१२ दीक्षणीयेष्टिः

अथ दीक्षणीयायास्तन्त्रं प्रक्रमयति ।

आरम्भतः प्राग्यदि होमकालो हुत्वाग्निहोत्रं त्वथ दीक्षणीया ।

प्रधानयागात्पुरतो यदि स्यात् तदैव होमः परतो न होमः ॥

अध्वर्युः :- देवा गातुविद इत्यादि । अद्य यज्ञाय, इमामूर्जमेकादशीं — दैक्षणीयꣳ हविः । पौर्णमासं तन्त्रम् । सप्तदश सामिधेन्यः । बर्हिराहृत्य व्रतप्रवेशः । ततस्त्वां त्रयोविꣳशतिधा । अलङ्कृत्य, परिस्तीर्य, देवा देवेषु, कर्मणे वां इत्यादि । पात्रप्रयोगकाले एकादशकपालानि स्फ्यश्च द्वन्द्वम् । प्रणीताऽन्वाहार्यस्थालीवर्जमितराणि प्रकृतिवत् । न ब्रह्मवरणम् ।

न भूपतेऽहं न च सा म आशीर्न स्वामिभागो न च दक्षिणात्र ।

संपत्नीयं प्रागिह देवपत्न्या आज्येडया संस्थितिरत्र कार्या ॥

ब्रह्मा तूष्णीमतिक्रम्य मन्त्रेण निरसनोपवेशने करोति । अध्वर्युः - यजमान वाचं यच्छ । सं विशन्तां इत्यादि । निर्वपणकाले अग्नाविष्णुभ्यां जुष्टं निर्वपामि । अग्नाविष्णू हव्यꣳ रक्षेथाम् । अग्नाविष्णुभ्यां वो जुष्टं प्रोक्षामि । अग्नाविष्णुभ्यां जुष्टमधिवपामि । कपालानामुपधानकाले अष्टावुपधाय तूष्णीं त्रीणि । अग्नाविष्णुभ्यां जुष्टꣳ संवपामि । तूष्णीमभिघारणम् । प्रियेणेत्यासादनम् । अयं यज्ञो, ममाग्ने, चतुर्होतेत्यासन्नाभिमर्शनम् । होतरेहि, प्रस्तोतरेहि । अवद्यमाने साम । उपांशु प्रधानयागः । अग्नाविष्णुभ्यां (उपांशु)अनुब्रूहि (उच्चैः) । अग्नाविष्णू (उपांशु)यज (उच्चैः) । अग्नाविष्णुभ्यामिदम् । अग्नाविष्ण्वोरहं देवयज्यया वृत्रहा भूयासम् । न पार्वणहोमः । नारिष्ठान् हुत्वा । अविरुज्य प्राशित्रम् । न यजमानभागम् । इडायां सा मे सत्याशीराशीर्म ऊर्जमिति न भवत्या सवनीयपश्विडान्तम् । न दक्षिणा । अग्नाविष्ण्वोरहमुज्जितिम् । एमा अग्मन्निति न भवत्या सवनीयात् । पुरस्ताद्देवपत्नीभ्यः संपत्नीयं जुहोति । आज्येडान्ता दीक्षणीया सन्तिष्ठते ॥

इत ऊर्ध्वं दर्शपूर्णमासप्रकृतीनां सोमेऽग्न्यन्वाधानं व्रतोपायनं, आरण्याशनं, जागरणं, दक्षिणादानं, पत्न्यास्सन्नहनं, विमोचनमिति न विद्यन्त आ समाप्तेः । अग्न्यन्वाधानं तु दीक्षणीयायां क्रियेत, पत्न्याश्च सन्नहनम् । धारयति ध्रौवमाज्यम् ।