‘यावामिन्द्रावरुणे’ति चतुरः, ‘यो वामिन्द्रावरुणा’ इत्यष्टौ पर्यायान्,
[[3]]
Y A v Am ...{Loading}...
भास्करोक्त-विनियोगः
1’यः पाप्मना गृहीतस्स्यात्तस्मा एतामैन्द्रावरुणीं पयस्यां निर्वपेत्’ इत्यादि कारणं वक्ष्यति । तां पुरोडाशाच्चतुर्धा कृत्वा व्यूहति - यावामिन्द्रावरुणेति चतुर्भिर्मन्त्रैः॥ यतव्या सहस्या रक्षस्या तेजस्येति चतुर्णां विशेषः । शेषस्तुल्यः ।
विश्वास-प्रस्तुतिः
या वा॑म् इन्द्रा-वरुणा यत॒व्या॑ त॒नूस्
तये॒मम् अꣳह॑सो मुञ्चतम् ।
मूलम्
या वा॑मिन्द्रावरुणा यत॒व्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतम् ।
भट्टभास्कर-टीका
हे इन्द्रावरुणा इन्द्रावरुणौ । ‘सुपां सुलुक्’ इत्याकारः । ‘देवताद्वन्द्वे च’ इति पूर्वपदस्यानङ् । वां युवयोः या यतव्या तनूः शरीरं । यातूनि यातुधानाः रक्षांसि तेषां हननी रक्षोयातूनां हन्त्रीति यावत् । तया तन्वा इमं यजमानं अंहसः पापात् अमुञ्चतं शोधयतम् ॥
विश्वास-प्रस्तुतिः
या वा॑म् इन्द्रावरुणा
सह॒स्या॑ [त॒नूस्तये॒म् अमꣳह॑सो मुञ्चतम्] ।
मूलम्
या वा॑मिन्द्रावरुणा सह॒स्या॑ {रख्ष॒स्या॑ तेज॒स्या॑ } त॒नूस्तये॒ममꣳह॑सो मुञ्चतम् ।
भट्टभास्कर-टीका
2यावामित्यादि ॥ या सहस्या तनूः सहो बलं अभिभवितृत्वं तद्वती । ‘मत्वर्थे मासतन्वोः’ इति यत् । समानमन्यत् ॥
विश्वास-प्रस्तुतिः
[या वा॑मिन्द्रावरुणा] रख्ष॒स्या॑ [त॒नूस् तये॒मम् अꣳह॑सो मुञ्चतम्] ।
मूलम्
या वा॑मिन्द्रावरुणा {सह॒स्या॑} रख्ष॒स्या॑ {तेज॒स्या॑} त॒नूस्तये॒ममꣳह॑सो मुञ्चतम् ।
भट्टभास्कर-टीका
3यावामित्यादि ॥ या रक्षस्या तनूः रक्षसां हननी । स एव यत् । ततोनुषङ्गः ॥
विश्वास-प्रस्तुतिः
[या वा॑मिन्द्रावरुणा] तेज॒स्या॑ त॒नूस् तये॒मम् अꣳह॑सो मुञ्चतम् ।
मूलम्
या वा॑मिन्द्रावरुणा {सह॒स्या॑ रख्ष॒स्या॑} तेज॒स्या॑ त॒नूस्तये॒ममꣳह॑सो मुञ्चतम् ।
भट्टभास्कर-टीका
4यावामित्यादि ॥ या तेजस्या तनूः तेजस्विनी । पूर्ववन्मत्वर्थीयो यत् । स्पष्टमन्यत् ॥
भास्करोक्त-विनियोगः
5-12अथोपहोमा अष्टौ - योवामित्यादयः ॥
मूलम् (संयुक्तम्)
यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे॒ यो वा॑मिन्द्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ चतु॑ष्पाथ्सु गो॒ष्ठे गृ॒हेष्व॒फ्स्वोष॑धीषु॒ वन॒स्पति॑षु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे
विश्वास-प्रस्तुतिः
यो वा॑म् इन्द्रा-वरुणाव् अ॒ग्नौ स्राम॒स्
तव्ँ वा॑म् ए॒तेनाव॑यजे ।
मूलम्
यो वा॑मिन्द्रावरुणाव॒ग्नौ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे ।
भट्टभास्कर-टीका
अग्न्यादयो वनस्पत्यन्ता विशेषाः । शिष्टमष्टस्वप्यनुषज्यते । स्रावयति नाशयतीति स्रामः पाप्मा येनायं गृहीतः । यो वां युवयोस्सम्बन्धिनो यजमानस्य अग्नौ स्रामः अग्न्याधारः पाप्मा तेन कृतः तं वा युवयोस्सम्बन्धिनानेन कर्मणा अवयजे नाशयामि हे इन्द्रावरुणौ । अवपूर्वो यजिर्विनाशकर्मा ।
विश्वास-प्रस्तुतिः
यो वा॑म् इन्द्रा-वरुणा द्वि॒पाथ्सु॑ प॒शुषु॒ [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]
मूलम्
यो वा॑मिन्द्रावरुणा द्वि॒पाथ्सु॑ प॒शुषु॒
भट्टभास्कर-टीका
‘यो द्विपास्तु पशुषु स्रामः’ इति द्वितीये । द्विपादो मनुष्याः । ’ सङ्ख्यासुपूर्वस्य’ इति लोपस्समासान्तः, ‘पादः पत्’ इति पद्भावः, ‘द्वित्रिभ्यां पाद्दन्’ इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
[यो वा॑म् इन्द्रा-वरुणा] चतु॑ष्पाथ्सु प॒शुषु॒ [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]
मूलम्
चतु॑ष्पाथ्सु प॒शुषु॒
भट्टभास्कर-टीका
‘यश्चतुष्पात्सु पशुषु स्रामः’ इति तृतीये । स्वरवर्जं पूर्ववत् । गवादयः चतुष्पादः ।
विश्वास-प्रस्तुतिः
[यो वा॑म् इन्द्रा-वरुणा] गो॒ष्ठे [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]
मूलम्
गो॒ष्ठे
भट्टभास्कर-टीका
‘यो गोष्ठे’ इति चतुर्थे । गावस्तिष्ठन्त्यस्मिन्निति ‘सुपि स्थः’ इति कः । ‘अम्बाम्ब’ इत्यादिना षत्वम् ।
विश्वास-प्रस्तुतिः
[यो वा॑म् इन्द्रा-वरुणा] गृ॒हेषु [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]
मूलम्
गृ॒हेषु
भट्टभास्कर-टीका
‘यो गृहेषु’ इति पञ्चमे । ‘गेहे कः’ इति कः ।
विश्वास-प्रस्तुतिः
[यो वा॑म् इन्द्रा-वरुणाव्] अ॒फ्सु [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]
मूलम्
अ॒फ्सु ।
भट्टभास्कर-टीका
‘योप्सु’ इति षष्टे । ‘ऊडिदम्’ इति विभक्तेरुदात्तत्वम् ।
विश्वास-प्रस्तुतिः
[यो वा॑म् इन्द्रा-वरुणाव्] ओष॑धीषु॒ [स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।]।
मूलम्
ओष॑धीषु।
भट्टभास्कर-टीका
‘य ओषधीषु’ इति सप्तमे । यवादयः ओषधयः । ‘ओषधेश्च विभक्तौ’ इति दीर्घत्वम् ।
विश्वास-प्रस्तुतिः
[यो वा॑म् इन्द्रा-वरुणा] वन॒स्पति॑षु॒ स्राम॒स् तव्ँ वा॑म् ए॒तेनाव॑ यजे ।
मूलम्
वन॒स्पति॑षु॒ स्राम॒स्तव्ँवा॑मे॒तेनाव॑ यजे ।
भट्टभास्कर-टीका
‘यो वनस्पतिषु’ इत्यष्टमे । पलाशादयो वनस्पतयः । वनस्पत्यादित्वात्पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । पारस्करप्रभृतित्वात् सुट् ॥