२६ उत्तररौहिणहोमः शकलहोमश्च

अत्र प्रतिप्रस्थाता पूर्ववत् उत्तरं रौहिणं जुहोति अहर्ज्योतिः केतुना जुषताꣳ सुज्योतिर्ज्योतिषाꣳ स्वाहा १। अह्ने ज्योतिष इदम् । अथैतान् षट् शकलानुपयमनेऽञ्जन् जुहोति । पूष्णे शरसे स्वाहा । पूष्णे शरस इदम् । ग्रावभ्यः स्वाहा । ग्रावभ्य इदम् । प्रतिरेभ्यः स्वाहा । प्रतिरेभ्य इदम् । द्यावापृथिवीभ्याꣳ स्वाहा । द्यावापृथिवीभ्यामिदम् । प्राचीनावीती - पितृभ्यो घर्मपेभ्यस्स्वाहा । पितृभ्यो घर्मपेभ्य इदम् । यज्ञोपवीत्यप उपस्पृश्य । षष्ठं शकलं सर्वेषु लेपेष्वङ्क्त्वानन्वीक्षमाण उदञ्चन्निरस्यति । रुद्राय रुद्रहोत्रे स्वाहा । रुद्राय रुद्रहोत्र इदम् । अप उपस्पृश्य ।