०२ सोमाप्यायनम्

अध्वर्युः - अग्नीन्मदन्त्यापाः इति पृच्छति । मदन्ति देवीरमृता ऋतावृधः आग्नीध्रः प्रत्याह । अध्वर्युः - ताभिरेहि इति सम्प्रेष्यति । एवा वन्दस्व वरुणं बृहन्तं नमस्याधीरममृतस्य गोपाम् । स नश्शर्म त्रिवरूथं वियꣳसत्पातं मा द्यावापृथिवी उपस्थे एतेनैव राजानं गच्छति सर्वत्र ५ । मदन्तीरुपस्पृश्य तानूनप्त्रिणो विस्रस्य राजानम् । अꣳशुरꣳशुस्ते देव सोमा प्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वाप्यायय सखीन्थ्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीय सहिरण्यैः पाणिभिराप्याययन्ति । अथ निह्नुवते दक्षिणे वेद्यन्ते प्रस्तरं निधाय दक्षिणान् पाणीनुत्तानान् कृत्वा सव्यान्नीचः एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्यै ।