+भूमिका

यानि नित्यानि कर्माणि वेदविहितानीति प्रसिद्धानि तान्यग्निहोत्रादीन्येव, न तु स्मार्तानि पौराणिकानि तान्त्रिकाणि वा । गृहस्थैः प्रत्यहं नित्यं कर्म कर्तव्यं कर्मयोगरूपेणेति यद्वेदेषु विधीयते तदग्निहोत्रादीन्येवेति शाङ्करभाष्याध्येतॄणां सुविदितमेव । अत एव प्रस्थानत्रये नित्यानि कर्माणि इत्यस्य भाष्ये अग्निहोत्रादीनि कर्माणि इति स्पष्टं विवृतं दृश्यते । यथा द्विजानां गायत्री मुखं एवं वेदाः अग्निहोत्रमुखाः ।