४६ सवनीय इध्माबर्हीषोः आहरणम्

अत्र सवनीयस्य सवनीयानामिति इध्माबर्हिस्सन्नह्यति । न वा बर्हिः प्रस्तरमेव । अध्वर्युः - इषे त्वेत्यादि शाखामाच्छिनत्ति तूष्णीं प्लक्षशाखाम् । देवस्य त्वेत्यादि प्रस्तरं हृत्वा । देवबर्हिरित्यादि । शुल्बं वितत्य । अलुभिता योनिरिति केवलं प्रस्तरं निधाय बध्वानधो निदधाति । ततस्त्वां त्रयोविꣳशतिधा । ऐक्षवी विधृती कार्ष्मर्यमयाः परिधयः । इध्मप्रव्रश्चनानि निदधाति । वेदं कृत्वा । अन्तर्वेदिशाखाया इत्यादि । न पर्णवल्कम् । कुम्भीलेपनान्तम् । इमौ पर्णं च । परिस्तृणीत । उभावग्नी । देवा देवेषु । ततो यजमानस्य व्रतं प्रयच्छति ३। प्राजहिते दीक्षितस्य व्रतमित्याद्यपरेण शालामुखीयं व्रतमत्याहृत्य प्रयच्छति । ये देवा मनोजाता इति व्रतयति । हविर्धाने यजमानं जागरयन्ति प्राग्वंशे पत्नीम् । आग्नीध्रे एतां रात्रिं ऋत्विजो वसन्ति । यजमानो राजानं गोपायति गोपायति ।

॥ इति तृतीयोध्यायः ॥

