त्॥

दिग्विमोकः

तत्स॑वि॒तुः ब्रह्मात्मने हृदयाय नमः।

वरे॑॑ण्यं विष्ण्वात्मने शिरसे स्वाहा।

भर्गो॑ दे॒वस्य॑ रुद्रात्मने शिखायै वषट्।

धी॒म॒हि॒ ईश्वरात्मने कवचाय हुम्।

धियो॒ यो नः॑ सदाशिवात्मने नेत्रत्रयाय वौषट्।

प्र॒चो॒दया॑॑त् सर्वात्मने अस्त्राय फट्।

भूर्भुवः॒सुव॒रोम् इति दिग्विमोकः

उपस्थानम्

प्रातःसन्धोपस्थानं करिष्ये

आदित्योपस्थानं करिष्ये

सायं सन्धोपस्थानं करिष्ये

उत्तमेत्यनुवाकस्य, वामदेव ऋषिः, अनुष्टुप् छन्दः, गायत्री देवता, गायत्रुपस्थाने विनियोगः॥

उ॒त्तमे॑ शिख॑रे दे॒वी॒ भू॒म्यां प॑र्वत॒मूर्ध॑नि। ब्रा॒ह्मणे॑॑भ्यो ह्य॑नुज्ञा॒नं॒ ग॒च्छ दे॑वि य॒थासु॑खम्॥

मित्रस्येति मन्त्रस्य विश्वेदेवा ऋषयः, गायत्री-त्रिष्टुभौ छन्दांसि, मित्रो देवता, प्रातःसन्धोपस्थाने विनियोगः

मि॒त्रस्य॑ चर्षणी॒ धृतः॒ श्रवो॑ दे॒वस्य॑ सान॒सिम्। स॒यं चि॒त्रश्र॑वस्तमम्॥

मि॒त्रो जना॑न् यातयति प्रजा॒नन् मि॒त्रो दा॑धार पृथि॒वीमु॒तद्याम्। मि॒तः कृ॒ष्टीरनि॑मिषा॒भिच॑ष्टे स॒त्याय॑ ह॒व्यं घृ॒तव॑द्विधेम॥

प्र समि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वान्॒ यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑। न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मꣳहो॑ अश्नो॒त्यन्ति॑तो न दू॒रात्॥

आसत्येन इति मन्त्रस्य, हिरण्यगर्भ ऋषिः, त्रिष्टुप् छन्दः, सविता देवता, आदित्योपस्थाने विनियोगः॥

आस॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्य॑न्॥

उद्व॒यं तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम्। दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम्॥

उदु॒त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः। दृ॒शे विश्वा॑य॒ सूर्य॑॑म्॥

चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः। आ प्रा॒ द्यावा॑पृथि॒वी अ॒न्तरिक्ष॒ꣳ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च॥

सृतं च म इत्येतद्वा

तच्चक्षु॑र्दे॒वहि॑तं पु॒रस्ता॑॑च्छु॒क्रमु॒च्चर॑त्। पश्ये॑म श॒रदः॑ श॒तम्। जीवे॑म श॒रदः॑ श॒तम्। नन्दा॑म श॒रदः॑ श॒तम्। मोदा॑म श॒रदः॑ श॒तम्। भवा॑म श॒रदः॑ श॒तम्। शृ॒णवा॑म श॒रदः॑ श॒तम्। प्र ब्र॑वाम श॒रदः॑ श॒तम्। अजीताः स्याम श॒रदः॑ श॒तम्। ज्योक् च॒ सूर्यं॑ दृ॒शे॥

य उद॑गान्मह॒तोऽर्णवा॑॑द्वि॒भ्राज॑मनाः सरि॒रस्य॒ मध्या॒त् समा॑वृष॒भो लो॑हिता॒क्षः सूर्यो॑ विप॒श्चिन्मन॑सा पुनातु॥

इमं मे तत्त्वा यामि इति मन्त्राणां शुनःशेफ ऋषिः, गायत्री-त्रिष्टुभौ छन्दांसि, वरुणो देवता, सायं सन्धोपस्थाने विनियोगः॥

इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युराच॑के॥

तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑॑स्ते॒ यज॑मानो ह॒विर्भिः॑। अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳ स॒मान॒ आयुः॒ प्रमो॑षीः॥

यच्चि॒द्धि ते॒ विशो॑ यथा॒ प्रदे॑व वरुन व्रतम्। मि॒नी॒मसि॒ द्यवि॑ द्यवि॥

यत्किञ्चे॒दं व॑रुन॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॑॑श्चरा॑मसि। अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मान॒स्तस्मा॒देन॑सो देवरीरिषः॥

कि॒त॒वासो॒ यद्रिरि॒पुर्न दी॒वि तद्वा॑घा स॒त्यमु॒त यन्न वि॒द्य। सर्वा॒ ता विष्य॑ शिथि॒रेव॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑॥

दिग्वन्दनम्

सन्ध्यायै नमः

सावित्र्यै नमः

गायत्र्यै नमः

सरस्वत्यै नमः

सर्वाभ्यो देवताभ्यो नमो नमः॥

कामोकार्षीन्मन्युरकार्षीन्नमो नमः॥

प्राच्यै दिशे नमः

दक्षिनायै दिशे नमः

प्रतीच्यै दिशे नमः

उदीच्यै दिशे नमः

प्रतीच्यै दिशे नमः

उदीच्यै दिशे नमः

प्राच्यै देशे नमः

दक्षिणायै दिशे नमः

ऊर्ध्वाय नमः

अधराय नमः

अन्तरिक्षाय नमः

भूम्यै नमः

ब्रह्मणे नमः

विष्णवे नमः

शिवाय नमः

यमाय नमः

यमाय धर्मर्राजाय मृत्यवे चान्तकाय च। वैवस्वताय कालाय सर्वभूतक्षयाय च।

औदुम्बराय दध्नाय नीलाय परमेष्ठिने। वृकोदराय चित्राय चित्रगुप्ताय वै नमः॥ चित्रगुप्ताय वै नम ॐ नम इति॥

ऋ॒तꣳ स॒त्यं प॑रं ब्रह्म पु॒रुषं॑ कृष्ण॒पिङ्ग॑लम्। ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमः॑॥ विश्वरूपाय वै नम ॐ नम इति॥

नर्मदायै नमः प्रातः नर्मदायै नमो निशि। नमोऽस्तु नर्मदे तुभ्यं त्राहि मां विषसर्पतः॥

जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः। अस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु॥ पन्नगेभ्योऽभिरक्षतु ॐ नम इति॥

अपसर्प सर्प भद्रं ते दूरं गच्छ महायशाः। जनमेजय-यज्ञान्ते अस्तीक-वचनं स्मरन्॥

ऋतꣳ सत्यं अपसर्प सर्पभद्रं ते + वचनं स्मरन

नमः सवित्रे जगदेक-चक्षुषे जगत्प्रसूति-स्थिति-नाश-हेतवे। त्रयीमयाय त्रिगुनात्म-धारिणे विरिञ्चि-नारायण-शङ्करात्मने॥

ध्येयः सदा सवितृमण्डल-मध्यवर्ती नारायणः सरसिजासन-सन्निविष्टः। केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृतशङ्खचक्रः॥

शङ्खचक्र-गदापाणे द्वारकानिलयाच्युत। गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम्॥

आकाशात् पतितं तोयं यथा गच्छति सागरम्। सर्वेदेव-नमस्कारः केशव प्रति गच्छति॥ श्रीकेशवं प्रति गच्छति ॐ नम इति॥

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽत्मना वा प्रकृतेः स्वभावात्। करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि॥ ॐ तत्सत् ब्रह्मार्पणमस्तु॥

अ॒द्यानो॑ देव सवितः प्र॒जाव॑त्सावीः॒ सौभ॑गम्। परा॑ दु॒ष्वप्नि॑यꣳ सुव। विश्वा॑नि देव सवितर्दुरि॒तानि॒ परा॑सुव। यद्भ॒द्रं तन्म॒ आसु॑व॥