०५ वरुण-पूजा

१९ इमं मे ...{Loading}...

इ॒मं मे॑ वरुण श्रुधी॒ +++(=श्रुणु)+++
हव॑म्+++(=आह्वानम्)+++ अ॒द्या च॑ मृळय +++(=सुखय)+++।
त्वाम् अ॑व॒स्युर् आ च॑के +++(=अवदन्)+++॥

११ तत्त्वा यामि ...{Loading}...

तत् त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्
तद् आ शा॑स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑ळमानो +++(=अक्रुध्यन्)+++ वरुणे॒ह बो॒ध्य् उरु॑शंस॒
मा न॒ आयुः॒ प्र मो॑षीः

कुम्भे वरुणं आवाह्य,
षोडशोपचारान् समर्प्य,