०४ पूरणादि

आपः

२२ आपो वा इदम् ...{Loading}...

विश्वास-प्रस्तुतिः

आपो॒ वा इ॒दꣳ सर्वं॒
विश्वा॑ भू॒तान्य् आपः॑
प्रा॒णा वा आपः॑
प॒शव॒ आपो, ऽन्न॒म् आपो, ऽमृ॑त॒म् आपः॑
स॒म्राड् आपो॑, वि॒राड् आपः॑, स्व॒राड् आप॒श्
छन्दा॒ꣳ॒स्य् आपो॒, ज्योती॒ꣳ॒ष्य् आपो॒, यजू॒ꣳ॒ष्य् आप॑स्,
स॒त्यम् आप॒स्, सर्वा॑ दे॒वता॒ आपो॒,
भूर् भुव॒स् सुव॒र् आप॒
ॐ ॥

मूलम्

आपो॒ वा इ॒दꣳ सर्वं॒
विश्वा॑ भू॒तान्यापः॑
प्रा॒णा वा आपः॑
प॒शव॒ आपो ऽन्न॒मापो ऽमृ॑त॒म् आपः॑
स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्
छन्दा॒ꣳ॒स्यापो॒ ज्योती॒ꣳ॒ष्यापो॒ यजू॒ꣳ॒ष्याप॑स्
स॒त्यमाप॒स् सर्वा॑ दे॒वता॒ आपो॒
भूर्भुव॒स्सुव॒राप॒ ॐ ॥

०५ इमं मे ...{Loading}...

इ॒मं मे॑ गङ्गे यमुने सरस्वति॒
शुतु॑द्रि॒ स्तोमं॑ सचता॒+++(=आसेवध्वम्)+++, परु॒ष्ण्या +++(सहिते)+++ ।
अ॒सि॒क्न्या +++(सहिते)+++ म॑रुद्-वृधे वि॒तस्त॒या
ऽऽर्जी॑कीये शृणु॒ह्य् आ सु॒षोम॑या ॥

तमिऴ्

கீழண்டையில் தெற்கிலிருந்து வடக்காகவும் கீறி விட்டு தர்ப்பங்களை (நிர்ருதி திக்கில்) போட்டு விட்டு ஜலத்தைத் தொட்டு விட்டு, ஸ்தண்டிலத்தில் நடுவில் கிழக்கு நுனியாகத் தர்ப்பங்களைச் சேர்த்து, அதில் தூபம் பிடிக்கப்பட்டதாயும் நூல் சுற்றப்பட்டதாயுமுள்ள குடத்தை “பிரம்மஜஜ்ஞானம்” என்கிற மந்திரத்தினால் ஸ்தாபித்து அதன்மேல் வடக்கு நுனியாக திர: பவித்ரத்தை வைத்து ஜலம் சேர்க்கச் செய்ய வேண்டும். ஜலம் [[TODO:परिष्कार्यम्??]]

[[11]]

गङ्गे च यमुने चैव ...{Loading}...
विश्वास-प्रस्तुतिः

गङ्गे च यमुने चैव
गोदावरि सरस्वति
नर्मदे सिन्धुकावेरि
जलेऽस्मिन्सन्निधिं कुरु २७

मूलम्

गङ्गे च यमुने चैव गोदावरि सरस्वति
नर्मदे सिन्धुकावेरि जलेऽस्मिन्सन्निधिं कुरु २७

इत्यादिभिः कुम्भे जलमापूर्य,

उत्पवनम्

देवो वस् सविता ...{Loading}...

दे॒वो व॑स् सवि॒तोत्पु॑ना॒त्व्
अच्छि॑द्रेण प॒वित्रे॑ण +++(सूर्येण)+++ ।
वसो॒स्+++(=वासहेतोः)+++ सूर्य॑स्य र॒श्मिभिः॑ ॥+++(५)+++

+++(‘असौ वा आदित्योच्छिद्रं पवित्रम्’ (तै.ब्रा. 3.2.5) इत्यादि ब्राह्मणम् ।)+++

इति तिरः पवित्रेण
प्राचीस् त्रिर् उत्पूय,

सुवर्ण-निक्षेपः

०३ स हि ...{Loading}...

स हि रत्ना॑नि दा॒शुषे॑
सु॒वाति॑ सवि॒ता भगः॑ ।
तं भा॒गं चि॒त्रम् ई॑महे

इति कुम्भे सुवर्णं निक्षिप्य,

कूर्चम्

कूर्चाग्रैः राक्षसान् ...{Loading}...
विश्वास-प्रस्तुतिः

कूर्चाग्रैः राक्षसान् घोरान्
छिन्धि कर्म-विघातिनः।
त्वाम् अर्पयामि कुम्भेऽस्मिन्
साफल्यं कुरु कर्मणि॥

मूलम्

कूर्चाग्रैः राक्षसान् घोरान्
छिन्धि कर्म-विघातिनः।
त्वाम् अर्पयामि कुम्भेऽस्मिन्
साफल्यं कुरु कर्मणि॥

इति ऊर्ध्वाग्रं कूर्चन्निधाय,

चूत-पत्त्राणि

वृक्षराज-समुद्भूताः ...{Loading}...
विश्वास-प्रस्तुतिः

वृक्ष-राज-समुद्भूताः
शाखायाः पल्लव-त्वचः।
युष्मान् कुम्भेष्व् अर्पयामि
सर्व-दोषापनुत्तये॥

मूलम्

वृक्षराज-समुद्भूताः शाखायाः पल्लवत्वचः।
युष्मान् कुम्भेष्वर्पयामि सर्वदोषापनुत्तये॥

इति चूतपल्लवगुच्छानिघाय,

नारिकेलम्

नालिकेर-समुद्भूत ...{Loading}...
विश्वास-प्रस्तुतिः

नालिकेर-समुद्भूत
त्रि-नेत्र हर-सम्मित।
शिखया दुरितं सर्वं
पापं पीडां च मे नुद

मूलम्

नालिकेर-समुद्भूत त्रिनेत्र हरसम्मित।
शिखया दुरितं सर्वं पापं पीडां च मे नुद॥

इति नालिकेरं निधाय अलङ्कृत्य,