०४ सोमप्रयोगे अवगन्तव्याः विषयाः

अध्वर्यो वेरपा इति होता अध्वर्युं पृच्छति । उतेमनन्नमुरिति प्रत्युक्त्वा प्रचरणीशेषात्क्रतुकरणं जुहोति इति सूत्रं वर्तते । अत्र उतेमनन्नमुरिति मन्त्रः कियत्पर्यन्तः इति संशयः । अत्र भाष्यकारो धूर्तस्वामी एवं मन्यते लब्धास्त्वया आपो न लब्धा इति प्रश्नः उतेमनन्नमुरुतेमाः पश्येति प्रतिवचनम् इति । तेन उतेमनन्नमुरुतेमाः पश्य इति मन्त्रः धूर्तस्वामिमतम् । अत्र तैत्तिरीयसंहितायां षष्ठकाण्डे चतुर्थः प्रश्ने तृतीयानुवाके एतस्मिन्नेव प्रश्नप्रतिवचनविषये सायणभाष्यं हे अध्वर्यो अपः किं अवेः लब्धवानसि इति होतुः प्रश्नः । उतेमनन्नमुः इत्यध्वर्योः उत्तरमन्त्रः । उतेमाः पश्य इति वाक्यं मन्त्रस्य व्याख्यानम् । अत्रैव भट्टभास्करभाष्यं अध्वर्यो वेरपा इति होता अध्वर्युं पृच्छति अत्र यत्प्रतिवचनं उतेमनन्नमुः इति तस्य अभिप्रायमाह उतेमाः पश्य इत्यादि । अत्र उतेमनन्नमुः इत्येतावान्मन्त्रः इति स्पष्टं ज्ञायते उभयोः भाष्यकारयोः मतेन ।

ऐतरेयब्राह्मणे अष्टमाध्याये द्वितीयखण्डे अवेरपोध्वर्या३ उ इति होताध्वर्युं पृच्छति आपो वै यज्ञोऽविदो यज्ञां३ इत्येव तदाह उतेमनन्नमुरित्यध्वर्युः प्रत्याह उतेमाः पश्येत्येव तदाह । अत्रापि श्रुत्या उतेमनन्नमुः इत्येतावान्मन्त्रः इति स्पष्टं निर्दिष्टः । अपि च सर्वत्र सूत्रकारेण प्रैषमन्त्रेषु संवादमन्त्रेषु च कृत्स्नमेव पठितम् । अत्र उतेमनन्नमुरित्येतावानेव पठितः इति तावानेव मन्त्रो भवितुमर्हति । एवं श्रुतिविरोधात्सूत्रविरोधाच्च धूर्तस्वामिमतं अयुक्तमिति मन्यामहे । परं तु सर्वत्र आपस्तम्बीय श्रौतप्रयोगेषु उतेमनन्नमुरुतेमाः पश्य इत्येवमेव पाठो दृश्यते । प्रयोगकारः प्रायेण भाष्यकारं धूर्तस्वामिनमनुसरति इति प्रसिद्धत्वात् अत्रापि तद्भाष्यानुसारी प्रयोगेण भूतं इत्यूहितुं शक्यम् । उतेमनन्नमुः इति मन्त्रः इति पूर्वोक्तहेतुभ्यां निर्णीतम् । अतः अस्माभिरपि प्रयोगे तथैव परिष्कृतम् ।

सूत्रकारेण दक्षिणाविषये वहवो विकल्पाः दर्शिताः । प्रयोगकारैस्तु तेषु योग्यतमत्वेन मतं पक्षं आधृत्य प्रयोगो दर्शितः । अन्येपि पक्षाः योग्यतराः अवगन्तव्याश्च । अन्येऽपि दक्षिणाविषयकाः केषांचन नियमाः सूत्रकारेण निबद्धाः । पाठकानां सौकर्याय अत्र ते सङ्गृह्यन्ते । सन्नेषु नाराशंसेषु दक्षिणा ददाति । बह्वपरिमितं, सप्त, एकविंशतिः, षष्टिः, शतं, द्वादशशतं, सहस्रं, सर्ववेदसं वा । अपरिमितं = असङ्ख्यातं न सङ्ख्याय ददातीत्यर्थः । सप्तादयः सङ्ख्याः गोविषयाः । द्वादशशतं = द्वादशाधिकशतम् । वेद इति धनाख्या । सर्ववेदसं सर्वस्वं ददातीत्यर्थः । तत्तु भूमिपुरुषवर्जं देयमिति न्यायदिदः । ज्येष्ठं वा पुत्रमपभज्य सर्ववेदसं ददाति । ज्येष्ठस्य वा पुत्रस्य भागं दत्वा शेषान् (पुत्रान्) अनुज्ञाप्य सर्ववेदसं ददाति । अश्वतरं साहस्रे सर्ववेदसे च ददाति । गर्दभाद्वडबायां जातो अश्वतरः । स च सर्वत्र अदेयः । साहस्रसर्ववेदसयोस्तु नित्यः । अविं सदात्यजां गामश्वं पुरुषं हस्तिनं वासो अनो रथमोदनं मन्थं माषान् तिलान् व्रीहियवान् गर्दभमित्यधिकानि अनियतानि । एतान्यपि द्रव्याणि यथोक्ताभ्यः दक्षिणाभ्यः अधिकानि इच्छन् ददाति । ददतस्तु क्रतुर्गुणवत्तरो भवति । नित्यवत् समुच्चयसंख्यानिवृत्यर्थमुक्तं अनियतानीति । गवां सङ्ख्या भवति या चात्र सप्ताधिका सङ्ख्या उक्ता सा गवामेव सङ्ख्या भवति । तथा ब्रह्मणे दद्यात् यथा अन्यां दक्षिणां नानुध्यायेत् । विशिष्टदक्षिणाभागं ब्रह्मणे ददाति यथा अन्यस्यां मनो न जायते मयेयं न लब्धा इति । अन्यत्र दक्षिणाभ्यः चमसाध्वर्युप्रसर्पकसदस्येभ्यः । अन्तस्सदस्यासीनेभ्यः ऋत्विग्भ्यो दद्यात् । हविर्धानेऽध्वर्युभ्यः । ऋत्विग्भ्यो नमस्करोति । यं यज्ञमागच्छेत् तं प्रसर्पेत् इति प्रसर्पकाणां विज्ञायते । यं यज्ञं दर्शनेप्सुः आगच्छेत् तं प्रसर्पेदिति अत्र सदः प्रविश्य आसीत इति । दक्षिणतः सदस्यासीनेभ्यः प्रसर्पकेभ्यो ददाति । न बहिर्वेदि । कस्मैचिदपि न बहिर्बेदि दद्यात् । न याचितः । न भीतः । न कण्वकश्यपेभ्यः । कण्वकश्यपगोत्राणां प्रतिषेधः । येषां कण्वः कश्यपो वा प्रवरे न तेभ्यो दानम् । कण्वं तु बधिरं विद्यात् सुरापं कश्यपं विदुः इति उपदेशनिगममतात् । न अब्राह्मणाय । ब्राह्मणायापि अविदुषे न देयम् । अप्यब्राह्मणाय विद्याविदे दद्यात् । यां स विद्यां वेद तां तयावरुन्धे । तस्माद्वेदनमेव दानार्हत्वे निदानं इति भावः । यां श्रोत्रियाय ज्ञातये वा अनृत्विजे प्रसृप्ताय यां स विद्यां वेद तां तयावरुन्धे । ज्येष्ठाय यया स देवतया ज्यैष्ठ्यं गच्छति तां तयावरुन्धे । यामार्षेयाय विदुषे स्वर्गं तया लोकमाप्नोति । यामन्यो दीयमानां न कामयेत यं द्विष्यात् तस्मै दद्यात् । सहान्येन धनेन । यत्प्रतिनुत्तां दक्षिणां गोषु चारयेत् प्रति वा गृह्णीयात् सलावृक्येनं भूत्वा प्रव्लिनीयात् । सर्वैः प्रत्याख्यातां गां यदि गोभिः सह चारयेत् स्वीकुर्याद्वा पृथक् चारयिष्यामीति सा शिवा भूत्वा एनं दंशेत् । अतः तां द्वेष्यायैव दद्यात् । यां अदानीयाय दक्षिणां ददाति तामस्य पशवो अन्वपक्रामन्ति । यदि मन्येतादानीयाय अदामिति नम इदमुपम्भिषगित्येतद्यजुर्जपेत् । गां वा दद्यात् ब्राह्मणाय । अदानीयः दान अयोग्यः । तस्मै दक्षिणां दत्वा प्रायश्चित्तमेतत्कुर्यात् । यदा मरुत्वते अनूक्तं अथ न देयं न प्रतिहृह्यम् । यदा मरुत्वते अनुवाक्या उक्ता तदा न देयं यजमानेन न च प्रतिग्राह्यमितरैः । अनूबन्ध्या वपायां हुतायां दद्यात् प्रति च गृह्णीयुः । अनूबन्ध्या वपायां हुतायां दद्याद्यजमानेन प्रतिगृह्णीयुश्च प्रसर्पकाः ॥