०७ समावेशनम्

अथ समावेशनम्

तद्-रात्रौ अन्यस्यां वा रात्रौ उपलिप्तं गन्धपुष्पधूपवासितं घृतदीपदीपितं स्वास्तरणतल्पयुक्तं गृहं पत्न्या सह प्रविश्य समावेशनं करिष्य इति सङ्कल्प्य ‘आरोहोरु’मित्यादि ‘देवेषु कृणुतो दुव’ इत्यन्तं जपित्वा तया सह संविशेत् । परदिनमारभ्य द्वादशाहं पूर्वोक्तक्षारलवणवर्जनादिव्रतम् एकरात्रोपवासं च सपत्नीकश्चरित्वा परेद्युः वैश्वदेवं पञ्जमहायज्ञानारभेत । ततोऽपरपक्षे मासिश्राद्धं च संवेशनानन्तरमपरपक्षश्चेत् पूर्वं मासिश्राद्धमारभ्य पश्चात्पूर्वपक्षे वैश्वदेवमारभेत । यद्यस्मिन् समावेशनकाले दैवादृतुगमनप्राप्ती तदा ‘आरोहोरु’मिति पूर्वं जपित्वा ‘विष्णुर्योनिम्’ इति पश्चादभिमन्त्र्य ततस्तया सह संविशेत् ॥

॥ इति प्रयोगचन्द्रिकायां पञ्चदशः खण्डः ॥