२९ सवनीयपुरोडाशानां प्रचारः

अध्वर्युः - जुह्वामुपस्तीर्य । सर्वेषां पुरोडाशानां जुह्वां दैवतानि समवद्यत्युपभृति सौविष्टकृतानि । मा भैष्ट मा संविग्ध्वं मा वो हिꣳसिषं मा वस्तेजोपक्रमीत् । भरतमुद्धरतेमनुषिञ्चतावदानानि वः१ प्रत्यवदास्यामि नमो वोऽस्तु मा मा हिꣳसिष्ट इति धानानामवदानम् । करम्भादीनां प्रकृतिवदवदानम् । यदवदानानि वोऽवद्यन् विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत्तद्व आ प्यायतां पुनः इति धानाः प्रत्यभिघारयति । अन्येष्वनूहः । स्विष्टकृदर्थं उपभृत्युपस्तीर्य प्रकृतिवदवदायाभिघार्य । प्रातः प्रातस्सावस्येन्द्राय पुरोडाशानामनुब्रू३हि । प्रातः प्रातस्सावस्येन्द्राय पुरोडाशानां प्रे३ष्य इति संप्रैषौ । वषट्कृते जुहोति । इन्द्रायेदम् । इन्द्रस्याहं देवयज्ययेन्द्रियाव्यन्नाद इन्द्रियाव्यन्नादोऽन्नाद इन्द्रियाव्यन्नाद इन्द्रियावी भूयासम् । जेमानं महिमानम् इति महेन्द्रयाजिनः । उपर्याहवनीये जुह्वामौपभृतानि विपर्यस्यन्नाह अग्नयेऽनुब्रू३हि । अग्नये प्रे३ष्य । अग्नय इदम् । अग्नेरहं देवयज्यया-युष्मान् यज्ञेन प्रतिष्ठां गमेयम् । प्रत्याक्रम्य प्रस्तरादन्यत्र स्रुचोस्सादनम् । प्राशित्रमवदाय यूपाहवनीययोरन्तरा हृत्वा दक्षिणेन हविर्धानं गत्वा सदः प्रविश्य ब्रह्मणे प्रयच्छति । ब्रह्मा तत्पूर्ववद्भक्षयति । अध्वर्युः - यथेतं प्रत्येत्य इडां, न यजमानभागम् ।