अभिवादनम्

12 सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभिवादमभिवादयीतासावहम् ...{Loading}...

सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभिवादमभिवादयीतासावहं भो इति १२

13 समानग्रामे च वसतामन्येषामपि ...{Loading}...

समानग्रामे च वसतामन्येषामपि वृद्धतराणां प्राक् प्रातराशात् १३

14 प्रोष्य च समागमे ...{Loading}...

प्रोष्य च समागमे १४

15 स्वर्गमायुश्चेप्सन् ...{Loading}...

स्वर्गमायुश्चेप्सन् १५

16 दक्षिणम्बाहुं श्रोत्रसमम् प्रसार्य ...{Loading}...

दक्षिणम्बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीतोरःसमं राजन्यो मध्यसमं वैश्यो नीचैः शूद्रः प्रञ्जलिम् १६

17 प्लावनञ् च नाम्नोऽभिवादनप्रत्यभिवादने ...{Loading}...

प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां वर्णानाम् १७

18 उदिते त्वादित्य आचार्येण ...{Loading}...

उदिते त्वादित्य आचार्येण समेत्योपसङ्ग्रहणम् १८

19 सदैवाभिवादनम् ...{Loading}...

सदैवाभिवादनम् १९

20 उपसङ्ग्राह्य आचार्य इत्येके ...{Loading}...

उपसंग्राह्य आचार्य इत्येके २०

21 दक्षिणेन पाणिना दक्षिणम् ...{Loading}...

दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिमृश्य सकुष्ठिकमुपसंगृह्णीयात् २१

22 उभाभ्यामेवोभावभिपीडयत उपसङ्ग्राह्याव् इत्येके ...{Loading}...

उभाभ्यामेवोभावभिपीडयत उपसंग्राह्याव् इत्येके २२

18 अप्रयतेन नाभिवाद्यम् ...{Loading}...

अप्रयतेन नाभिवाद्यम् १८

19 तथाप्रयताय ...{Loading}...

तथाप्रयताय १९

20 अप्रयतश्च न प्रत्यभिवदेत् ...{Loading}...

अप्रयतश्च न प्रत्यभिवदेत् २०

22 न सोपानह्वेष्टितशिरा अवहितपाणिर्वाभिवादयीत ...{Loading}...

न सोपानह्वेष्टितशिरा अवहितपाणिर्वाभिवादयीत २२

23 सर्वनाम्ना स्त्रियो राजन्यवैश्यौ ...{Loading}...

सर्वनाम्ना स्त्रियो राजन्यवैश्यौ च न नाम्ना २३

24 मातरमाचार्यदारञ् चेत्येके ...{Loading}...

मातरमाचार्यदारं चेत्येके २४

26 कुशलमवरवयसं वयस्यं वा ...{Loading}...

कुशलमवरवयसं वयस्यं वा पृच्छेत् २६

27 अनामयङ् क्षत्रियम् ...{Loading}...

अनामयं क्षत्रियम् २७

28 अनष्टं वैश्यम् ...{Loading}...

अनष्टं वैश्यम् २८

29 आरोग्यं शूद्र म् ...{Loading}...

आरोग्यं शूद्र म् २९

30 नासम्भाष्य श्रोत्रियं व्यतिव्रजेत् ...{Loading}...

नासंभाष्य श्रोत्रियं व्यतिव्रजेत् ३०

31 अरण्ये च स्त्रियम् ...{Loading}...

अरण्ये च स्त्रियम् ३१

11 ऋत्विक्श्वशुरपितृव्यमातुलानवरवयसः प्रत्युत्थायाभिवदेत् ...{Loading}...

ऋत्विक्श्वशुरपितृव्यमातुलानवरवयसः प्रत्युत्थायाभिवदेत् ११

12 तूष्णीं वोपसङ्गृह्णीयात् ...{Loading}...

तूष्णीं वोपसंगृह्णीयात् १२

13 दशवर्षम् पौरसख्यम् पञ्चवर्षन् ...{Loading}...

दशवर्षं पौरसख्यं पञ्चवर्षं तु चारणम् । त्रिवर्षपूर्वः श्रोत्रियः अभिवादनमर्हति १३

14 ज्ञायमाने वयोविशेषे वृद्धतरायाभिवाद्यम् ...{Loading}...

ज्ञायमाने वयोविशेषे वृद्धतरायाभिवाद्यम् १४

15 विषमगतायागुरवे नाभिवाद्यम् ...{Loading}...

विषमगतायागुरवे नाभिवाद्यम् १५

16 अन्वारुह्य वाभिवादयीत ...{Loading}...

अन्वारुह्य वाभिवादयीत १६

17 सर्वत्र तु प्रत्युत्थायाभिवादनम् ...{Loading}...

सर्वत्र तु प्रत्युत्थायाभिवादनम् १७

21 पतिवयसः स्त्रियः ...{Loading}...

पतिवयसः स्त्रियः २१

25 दशवर्षश्च ब्राह्मणः शतवर्षश्च ...{Loading}...

दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः । पितापुत्रौ स्म तौ विद्धि तयोस्तु ब्राह्मणः पिता २५

13 समादिष्टमध्यापयन्तं यावदध्ययनमुपसङ्गृह्णीयात् ...{Loading}...

समादिष्टमध्यापयन्तं यावदध्ययनमुपसंगृह्णीयात् १३

14 नित्यमर्हन्तमित्येके ...{Loading}...

नित्यमर्हन्तमित्येके १४

15 न गतिर् विद्यते ...{Loading}...

न गतिर् +++(=शुश्रूषा)+++ विद्यते १५