२७ पर्यग्निकरणम्

पर्यग्नये क्रियमाणायानुब्रू३हि संप्रेष्यति । आहवनीयादुल्मुकमादायाग्नीध्रः परि वाजपति: कविरग्निर्हव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे त्रिः प्रदक्षिणं पर्यग्नि करोति पशुम् । यूपमाहवनीयं शामित्रदेशं चात्वालम् । आज्यानि चेत्येके । अध्वर्युः - पर्यग्नौ क्रियमाणेऽपाव्यानि जुहोति । प्रजानन्तः — शरीरैस्स्वाहा । पशव इदम् । पशुपतेः पशवो विरूपास्सदृशा उत । तेषां यं वव्रिरे देवास्तꣳ स्वराडनुमन्यताꣳ स्वाहा । पशुपतय इदम् । आग्नीध्रः प्रत्यपिसृज्योल्मुकं त्रिः प्रतिपर्येति । ये बध्यमानमनु — संविदानस्स्वाहा । अग्नय इदम् । प्रमुच्यमाने ।