०३ आवाहनादि

मध्यम-पालिकायाम्

ओं भूः ब्रह्माणम् आवाहयामि
ओं भुवः॑, प्रजापतिम् आवाहयामि,
ओꣳ सुवः॑, चतुर्-मुखम् आवाहयामि,
ओं भूर् भुव॒स् सुवः॑ - हिरण्य-गर्भम् आवाहयामि

ब्रह्मादिभ्यो नमः - ब्रह्मादीनाम् इदम् आसनम्

[[16]]

पूर्वपालिकायां -

ओं भूः इन्द्रम् आवाहयामि
ओं भुवः॑ वज्रिणम् आवाहयामि - ओꣳ सुवः॑, शतक्रतुम् आवाहयामि
ओं भूर् भुव॒स् सुवः॑, शचीपतिम् आवाहयामि

इन्द्रादिभ्यो नमः, इन्द्रादीनाम् इदम् आसनं

दक्षिण-पालिकायाँ

ओंभूः, यमम् आवाहयामि
ओं भुवः॑, वैवस्वतम् आवाहयामि
ओꣳ सुवः॑, पितृपतिम् आवाहयामि
ओं भूर् भुव॒स् सुवः॑, धर्मराजम् आवाहयामि
यमादिभ्यो नमः, यमादीनाम् इदमासनं

पश्चिमपालिकायां

ओं भूः - वरुणम् आवाहयामि
ओं भुवः॑, प्रचेतसम् आवाहयामि
ओꣳ सुवः॑, सुरूपिणम् आवाहयामि
ओं भूर् भुव॒स् सुवः॑, अपां पतिम् आवाहयामि
वरुणादिभ्यो नमः, वरुणादीनाम् इदमासनम् ।

[[17]]

उत्तरपालिकायां

ओं भूः सोमम् आवाहयामि
ओं भुवः॑ इन्दुम् आवाहयामि
ओꣳ सुवः॑, निशाकरम् आवाहयामि
ओं भूर् भुव॒स् सुवः॑, ओषधीशम् आवाहयामि
सोमादिभ्यो नमः, सोमादीनाम् इदम् आसनम् ।

पूजा

ब्रह्मेन्द्र-यम-वरुण-सोमादिभ्यो नमः,
अर्घ्यं समर्पयामि

इत्य्-आदि-षोडशोपचारान् समर्प्य, उत्थाय

दिशां पतीन् नमस्यामि
सर्वकामफलप्रदान् ।
कुर्वन्तु सफलं कर्म
कुर्वन्तु सततं शुभम् ॥

उपविश्य,