०२ कुम्भः

अद्भिर् अवोक्ष्य
व्रीहीन् तत्र निक्षिप्य

तत्र ‘ब्रह्मजज्ञानम्’ इति कुम्भं निधाय

०३ ब्रह्म जज्ञानम् ...{Loading}...

ब्रह्म॑ +++(=मन्त्रः ([सौरमण्डलयज्ञे]))+++ जज्ञा॒नं +++(=उत्पन्नम्)+++ प्र॑थ॒मं पु॒रस्ता॑द्
वि सी॑म॒तस् सु॒रुचो॑ वे॒न आ॑वः
स बु॒ध्न्या॑ +++(=मूले भवः ([खस्य सूर्यः]))+++ उप॒मा अ॑स्य वि॒ष्ठाः +++(=विस्थितः)+++,
स॒तश्च॒ योनि॒म् +++(सूर्यम्)+++ अस॑तश्च॒ विवः॑ +++(=विवृतवान्)+++ ।

तस्मिन् गायत्र्या तिरः-पवित्रं निधाय

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

‘आपो वा इदं सर्वम्’ इत्यद्भिरापूर्य ऊर्ध्वाग्रं कूर्चं निधाय

२२ आपो वा इदम् ...{Loading}...

विश्वास-प्रस्तुतिः

आपो॒ वा इ॒दꣳ सर्वं॒
विश्वा॑ भू॒तान्य् आपः॑
प्रा॒णा वा आपः॑
प॒शव॒ आपो, ऽन्न॒म् आपो, ऽमृ॑त॒म् आपः॑
स॒म्राड् आपो॑, वि॒राड् आपः॑, स्व॒राड् आप॒श्
छन्दा॒ꣳ॒स्य् आपो॒, ज्योती॒ꣳ॒ष्य् आपो॒, यजू॒ꣳ॒ष्य् आप॑स्,
स॒त्यम् आप॒स्, सर्वा॑ दे॒वता॒ आपो॒,
भूर् भुव॒स् सुव॒र् आप॒
ॐ ॥

मूलम्

आपो॒ वा इ॒दꣳ सर्वं॒
विश्वा॑ भू॒तान्यापः॑
प्रा॒णा वा आपः॑
प॒शव॒ आपो ऽन्न॒मापो ऽमृ॑त॒म् आपः॑
स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्
छन्दा॒ꣳ॒स्यापो॒ ज्योती॒ꣳ॒ष्यापो॒ यजू॒ꣳ॒ष्याप॑स्
स॒त्यमाप॒स् सर्वा॑ दे॒वता॒ आपो॒
भूर्भुव॒स्सुव॒राप॒ ॐ ॥

‘भूर् भुव॒स् सुव॒र् ओम्’ इति अक्षतां निक्षिप्य

गन्ध-पुष्पैर् अलङ्-कृत्य

दूर्वा-पुष्प-फलैर् अवकीर्य

दूर्वा-दर्भैः प्रच्छाद्य

‘शन्नो देवी’र् इत्य् अभिमृश्य

०४ शं नो ...{Loading}...

शं नो॑ दे॒वीर॒भिष्ट॑य॒
आपो॑ भवन्तु पी॒तये॑ ।
शं योर्+++(=[अ]मिश्रणाय)+++ अ॒भि स्र॑वन्तु नः ॥ ०४॥

चतुर्-दिक्षु आसनेषु निषण्णैश् चतुर्भिर् ब्राह्मणैस् सह
कुम्भम् अन्वारभ्य